________________
१७॥
चन्द्रप्रमचरितम् वाष्पापूरा यस्याः सा ताम् । स्वामिस्ने० स्वामिनः कनकप्रभस्य स्नेहस्तेनाकुलीकृतं चेतो यस्या सा ताम् । उभयीम् उभयप्रकाराम् । प्रकृति प्रजाम् । समभाव [य] त् संस्कृतवान् ॥ ८३ ॥ एतस्येत्यादि । अनृजुः वक्रः । अयमष्टमोमगाङ्कः अष्टमीचन्द्रः। एतस्य महीपतेः। विकटं च तल्ललाटपटकं च तेन । व्याक्षिप्तः जितः । इतीव संजातानतिभिः संजाता आनतिर्येषु ते तैः। भूपालः राजभिः । नृपासनस्थे सिंहासनस्थिते । तत्र राजनि । कुटिलता वक्रत्वम् । न भेजे । यत्रायमष्टमीमृगाकोऽनेन वक्रतरोऽपि जितस्तत्र के वयमिति
पदयोः पतिता इति भावः ।४॥ तेजोनिधावित्यादि। स पद्मनाभः भमिपतिः। तेजोनिधी महोषामनि । उदयधाम्नि उदयास्पदे । सुवर्णनाभ० सुवर्णनाभाभिधाने । तनये पुत्रे। युवराजशब्दं युवा चासो राजा च युव० तेन शब्दयते आहूयते युवराजशब्दः, तम्-युवराजाभिधानम् । प्रवर्त्य । सोमप्रभा० सोमप्रभाया दशनाः सोम० तैर्जातं च तत् किणं च तेनाङ्कितश्चिह्नित ओष्ठो यस्य सः, सन् । भोगान् विषयान् । सदा अनुभवन् निर्विशन् । अवास्थित तस्थौ ॥ ८५ ॥
इति चन्द्रप्रमचरित महाकाव्यपञ्जिकायां प्रथमः सर्गः ॥ १॥
द्वितीयः सर्गः आप्तमीमांसादिशास्त्रप्रकाशं योऽकरोन्मुनिः ।
श्रुतादिः स मुनिर्जीयाच्छद्धादिगुणमासिवाक् ॥ १ ॥ आस्थानं सदः । प्रतोहारः द्वारपालः । वनपाल: मालाकारः । व्यजिज्ञपत् विज्ञापयामास ॥१॥ मनोहरे शब्देन मनोहरनामनि, अर्थेन हृदयहारिणि ॥ २॥ पुण्डरीकं सिताम्भोजम् ॥ ३ ॥ दारुणं भीषणम् । समाहारेण संकरेण ।।४।। मोक्षस्य मुक्तः संधानमेकाग्रता तत्र चित्तं यस्य सः, पक्षे मोक्षो वेध्यम् । गुणस्थानानि मागणाः गत्यादयस्ताभ्यां शोभमानेन, पक्षे गणो मौर्वी मार्गणः शरः॥५॥ परिनिष्ठितं परिकलितम ॥६॥ सुवर्णैः शोभनाक्षरैः कनकैश्च । मुक्ताः सिद्धाः मुक्ताफलानि च । कर्णपूरायन्ते कर्णयोः श्रोत्रयोः पूरायन्ते कुण्डलायन्ते च ॥ ७ ॥ गणनीयतां गणनाविषयतां गणेन जनवृन्देन नीयतां प्राप्यतां च ॥ ८॥ पांसुसंपर्कात् रजःसंसर्गात् । वासचूर्णषु सुगन्धिद्रव्येषु ।। ९॥ भास्वान् सूर्यः, पक्षे दीप्तिमान् । सेव्यपाद: सेव्यरश्मिः, पक्षे सेव्यचरणः । कुमुदं कुवलयं, पक्षे भूमुदम् ॥ १० ॥ विवक्षामि तुमिच्छामि ॥ ११ ॥ अनपेक्ष्य अनादृत्य । कोरकान् उद्भेदान् ।।१२॥ विसोढं सहितम् ॥१३॥ मधुगण्डूषान् मद्यकुरलकान् । अनादृत्य अनपेक्ष्य ॥१४॥ तिलक: तिलकवृक्षः। व्यकसत् विका समगमत् ॥ १५ ॥ जातविबोधाः समुत्पन्नपरिज्ञानाः । अलयः भ्रमरा: ॥ १६ ॥ शुकैः कीरैः ॥ १७ ॥ कुड्मल: कलिका ॥ १८॥ शिखण्डिनां मयूराणां ताण्डवस्य नृत्यस्य [ आटोपं ] ताण्डवाटोपं नत्यविस्तारम् ।।१९।। पलायमानस्य देशत्यागं विदधतः । बाणावलिः शरपङिक्तः ॥ २० ॥ शुचिसंगात् ज्येष्ठसंबन्धात्, शुचिः निर्मलो वा ज्येष्ठः, सकल जगत्पूज्यत्वात् ॥ २१ ॥ रोमाञ्चक
चुकाधानात् रोमहर्षवारबाणधारणात् ।। २२ ॥ सहजं जात्युत्पन्नम् ॥ २३ ॥ मुनिवृत्तान्तशंसिनी यतिवार्ताकथयित्रीम् । उद्वेल: उत्कल्लोलः ॥ २४ ॥ पारितोषिकैः संतोषजनितः। कृतार्थं कृतकृत्यम् ॥ २५ ॥ घोषयन उच्चरन् । उदस्थात् उत्तिष्ठति स्म ॥२६॥ लक्ष्यम् अभिन्यासम् ॥ २७ ॥ व्यानशे व्याप्नोति स्म । संकेतिनीः संकेतयुक्ताः ॥ २८ ॥ पञ्च च षट् च (पञ्च वा षड्वा ) पञ्चषाः तान् । पत्तीन् पदातीन् । अक्षुभ्यत चुक्षोभ ॥ २९॥ चचाल जगाम ॥ ३० ॥ लावण्येन लवणत्वेन संक्रान्तानि प्रतिबिम्बितानि दिदक्षणां द्रष्टुमिच्छनां नयनानि यत्र सः ॥ ३१ ॥ पिप्रिये तुष्टः ॥ ३२ ॥ विपरिश्रमः विगतखेदः ॥ ३३ ।। समादिश्य उपदिश्य आवासय संरक्षयः ॥ ३४॥ चामरादिपरिच्छदां चामरादिपरिकरोपेताम् ॥ ३५ ॥
१. ज शब्दते । २. ब 'चरित' इति नास्ति ज 'चरित्र' इत्यस्ति । ३. ब प्रथमसर्गः। ४. ज क्षय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org