________________
पञ्जिका
शरत्प्रसन्ने वर्षान्तनिर्मले ॥ ३६ ॥ त्रिः परीत्य त्रिः प्रदक्षिणीकृत्य । न्यविक्षत उपविष्टवान् ॥ ३७ ॥ मुकुलीकुर्वन् कोशी विदधत् । शीतगुत्वं चन्द्रत्वम् ॥ ३८ ॥ शोभा कान्तिः ।। ३९ ।। शान्ते उरते । जगाद बभाण ॥ ४० ॥ निरालोके निःप्रकाशे । आलोक इव उद्योत इव ॥ ४१ ॥ स्फुरितं प्रतिभासितम् ॥ ४२ ॥ गुरुप्रत्ययवजितं गुरुविश्वासरिक्तम् ॥ ४३ ॥ प्राहुः वदन्ति । नास्तिकागमं चार्वाकसिद्धान्तम् । मानगोचरः प्रमाणविषयः ॥ ४४ ॥ तस्यात्यये जीवाभावे, अजीवः कथं वक्तुं युज्यते; जीवाजीवयोः सापेक्षत्वात् ॥ ४५ ॥ च पुनः तदत्यये बन्धमोक्षप्रभृतयो जीवधर्माः कथं स्युः ॥ ४६ ॥ उपप्लुतं बाधितम् । संवृतम् अप्रसारितं
कल्पितम् (कल्पितं वा ) । जीवो नास्ति, अजीवोऽपि नास्ति ततस्तत्वमुपप्लुतमेवेति तत्त्वोपप्लववादिनः ॥ ४७ ॥ विसंवदन्ते मिथ्या जल्पन्ति ॥ ४८ ॥ केचित् सांख्याः । केचित् मीमांसका एव । अन्ये नैयायिकाः । अन्ये बौद्धाः ।। ४९ ।। गहने दुःप्रवेशे, गहने वने ॥ ५० ॥ उच्चार्थी महदभिप्रायाम् । विरराम तूष्णीं चकार ॥ ५१ ॥ ईश्वरबुद्धयः प्रत्यग्र प्रतिभाः ॥ ५२ ।। अस्पृष्टपरदूषणं परोपकल्पितदूषण संपर्करहितं यथा स्यात् ।। ५३ ।। ' जीवो नास्ति' इति चार्वाकैरुपन्यस्यस्ते । प्रसिद्धो धर्मी पक्षः । तत्र चार्वाकाप्रसिद्धस्य जीवस्य पक्षत्वकरणे स्वविडम्बनां कः कुर्यात् ? प्रसिद्धपक्षस्य हेतुविषयत्वं क्रियते । अथवा जीवो नास्ति अनुपलब्धेः -- इति भवतानुपलम्भविषयोक्रियमाणो जीवः पक्षः प्रत्यक्षेणोपलम्भेन स्वसंवेदन लक्षणेनैव निराकृत इति ॥ ५४ ॥ कथमुपलम्भविषयो जीवः, इति चेत्, उच्यते - प्रतिजन्तु इत्यादि । प्रतिजन्तु पक्षः, जीवः प्रतिभासते इति साध्यो धर्मः, स्वसंवेदनगो वरत्वात् ( इति हेतु: ) । न चेदं स्वसंवेदन गोचरत्वम् असिद्धं, सुखदुःखादिपर्यायैराक्रान्तत्वात् ।। ५५ ।। प्रमाणावीनत्वात् प्रमेयस्य, अतः प्रमाणमेव मीमांस्यते । ननु चेदं स्वसंवेदन - लक्षणं प्रमाणम् असिद्धम्, इति चेत्, उच्यते न चास्वेत्यादि । ज्ञानं स्वसंवेदनम्, अस्वविदितं भवति वेद्यत्वात् । यद्वेद्यं तदस्वविदितं यथा कलशादिः । न च न वाच्यम् । यथा प्रदोषः : स्वं प्रकाशयन्नेवार्थं प्रकाशयति तथा ज्ञानं स्वं विदन्नेवार्थं वेत्तीति ।। ५६ ।। यदि ज्ञानं स्वं वेत्ति तदा ज्ञेयमेव, न ज्ञानम् इति चेत्, न; अस्ववेदिनो विषयान्तरसंवाराभावात् । अवयवा: -- ज्ञानमर्थव्यवसायात्मकं स्वव्यवसायात्मकत्वात् । यन्न स्वव्यवसायात्मकं न तदर्थं व्यवस्यति । यथा घटः । न चेदमसिद्धमर्थ व्यवसायात्मकत्वं ज्ञानस्य सकलजनानामन्योन्यज्ञानानां परस्परपरिज्ञानापेक्षया ज्ञेयत्वात् । अथवा सामान्यमेव व्याख्यानम् । अस्ववेदिनः स्वपरिज्ञानरहितस्य विषयान्तरे चेतनाचेतनान्तरे संवारो न स्यात् । अपरापरबोधस्य अन्योन्यपरिज्ञानस्य वेदनीयस्य ज्ञानजन्यस्य घटनात् ।। ५७ ।। तर्हि अनवस्था स्यात् इति चेत्, अनवस्थाप्यत्रेष्टा । नभस्थलविसर्पिणी अनवस्थालता च स्यात् भवेत् । तेषु अपरापरबोधेषु यदेवाविदितं तदेव पूर्वस्य स्वस्य वेदकं न स्यात् ॥ ५८ ॥ ततश्चार्वाकः प्राह-- विषयविज्ञानं परोक्षमेव, तत्परोक्षत्वे विषयस्यापि परोक्षत्वमेव ।। ५९ ।। इति चेत्, परोक्षमपीष्टमेव । परोक्षादपि ज्ञानादर्थाधिगतिरर्थपरिज्ञानमिष्यते । यथा अर्थः परेण विदितस्तथा स्वविदितोs पि भवेत् । अतः स्याद्वाद॑मतापेक्षया जीवः स्वकीये काये स्वसंवेदन प्रत्यक्षात् सिद्धः, परकीये चानुमानादिलक्षणात् परोक्षादिति भावः । तदुक्तम्- 'स्वसंवेदनतः सिद्धे निजे वपुषि चेतने । शरीरे परकीयेऽपि सः सिद्धयत्यनुमानतः ॥ ६० ॥' तस्मात् कारणाद् युक्तितः प्रमाणोपपत्त्या स्ववेदने स्वयं वेदने नाम्नि प्रत्यक्षे प्रमाणे सिद्धे व्यवस्थापिते सति । नास्तित्ववादिनां चार्वाकतत्त्वोपप्लवानां प्रत्यक्षेण बाघा प्रत्यक्षबाधा कथं न भवेत् । अध्यक्षेण जीवमपनुवानानां तेषां प्रत्यक्षमेव जीवव्यवस्थापकं भवेदिति भावः ॥ ६१ ॥ पुनः स्याद्वादी चार्वाकमनुसंधत्ते । गर्भादिमरणान्ते प्रकृतपर्यायापेक्षे जीवे सिद्धेऽपि तस्य जीवस्य प्रागूर्ध्व--जन्मनः प्राङ् मरणाच्चध्वं कथं सिद्धिर्यदीति मन्यसे ।। ६२ ।। तदेदमुत्तरमाह -- तत्रापि जीवे सदकारणवत्त्वेनानादिता, अनन्तता च सिद्धा । वाय्वग्निपृथिवोपयसां यथा । वादिप्रतिवाद्यपेक्षया । व्यवस्थाप्यमानो जीवः पक्षः । अनाद्यनन्तो भवति, सदकारणवत्त्वात्, येषां सद्कारणवत्वं तेषामनाद्यनन्तत्वं यथा वाय्वग्निपृथिवीपयसाम् । सदका रणवांश्चासौ तस्मादनाद्यनन्त इति ॥ ६३ ॥ ननु चाकारणवत्त्वमसिद्धं तस्य इति न वाच्यम् । अहेतुत्वम् अकारणवत्त्वम् । तस्यासिद्धं न । कस्यापि हेतोः कारणस्य । अयोगतः अघटनात् । ननु च भूतानि हेतवः इति
1
१. ज 'दि ।
Jain Education International
४७५
For Private & Personal Use Only
www.jainelibrary.org