Book Title: Chandraprabhacharitam
Author(s): Virnandi, Amrutlal Shastri
Publisher: Lalchand Hirachand Doshi Solapur

View full book text
Previous | Next

Page 530
________________ पञ्जिका पृष्ठतः परिधावति; । यतो मोक्षः कर्मक्षयो निगद्यते, सचानुमानतः सिद्धः ।। ९१ ॥ तथा हि' क्वचिदपि पुंसि पक्षः । कृत्स्नावृतिक्षयोऽस्तीति साध्यो धर्मः। तत्कार्यसकलज्ञत्वस्यान्याथानुपपत्तेः। आवृतिक्षयः कारणं सर्वज्ञत्वं च कार्यम ।। ९२ ।। ननु च सर्वज्ञः कश्चिद् नास्ति, साधकाभावात्, इति चेत्, कस्यचित् सर्वज्ञत्व. मसिद्धं न, बाधकात्ययात्--बाधकाभावात् । सर्वत्र वस्तुव्यवस्थितिबधिकाभावादेव ।। ९३ ।। तथाहि-तस्य बाधकं तावत् प्रत्यक्षं नोपपद्यते, अक्षजत्वात् । तस्यात्यक्षेऽतीन्द्रिये विधिर्न निषेधनं न ॥ ९४ ॥ अनुमानमपि तबाधां विधातुं क्षमं न; यतोऽखिलं पुरुषत्वादि तल्लिङ्गं व्यभिचारि दृश्यते ॥ ९५॥ कथं तल्लिङ्गं व्यभिचारि, इति चेत्, यथा हि पुरुषत्वेऽपि कस्यापि वेदार्थज्ञानगोचरोऽतिशयस्तद्वत् कस्यापि सर्वार्थज्ञानगोचरोऽपि ॥ ९६ ॥ यथा देशान्तरे कालान्तरे चाखिलो रासभः शृङ्गी न तथा देशान्तरे कालान्तरे कश्चित् पुमान् सर्वज्ञोऽपि नास्ति [॥९७॥] इत्याद्यपमानं हि युक्तं न, इष्टविघातात । कथमिष्टविघातः, इति चेत्, तथाहि--खचरादीनां खगमनादिकं न स्यात् । यथावत्येदानोन्तनपुरुषाः खगामिनो न, तथा देशान्तरे कालान्तरे च नैवेतीष्टविघातः ॥ ९८ ॥ तस्माद् यस्य सा सकलज्ञता असौ नरविशेषः । तथैव खरविशेषश्चेत् विषाणिता य स्यात् ।। ९९ ।। तहि अर्थापत्तिः सर्वज्ञाभावसाधिका, इति चेत्, न, अर्यापत्तिरपि सर्वज्ञाभावसाधिनी नास्ति, तेन विना सर्वज्ञाभावप्रतिबद्धः कोऽर्थः सम्भवी यस्तं सर्वज्ञाभावं प्रकल्पयेत् ।। १००॥ आगमेनापि कर्तृकेनाकर्तृकेन वा सर्वज्ञो न बाध्यते, कर्तृहीनस्य तस्याप्याग [ म ] स्यात्यन्तमसंभवात् ॥ १०१ ॥ अकर्तृक एवागमः, कर्तुरस्मरणात्, इति चेत्, कर्तुरभावः कर्तुरस्मरणादिभ्यो न सिद्धयति, अज्ञातकर्तृकैर्वाक्यैव्यभिचारस्य संभवात्--घटनात् ॥ १०२ ॥ पौरुषेयेष्वसंभवी कश्चिद्विशेषो पौरुषेये नास्ति । यथा अतीन्द्रियार्थसंवादोऽपौरुषेये तथा पौरुषेयेऽपि दृश्यते ।। १०३ ॥ ततो विवादापन्नं शास्त्रं सकतकं दृष्टं, दृष्टकर्तृकतुल्यत्वात् । यद् दृष्टकर्तृकतुल्यं तत् सकर्तृकं, यथा अकलङ्कादिशास्त्रम् [ ॥ १०४ ॥ ] तस्मादकर्तृकं शास्त्रं सर्वज्ञबाधकं नास्ति, कृतकं च । तत् कृतकं द्विधा भिन्नं सर्वज्ञकर्तृकमसर्वज्ञकर्तृकं चेति [ ॥ १०५ ।। ] ताबद् असर्वज्ञप्रणोतमतीन्द्रिये प्रमाणं न । तु-पुनः । सर्वज्ञप्रणोतं तस्य प्रत्युत साधकमेव ।। १०६ ।। प्रस्तुतस्य प्रमाणपञ्चकाभावः प्रत्यक्षादिनिराकृतिः ॥ १०७ ॥ अक्षादिबुद्धिवत-इन्द्रियज्ञानं यथा ।। १०८ ॥ रत्नत्रयनिबन्धनः--रत्नत्रयं निबन्धनं कारणं यस्य सः॥ १०९ ।। चुम्बकैः-चुम्बकपाषाणरिव । आचकर्ष निष्काषयति स्म ॥ ११० ।। प्रपद्य अङ्गीकृत्य निश्त्वियेत्यर्थः ।। १११ ।। आरेभे प्रारब्धा । परा उत्कृष्टा ।। ११२॥ तृतीये पुष्करार्धनामनि । लताभवनैः वल्लीमण्डपैः ॥ ११३ ॥ सीतोदा नाम नदी तस्या उत्तरदिक्तटम् ॥ ११४ ।। बृहदु० दीर्घावंदण्डपक्षातपवारणशोभाम् ॥ ११५ ।। अर्थवतीम् अर्थयुक्ताम् ॥ ११६ ॥ अकृष्टपच्यैः लाङ्गलाद्यप्रयासपच्यैर्धान्यैः पूर्णे। निरीतो ईतिरहिते । 'अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः । स्वचक्रं परचक्र च सप्तता ईतयः स्मृताः।' निरवग्रहे अवृष्टिरहिते ॥ ११७ ॥ कुक्कुटसंपात्यैः कुक्कुटसंपाते वसन्तीति कुक्कुट संपात्यास्तैः ॥ ११८ ॥ परलोकक्रियोद्यताः प्रत्यभावक्रियोद्य मिनः ॥११९॥ अध्वन्याः पथिकाः ॥ १२० ॥ जिगीषतीव [जेतुमिच्छतोव ] || १२१ ॥ कृष्णानि मलिनानि । चरितानि आचरणानि ।। १२२ ॥ निगमाः ग्रामाः ।। १२३ ॥ मज्जत्सी० ब्रडविलासिनीसमूहस्तनविगलत्काश्मीरैः । जलधियोषितः नद्यः ॥ १२४ ।। त्रिविष्टपं त्रिदशालय इव ॥ १२५ ॥ रत्नोपलमरीचिभिः रत्नपाषाणकरैः । ज्योतिर्गणविभा नक्षत्रनिकरदीप्तिः ॥ १२६ ।। मिमोते जानीते । शालसं० प्राकारान्तरितसूर्यमृगानोदयम् ।। १२७ ॥ अकाण्डेऽपि अकालेऽपि ।। १२८ ।। वासराधिपतिः सूर्यः । तुङ्गप्रतोलोशिखरम् उच्चपुरद्वारेशिरः । ॥ १२९ ।। तारतारा० मनोहरोडुसमूहैः ॥ १३० ॥ उत्तम्भितोडुभिः स्थगिततारकैः ॥ १३१ ॥ मानेन प्रमाणेनावलेपेन वा । महाभोगाः परिपूर्णतासहिताः, गरिष्ठभोगाश्च । मत्तवा० प्रग्रीवराजमानाः प्रभिन्नगजशोभिनश्च । बहुभूमियुताः बहुक्षणसहिताः प्रचुरभूभि [-भाज ] श्च ॥ १३२ ॥ घनकिजल्कः प्रचुरकेसरः । हिरण्यखचिता सुवर्णनिर्मिता ॥ १३३ ॥ पातालोपवनारेका पातालवनभ्रान्तिम् ॥ १३४ ॥ काशसंकाशा काशो नाम तृणजातिः ॥ १३५॥ मुग्धस्त्रीणां बालाङ्गनानाम् [॥१३६ ॥ ] मज्जत्पु० ब्रुडत्सुचरित्रा १. ब पि । २. ब 'द्वार' इति नास्ति । ३. ब 'काशो' इति नोपलभ्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616