________________
चन्द्रप्रमचरितम्
न जगाद, अपि तु जगाद ॥ ८ ॥ भर्तृभिः सह यो मानोऽभवत् तमशक्नुवन् स्त्रीसमूहः कामसहायेन सहकारमकरन्दकर्बुरेण वायुना प्रत्यबाध्यतापीडितः ॥ ९॥ पुष्पविगलत्पुष्परसानुरागिणो मधुव्रता मिष्टा या वाणीविस्तारयामासुः, विसदृशाभिराभिर्गोभिः प्रवासिनः संपूर्ण हृदयस्थं वस्तु प्रयोजनं हालाहलं संबभूवे ॥ १०॥ तानि दिनानि समाश्रित्यानवरततपोनिष्ठानामपि यतीनां वसन्तस्य पुष्पेष्वलोकि तेषु मानसं मनः प्रस्फुरत्काममजायत ॥ ११ ॥ मन्दकम्पितबकुलवनेन वायुना स्पृष्टशरीराणां कामिनीनां मर्यादारहितेन मनोहरेण पञ्चमनादेनोदपादि ।। १२ ॥ अथ पञ्चभिः कुलकम् । भी सह काचित् कामिनी रुष्टा। तन्मानापसारणार्थ भी काचिद् दूती प्रेषिता वदति हे वयस्ये त्वं समागच्छ। तदा सा प्राह-हे सखि, अहं, नागमिष्यामि । त्वमाग्रहं मा भजस्व । यद् यस्मात् स दयितो मायाः कपटान् करोति । तस्य वक्तुमनुचितत्वेऽपि प्राणसदृशायास्तव भवत्याः पुरतः कथं गोप्यते अन्तर्बीयते । तेन तनु कृशमिदमङ्गक शरीरम् । पुष्टि स्थूलत्वं न तनुते ।। १३ ॥ यत् तस्य मयि ममतापि नास्ति तेन ममेदं मानसं संतापि तापयुक्तम् । हे सखि, तत् तस्मात् । अनेन तन्न मनेन मम दुःखप्रतीकारो मास्तु ॥ १४ ॥ मानकारणमाह-यः प्रियोऽपराधकारणेषु दुर्जनेशः तेन प्रणयिना सार्द्ध सुखलेशः कणोऽपि कः । तद् वयं वरं श्रेष्ठं महिमानं कुर्वन्तं युक्तमेव मानं विदधीमहि ॥१५॥ हे सखि, अहं दुःखितापि प्रियं दयितं गन्तुं प्राप्तुं न यते न प्रयत्नवती भवामि । किमर्थं. धाम्नि गृहवासार्थम् । किलक्षणं प्रियं, निय० नियतं निश्चितम् इहाभिलाषो यस्य सः। क्व, अप्रि० अनिष्टकरणे। किंलक्षणाप्यहम्, इत्याह अस्य मम वपुषः शरीरस्य, किंलक्षणस्य विधुरस्य वियुक्तस्य तापहारि संतापनाशकं चन्दनजलं न, वा विधुश्चन्द्रोऽपि नास्तीति ॥ १६ ॥ इति या अन्यदा वसन्तं विहाय आस्त तस्थौ । किंलक्षणा, वचनानि वदन्ती वाक्यानि भाषमाणा। कां. तिकां प्रति । क इव महान् दन्ती इव । पुल्लिङ्गोदाहरणं मानिन्या मदनिरूपणार्थम; दन्तिन्या मदाभावात । माधवो वसन्तस्तां वशेऽकुत व्यधत्त । कस्य प्रियस्य । किंलक्षणस्य, मधुरस्य मधु मिष्टं रौतीति मधुरस्तस्य मिष्टभाषिणः। पुनः किलक्षणस्य, धृता अवलम्बिता कामस्य धुरा येन स तस्य । अथवा महान् दन्ती इव वसन्तः शनैः समागत्य प्रियस्य वशे तामकृत ॥ १७ ।। अथ काचिन् मानिनी वसन्तोद्रेकान् मानं विहाय प्रियं गन्तुमुद्यतमना दूती गत्वा प्राह-मच्छुभैर्मम पुण्यस्तादृशीकै ( ? ) तथाविधः पटुः कार्यकरणचणा वयस्या सखी अकारि । यस्या मूतिर्मुखम् । ग्रहपतेश्चन्द्रस्य मूर्तिरिवोत्सव. करी । कस्य, सज्जनस्य प्रियस्य । त्वां दृष्ट्वैव सज्जनः साो भविष्यतीति भावः । किंलक्षणस्य, सविकासिनी प्रसरमाणा कला चातुर्य यस्य तस्य । पुनः किंलक्षणस्य, सकलस्य समग्रस्य अद्य यावन् मां प्रति न त्रुटित इत्यर्थः। वा त्वं सकलस्य सविकासिकलस्य सज्जनस्य स्वसंबन्धिनः ॥ १८ ॥ हे आलि सखि, तत् तस्माद. दयितं वल्लभं. प्रगम्य गत्वा. त्वम उचिताभिरभिलषिताभिर्वाग्भिनिगदेः वदेः । अत्रार्थान्तरमुपन्यस्यते-यत् कार्य, प्रियमनुकूलमेकवचो येषां ते प्रियकवचसस्तेषामिष्टभाषिणां, जायते उत्पद्यते. तद अपरस्याप्रियकवचसः, किंलक्षणस्य, असाम अप्रेमपरं वाक्यं तेन परस्य [अ] मिष्टस्य न जायते । अतस्त्वया मिष्टमेव वाच्यमिति ॥ १९॥ हे सखि, अनेन कार्येण विधीयमानेन, अहं तव सदा किंकरी दासो भवामि । त्वं मन्मनो मम चित्तं, प्रियतमस्य वल्लभस्यानयनेन, ह्लादय मोदय । किंलक्षणं मन्मनः, सुरतं कामं व्यवायं कामयते इति सुरतकामि । पुनः किंलक्षणं, सह दाहेन वर्तते इति सदाहं दाहयुक्तम् । हे मृगीनयने, अत्र त्वं न क्षमा, (इति) न, अपितु क्षमैव । वा मन्मनः प्रियतमानयनेन ह्लादय । अहं तव सदा किंकरी न भवामि, अपि तु भवामि । अत्र त्वं क्षमा न, अपितु क्षमा असि ॥ २० ॥ हे मानिनि, मधुदिनानि मम मानसं तापयन्ति । किंलक्षणं, तान्तं क्लिष्टम् । कथं, नितान्तम् अतिशयेन । तत् त्वं दयितं मम दयमानं दयां कुर्वाणं विधेहि । किंलक्षणं दयितं महोदयो मानो यस्य स तं गरिष्ठ उ (ष्ठो) दयमानयुक्तम् । कै. साममिः । 'साम प्रेमपरं वाक्यं नैदानं वैतस्य चार्पणम्' इति वचनात् ॥ २१ ॥ इति काचिद् दूतिकां विनयेन जगौ। किंलक्षणा, उत्पलयोस्तुला [ सहे ] सादृश्यासहे नेत्रे यस्याः सा। पुनः किलक्षणा, रन्तुं क्रीडितुमुत्सुकमनाः उत्कण्ठहृदया। केन, नेत्रा भ; सह । किंलक्षणेन विनयेन, येन भावि भविष्यस्काले, दुःखं क्लेशो न उद्भवति
१. ब पटानुकरोतु । २, बवचनो । ३. ज निष्टस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org