________________
४५६
स घातितयजैरेभिरपरैर्दशभिर्गुणैः । रराज रजसा मुक्तो मुक्तिसंगमनोत्सुकः ॥ १४० ॥ सर्वभाषात्मिका तस्य सर्वसत्त्वावबोधिनी । मागधी या बभौ भाषा मैत्री चाखिलगोचरा ॥ १४१ ॥ जज्ञे विहारतस्तस्य सर्वर्तुफलशालिनी । कृतरत्न' विनिर्माणा भूर्दर्पणलोपमा ॥ १४२ ॥ पादौ विरेजतुस्तस्य हेमाब्जरुचिपिञ्जरौ । जितेन रागमल्लेन भयादिव समाश्रितौ ॥ १४३ ॥ इत्येवमादिभिश्चान्यैः स चतुर्दशभिर्जिनः । दिद्युतेऽतिशयैर्देवनिकायपरिकल्पितैः ॥ १४४ ॥
चन्द्रप्रभचरितम्
रजसा कर्मणा । मुक्तः त्यक्तः । मुक्तिसंगमनोत्सुकः मुक्तेर्मोक्षस्य संगमने संयोजने उत्सुकः तत्परः । सः भगवान् । [ अ ] परैः उत्कृष्टेः । घातिक्षयजैः घातिनां घातिकर्मणां क्षयजैः क्षयेण नाशेन जनितैः । एभिः एतैः । दशभिः दशसंख्यैः । गुणैः । रराज बभो । राजन् दीप्तौ लिट् ॥ १४० ॥ सर्वेति । सर्वभाषात्मिका सर्वाः सकला भाषा एव स्वरूपं यस्याः सा । सर्वसत्त्वावबोधिनी सर्वेषां सत्त्वानां प्राणिनामवबोधिनी उपदेशिनी । मागधीया
[ १८, १४० -
देश संबन्धा । तस्य भगवतः । भाषा दिव्यध्वनिः । अखिलगोचरा अखिला एव गोचरो विषयो यस्याः सा । मैत्री च मित्रता च ।। १४१ । जज्ञ इति । तस्य भगवतः । विहारतः श्रीविहारात् । सर्वर्तुफलशालिनी सर्वेषाम् ऋतूनां फलैः शालिनी संपूर्णा । कृतरत्नविनिर्माणा कृतं विहितं रत्नविनिर्माणं यस्याः सा । दर्पणतलोपमा दर्पणस्य वादर्शस्य तलस्य प्रदेशस्योपमा समाना । भूः भूमिः । जज्ञे जायते स्म । जनै प्रादुर्भावे लिट् ॥ १४२ ॥ पादाविति । हेमाब्ज रुचिपिञ्जरौ हेमाब्जानां हेमारविन्दानां रुच्या कान्त्या पिञ्जरी उपरञ्जित । तस्य भगवतः । पादौ चरणौ । जितेन निराकृतेन । रागमल्लेन राग एव मल्लः तेन । भयात् भीतेः । समाश्रिताविव सेविताविव । रेजतुः बभतुः | लिट् ॥ १४३ ॥ इतीति । इत्येवमादिभिः इत्येवं प्रमुखैः । देवनिकाय परिकल्पितैः देवानाममराणां निकायेन समूहेन परिकल्पतैर्निर्मितैः । चतुर्दशभिः चतुर्निरधिकैर्दशभिः अतिशयैः । अन्यैश्च शेषैश्च । सः जिनः चन्द्रप्रभजिनेशः " । दिद्युते बभासे । द्युति दीप्ती लिट्
उनका शरीर नखों और केशोंकी वृद्धिसे रहित था ॥ १३९ ॥ ज्ञानावरण, दर्शनावरण, मोहनीय और अन्तराय इन चार घातिया कर्मोंके नष्ट हो जाने से - केवलज्ञान उत्पन्न हो जानेसे प्रकट हुए उक्त दस गुणोंसे सुशोभित थे, और वे कमंरजसे मुक्त होकर मुक्ति के समागम के लिए उत्सुक थे ॥१४०॥ उनको भाषा अर्धमागधी थी । उसमें यह विशेषता थी कि वह समस्त भाषाओं में परिणत हो जाती थी और इसीलिए वह समस्त प्राणियोंकी समझमें आ जाती थी । समस्त प्राणियों में परस्पर मित्रता हो गई थी ॥ १४१ ॥ उनके विहार करते समय सभी ऋतुओंके फल-फूल एक ही साथ उत्पन्न हो गये, तथा रत्नजड़ित पृथिवी, दर्पणतलकी भांति दृष्टिगोचर होने लगी ॥१४२॥ स्वर्णकमलोंकी कान्तिसे प्रभावित होकर उनके दोनों चरण ऐसे सुशोभित हो रहे थे मानो उन ( चन्द्रप्रभ ) के द्वारा पराजित किया गया राग रूपी मल्ल भयके मारे उनके चरणोंकी शरण में आगया हो । ( विहारके समय देव लोग उनके चरणोंके नीचे कमल रख देते थे ) ॥ १४३ ॥ | देव वर्गके द्वारा किये गये इन ( श्लोकों में वर्णित ) तथा
Jain Education International
१. म कृतरक्त । २. = सहजातिशय भिन्नैः । ३ श घातीनां । ४. श क्षयेन । ५. श मागव ६. श अखिलानि । ७ = यस्याः सा तत्समाना- इत्यर्थः । ८ श 'जिनेश्वरः ।
For Private & Personal Use Only
1
www.jainelibrary.org.