________________
पञ्जिका
पृष्ठतः परिधावति; । यतो मोक्षः कर्मक्षयो निगद्यते, सचानुमानतः सिद्धः ।। ९१ ॥ तथा हि' क्वचिदपि पुंसि पक्षः । कृत्स्नावृतिक्षयोऽस्तीति साध्यो धर्मः। तत्कार्यसकलज्ञत्वस्यान्याथानुपपत्तेः। आवृतिक्षयः कारणं सर्वज्ञत्वं च कार्यम ।। ९२ ।। ननु च सर्वज्ञः कश्चिद् नास्ति, साधकाभावात्, इति चेत्, कस्यचित् सर्वज्ञत्व. मसिद्धं न, बाधकात्ययात्--बाधकाभावात् । सर्वत्र वस्तुव्यवस्थितिबधिकाभावादेव ।। ९३ ।। तथाहि-तस्य बाधकं तावत् प्रत्यक्षं नोपपद्यते, अक्षजत्वात् । तस्यात्यक्षेऽतीन्द्रिये विधिर्न निषेधनं न ॥ ९४ ॥ अनुमानमपि तबाधां विधातुं क्षमं न; यतोऽखिलं पुरुषत्वादि तल्लिङ्गं व्यभिचारि दृश्यते ॥ ९५॥ कथं तल्लिङ्गं व्यभिचारि, इति चेत्, यथा हि पुरुषत्वेऽपि कस्यापि वेदार्थज्ञानगोचरोऽतिशयस्तद्वत् कस्यापि सर्वार्थज्ञानगोचरोऽपि ॥ ९६ ॥ यथा देशान्तरे कालान्तरे चाखिलो रासभः शृङ्गी न तथा देशान्तरे कालान्तरे कश्चित् पुमान् सर्वज्ञोऽपि नास्ति [॥९७॥] इत्याद्यपमानं हि युक्तं न, इष्टविघातात । कथमिष्टविघातः, इति चेत्, तथाहि--खचरादीनां खगमनादिकं न स्यात् । यथावत्येदानोन्तनपुरुषाः खगामिनो न, तथा देशान्तरे कालान्तरे च नैवेतीष्टविघातः ॥ ९८ ॥ तस्माद् यस्य सा सकलज्ञता असौ नरविशेषः । तथैव खरविशेषश्चेत् विषाणिता य स्यात् ।। ९९ ।। तहि अर्थापत्तिः सर्वज्ञाभावसाधिका, इति चेत्, न, अर्यापत्तिरपि सर्वज्ञाभावसाधिनी नास्ति, तेन विना सर्वज्ञाभावप्रतिबद्धः कोऽर्थः सम्भवी यस्तं सर्वज्ञाभावं प्रकल्पयेत् ।। १००॥ आगमेनापि कर्तृकेनाकर्तृकेन वा सर्वज्ञो न बाध्यते, कर्तृहीनस्य तस्याप्याग [ म ] स्यात्यन्तमसंभवात् ॥ १०१ ॥ अकर्तृक एवागमः, कर्तुरस्मरणात्, इति चेत्, कर्तुरभावः कर्तुरस्मरणादिभ्यो न सिद्धयति, अज्ञातकर्तृकैर्वाक्यैव्यभिचारस्य संभवात्--घटनात् ॥ १०२ ॥ पौरुषेयेष्वसंभवी कश्चिद्विशेषो पौरुषेये नास्ति । यथा अतीन्द्रियार्थसंवादोऽपौरुषेये तथा पौरुषेयेऽपि दृश्यते ।। १०३ ॥ ततो विवादापन्नं शास्त्रं सकतकं दृष्टं, दृष्टकर्तृकतुल्यत्वात् । यद् दृष्टकर्तृकतुल्यं तत् सकर्तृकं, यथा अकलङ्कादिशास्त्रम् [ ॥ १०४ ॥ ] तस्मादकर्तृकं शास्त्रं सर्वज्ञबाधकं नास्ति, कृतकं च । तत् कृतकं द्विधा भिन्नं सर्वज्ञकर्तृकमसर्वज्ञकर्तृकं चेति [ ॥ १०५ ।। ] ताबद् असर्वज्ञप्रणोतमतीन्द्रिये प्रमाणं न । तु-पुनः । सर्वज्ञप्रणोतं तस्य प्रत्युत साधकमेव ।। १०६ ।। प्रस्तुतस्य प्रमाणपञ्चकाभावः प्रत्यक्षादिनिराकृतिः ॥ १०७ ॥ अक्षादिबुद्धिवत-इन्द्रियज्ञानं यथा ।। १०८ ॥ रत्नत्रयनिबन्धनः--रत्नत्रयं निबन्धनं कारणं यस्य सः॥ १०९ ।। चुम्बकैः-चुम्बकपाषाणरिव । आचकर्ष निष्काषयति स्म ॥ ११० ।। प्रपद्य अङ्गीकृत्य निश्त्वियेत्यर्थः ।। १११ ।। आरेभे प्रारब्धा । परा उत्कृष्टा ।। ११२॥ तृतीये पुष्करार्धनामनि । लताभवनैः वल्लीमण्डपैः ॥ ११३ ॥ सीतोदा नाम नदी तस्या उत्तरदिक्तटम् ॥ ११४ ।। बृहदु० दीर्घावंदण्डपक्षातपवारणशोभाम् ॥ ११५ ।। अर्थवतीम् अर्थयुक्ताम् ॥ ११६ ॥ अकृष्टपच्यैः लाङ्गलाद्यप्रयासपच्यैर्धान्यैः पूर्णे। निरीतो ईतिरहिते । 'अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः । स्वचक्रं परचक्र च सप्तता ईतयः स्मृताः।' निरवग्रहे अवृष्टिरहिते ॥ ११७ ॥ कुक्कुटसंपात्यैः कुक्कुटसंपाते वसन्तीति कुक्कुट संपात्यास्तैः ॥ ११८ ॥ परलोकक्रियोद्यताः प्रत्यभावक्रियोद्य मिनः ॥११९॥ अध्वन्याः पथिकाः ॥ १२० ॥ जिगीषतीव [जेतुमिच्छतोव ] || १२१ ॥ कृष्णानि मलिनानि । चरितानि आचरणानि ।। १२२ ॥ निगमाः ग्रामाः ।। १२३ ॥ मज्जत्सी० ब्रडविलासिनीसमूहस्तनविगलत्काश्मीरैः । जलधियोषितः नद्यः ॥ १२४ ।। त्रिविष्टपं त्रिदशालय इव ॥ १२५ ॥ रत्नोपलमरीचिभिः रत्नपाषाणकरैः । ज्योतिर्गणविभा नक्षत्रनिकरदीप्तिः ॥ १२६ ।। मिमोते जानीते । शालसं० प्राकारान्तरितसूर्यमृगानोदयम् ।। १२७ ॥ अकाण्डेऽपि अकालेऽपि ।। १२८ ।। वासराधिपतिः सूर्यः । तुङ्गप्रतोलोशिखरम् उच्चपुरद्वारेशिरः । ॥ १२९ ।। तारतारा० मनोहरोडुसमूहैः ॥ १३० ॥ उत्तम्भितोडुभिः स्थगिततारकैः ॥ १३१ ॥ मानेन प्रमाणेनावलेपेन वा । महाभोगाः परिपूर्णतासहिताः, गरिष्ठभोगाश्च । मत्तवा० प्रग्रीवराजमानाः प्रभिन्नगजशोभिनश्च । बहुभूमियुताः बहुक्षणसहिताः प्रचुरभूभि [-भाज ] श्च ॥ १३२ ॥ घनकिजल्कः प्रचुरकेसरः । हिरण्यखचिता सुवर्णनिर्मिता ॥ १३३ ॥ पातालोपवनारेका पातालवनभ्रान्तिम् ॥ १३४ ॥ काशसंकाशा काशो नाम तृणजातिः ॥ १३५॥ मुग्धस्त्रीणां बालाङ्गनानाम् [॥१३६ ॥ ] मज्जत्पु० ब्रुडत्सुचरित्रा
१. ब पि । २. ब 'द्वार' इति नास्ति । ३. ब 'काशो' इति नोपलभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org