________________
४७६
चन्द्रप्रभचरितम्
चेत्, न सहप्रत्येक पक्षयोः क्रमेण युगपद्वा भूतानां हेतुत्वं च ॥ ६४ ॥ एतदेव विव्रियते-- प्रत्येकपक्षे एककाद्भूताज्जीवोत्पत्ती जीवानां भूतसंख्या प्रसज्यते । सहपक्षे युगपदेतेभ्यो जीवोत्पत्तौ तेभ्योऽसंविद्धघोऽचेतनेभ्यश्चेतनः कथं स्यात् ॥६५॥ कुतः, हि यस्मात् घटपटादिषु कार्येषु सजातीयमुपादानं दृष्टम्; कस्मात् मृदादीनां हेतुनां कारणानां घटाद्यनुगमेक्षणात् घटादिकार्यानुवर्तनात् ।। ६६ ।। स्यान्मतं विजातीयादपि कारणाद्विजातीयकार्योत्पत्तिदर्शनाच्छुङ्गादेः शरादिवत् इति । तत्रापि शृङ्गादेः शरादिना व्यभिचारोऽपि न युज्यते । कस्मात् पुद्गलत्वेन पुद्गलत्वजात्या सजातीयत्वसंभवात् ॥ ६७ ॥ अथवा यदि विजातिभ्योऽपि भूतेभ्यश्चेतनो जायत एव तदा पयसोऽपि पृथ्वी भवेत् । एवं च तत्वचतुष्टयं न - तत्त्वसंकरः स्यात् ॥ ६८ ॥ ननु भूतानां चैतन्योत्पत्तौ सहका रित्वमेव, इति चेत्, न, उपादानाभावात् भूम्यादिव्यतिरेकतः भूम्यादि' विना अन्यदुपादानं च भवन्मते नास्ति येनोपादानेन सता भूतानां संहतिः समुदायः सहकारिणी कल्प्येत ॥ ६९ ॥ काये कोऽप्युपादानधर्मो नावलोक्यते, भिन्नलक्षणत्वात् । शरीरे तदवस्थेऽपि जीवे विकृतिदर्शनात् विविधाकृत्यवलोकनात् ।। ७० ।। घटादिकारणेषु मृदादिषु । एतत् भिन्नलक्षणत्वम् । नेक्ष्यते च । ततः तस्मात् । अनुमानबाधापि पक्षं वीक्षते । यथा प्रत्यक्षेण पक्षबाधा तथानुमानेनापीति रहस्यम् ॥ ७१ ॥ तस्य जीवस्य । अभावसाधनेऽनुपलम्भादिहेतुरसिद्धः स्वसंवेदनस्य तद्भावसाधकत्वात् ॥ ७२ ॥ विभिन्नप्रतिभासित्वात् चिदचितोः प्रतिभासभेदात् ।। ७३ ।। अत्राहारःभवतु नामैवमात्मा प्रत्यक्षादिसिद्धः, स च सर्वथा नित्य एव इत्येवं ब्रुवन् प्रत्येक्षेण बाधित एव ॥ ७४ ॥ कथं प्रत्यक्षबाधिताः ते, यत आत्मा प्रतिप्राणि सततं सुखदुःखादिपर्ययैविवर्तमानः स्ववेदनात् प्रकाशते ।। ७५ ।। तेच सुख-दुःखादिपर्याया जीवात् सर्वथा विभेदिनः इति चेत्, न भेदे सति 'तस्यामी' इति संबन्धानुपपत्तेः ।। ७६ ।। अस्ति समवायलक्षणः संबन्धः इति न वाच्यम्, नित्यस्य समवायो न युज्यतेऽनुपकारित्वात् । यतः सर्वापि संबन्धसमवस्थितिरुपकाराश्रयैव स्यात् ॥ ७७ ॥ अस्ति नित्यस्योपकारित्वम् इति चेत्, तस्मादुपकारोऽभिन्न भिन्नो वा । अभिन्नश्चेत् समो भिन्नश्चेत् संबन्धासिद्धिः । उपकारान्तरमपेक्ष्य संबन्धकरणेऽनवस्थितिः स्यात् ।। ७८ ।। ततो जीवः सुखदुःखादिपर्ययैः स्यात् कथंचिदभिन्नः परिणामित्वात् । तथा च कथं कूटस्थनित्यता ।। ७९ ।। एतेन कूटस्थतानिराकरणेन । तस्य आत्मनः । जडताम् अज्ञत्वम् । ब्रुवाणाः नैयायिकविशेषाः । विनिवारिताः प्रतिक्षिप्ताः । चिद्रूपसुखदुःखादिपर्यायैः विवर्तैः । ऐक्यसंभवात् परिणामत्वेनैक्यघटनात् ।। ८० ।। तर्हि आत्मा अकर्ता, इति चेत्, तस्य आत्मनोऽकर्तृतापि न च बन्धाभावादि - दोषात् । हि--यस्मात् कुशला कुशल क्रियाः - मनोज्ञामनोज्ञकार्याणि अकुर्वन् आत्मा कथं बध्येत, न कथमपि ॥ ८१ ॥ एतदेवोच्यते-- कापिल: 'आत्मा भोक्ता' इति भुक्तिक्रियायां स्वयं कर्तृत्वं वदन् तदेवापनुवानः किन जिह्रेति ॥ ८२ ॥ ननु आत्मा न बध्यते इति चेत्, न, अचेतनस्य प्रधानस्य बन्धादिरप्ययुक्तिकः । चेतनमे (ए) व बध्यत इत्यर्थः । तस्माद् आत्मनोऽकर्तृता पापादपि पापीयसी मता ॥ ८३ ॥ चित्तसंततिमात्रम् आत्मा, इत्येके । तत्र चित्तसंततिमात्रत्वमपि [ अ ] युक्तं प्रकल्पितं - स्थापितम् । यतः संतानिव्यतिरेकेण काचित् संतति । पूर्वं संतानी चेत् ततः संततिर्वक्तुं युज्यते ॥ ८४ ॥ संतानिनः सकाशात् संततिभिन्ना अभिन्ना वा । यद्यभिन्ना तर्हि तत्समा । भिन्ना चेत्, संतानिनो भिन्ना संततिनित्यानित्या वा । अत्रोच्यते व्यतिरेकेऽपि संतानिनः सकाशात् संतानव्यतिरेकेऽपि यदि तस्य नित्यत्वमिष्यते तदा क्षणिकैकान्तवादिनां प्रतिज्ञाहानिदोषः स्यात् । 'सर्वं क्षणिकं सत्त्वात्' इति तेषां प्रतिज्ञा ॥ ८५ ॥ संतानस्य क्षणिकत्वेऽपि यद् दूषणं संतानिपक्षे निक्षिप्यते तत् संतानेऽपि । ततः संतानस्यापि क्षणिकत्वे तस्य क्षणिकत्ववादि ( नः ) सर्वमेव कृतनाशादिकं प्रसज्यते ॥ ८६ ॥ तस्य व्यापकत्वेन कृतनाशादेरभावः इति चेत्, न तस्य व्यापकता घटनां नोपढौकते, स्वसंविदितरूपस्य तस्य देहाद् बहिरवेदनात् ।। ८७ ।। तस्माज्जीवः प्रमाणतोऽनादिनिधनो प्रमाणकः स्थितः कर्ता भोक्ता चिदाकारः सिद्धः ॥ ८८ ॥ येऽप्यजीवादयो भावाः तेऽपि सिद्धाः, तदपेक्षत्वात् । तत् तत्त्वम् उपप्लुतं न ।। ८९ ।। अपरे मीमांसापक्षपातिनो मीमांसका जीवाजीवा [दि ] षड्वर्ग' प्रतिपद्य अङ्गीकृत्य मोक्षे विप्रतिपद्यन्ते विवदन्ति ( न्ते ) ॥ ९० ॥ तेषामपि मीमांसकानामनुमानबाबा
,
१. जदि । २. जहानिरिति दोषः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,