________________
४४१
- १८, ७.]
अष्टादशः सर्गः इति गत्यादिभेदेन कृता जीवनिरूपणा । कुर्वे संप्रत्यजीवस्य किंचिद्र पनिरूपणम् ॥६६।। धर्माधर्मावथाकाशं कालः पुद्गल इत्यपि । अजीवः पञ्चधा शेयो जिनागमविशारदैः ।।६७।। एतान्येव सजीवानि षड् द्रव्याणि प्रचक्षते । कालहीनानि पञ्चास्तिकायास्तान्येव कीर्तिताः ॥१८।। जलवन्मस्त्ययानस्य तत्र यो गतिकारणम् । जीवादीनां पदार्थानां स धर्मः परिवर्णितः ॥६॥ लोकाकाशमभिव्याप्य' संस्थितो मूर्तिवर्जितः ।
नित्यावस्थितिसंयुक्तः सर्वज्ञज्ञानगोचरः ।।७।। त्रिंशत् त्रिंशत्सागरोपमा इति । एकैकेन एकैकसागरोपमेण । वृद्धिः प्रवृद्धिः । कीर्तिता ॥६५॥ इतीति । इति एवम् । गत्यादिभेदेन गत्यादोना भेदेन विकल्पेन जीवनिरूपणा जीवतत्त्वप्ररूपणा। कृता विहिता। संप्रति इदानीम् । अजीवस्य अजीवतत्त्वस्य । रूपनिरूपणं रूपस्य स्वरूपस्य निरूपणमनुवर्णनम् । किंचित् स्तोकम् । कुर्वे ब्रुवे विदधामीति वा ॥६६॥ धर्मेति । अथ अनन्तरम् । अजीवः अजीवतत्त्वमिति । धर्माधर्मो धर्मद्रव्याधर्मद्रव्ये। आकाशम् आकाशद्रव्यम् । काल: कालद्रव्यम् । पुद्गल इति पुद्गलद्रव्यमिति । "जिनागमविशारदैः जिनागमे विशारदै. प्रौढैः । पञ्चधा पञ्चप्रकारैः। ज्ञेयः वेदितव्यः ॥६७॥ एतानीति । सजीवानि जीवतत्त्वसहितानि । एतान्येव धर्माधर्मादीन्येव । षड़ द्रव्याणीति । प्रचक्षते ब्रुवते । चक्षि व्यक्तायां वाचि । कालहीनानि कालेन कालद्रव्येण हीनानि रहितान्येव । षड् द्रव्याण्येव । पञ्चास्तिकायाः पञ्चास्तिकाया इति । कीर्तिताः निरूपिताः ॥६८। जलवदिति । तत्र पडद्रव्यष। मस्त्ययानस्य मत्स्यस्य मीनस्य यानस्य गमनस्य। जलवत स ललवत । यः । जीवादीनां जीवादिप्रभतीनाम् । द्रव्याणाम् । स. धर्म: धर्मपदार्थ इति । परिवर्णितः निरूपितः ॥६९॥ लोकेति । लोकाकाशं लोके वर्तमानमाकाशं तथोक्तम् । अभिव्याप्य व्यापयित्वा। संस्थितः आस्थितः । मूर्तिवजितः मूल वजितो रहितः । नित्यावस्थितिसंयुक्तः नित्यया अवस्थित्या संयुक्तः सहितः।
नौ अनुदिशों और पाँच पञ्चोत्तरोंमें क्रमशः एक-एक सागरको आयु बढ़ती जाती है, जो सर्वार्थसिद्धिमें तेतीस सागरोपम तक होती :-पहले ग्रैवेयक में तेईस सागरकी आयु है, इससे ऊपरके ग्रैवेयकोंमें एक-एक सागरकी आयु बढ़ती जातो है। फलतः अन्तिम वेयकमें इकतीस सागरकी आयु है। नौ अनुदिशोंमें बत्तीस सागरको आयु है और पांच पञ्चोत्तरोंमें तेतीस सागरकी ॥६५।। इस प्रकार गति आदिके भेदकी दृष्टि से जीवका निरूपण किया। अब कुछ अजीवके स्वरूपका निरूपण करता हूँ ॥६६॥ जैन आगमके विशारदोंके द्वारा जानने योग्य अजीव द्रव्य पाँच प्रकारके हैं-धर्म, अधर्म, आकाश, काल और पुद्गल भी ॥६७। इन पाँच द्रव्यों में जीव द्रव्यको मिला दिया जाय तो छह द्रव्य हो जाते हैं, और इनमेंसे काल द्रव्य निकाल दिया जाय तो पाँच अस्तिकाय हो जाते हैं ।।६८॥ जिस प्रकार मछलियोंके चलने में जल सहायक होता है, उसी प्रकार जो जीवों और पुद्गलोंको चलनेमें सहायक हो-उनके गमन में कारण हो, उसे धर्म द्रव्य कहते हैं ( इसीको आधुनिक विज्ञान ईथर कहता है ) ॥६९॥ धर्म द्रव्य सारे लोकाकाशमें व्याप्त है, अमूर्तिक है और है नित्य । अमूर्तिक होनेसे यह इन्द्रिय गोचर नहीं
१. अमधिव्याप्य । २. शतत्त्वरूपणा । ३. श जीवागम । ४. श जीवागमे । ५. आ आसितः।
५६.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org