________________
पञ्जिका
४७३
आगामिनि सुखे विनिश्चयः क । तत्क्षणसौख्य मोहितः तत्कालसुखेन वञ्चितः पुरुषः । वत इति खेदे । वृथा श्रमं समुपैति । अन्तर्दृष्टिं परित्यज्य भूतभविष्यत्सुखस्यास्थिरत्व मवलोक्यापि वर्तमानसुखस्य स्थिरत्वमवबुद्धधतीति खेद: ।। ७० ।। परिणामेत्यादि । यः पुमान् । सद्यः सुखस्य लिप्सया लालसत्वेन । परिणामहिते आगामि सुखकारिणि । पथि मार्गे । न समीहते प्रयतते । स शिवात् कल्याणात् । अतिविप्रकृष्यते दूरीक्रियते । विरुद्धसेवया अपथ्यभजनेन ज्वररोगी यथा ॥ ७१ ॥ दहन इत्यादि । त्रयाणां समबलत्वेऽपि कामस्याधिक्यम् ॥ दहनः अग्निः । तृणकाष्ठसंचयैरपि तृप्येत् । उदधिः नदीशतैरपि तृप्येत् । कामसुखैः पुमान् न तृप्येत् खलु । अहो कापीयं कर्मणो बलवत्ता बलिष्ठत्वम् ॥ ७२ ॥ वपुरित्यादि । वपुरपि शरीरमपि । आयुषः क्षये । आन्तरम् अन्तः स्थितं प्राणिनम् । अतिमात्रम् अतितराम् । त्यजति खलु । अहो । बहिरङ्गः बाह्यस्थितै धनमित्रबान्धवे - विरहे वियोगेऽत्र विस्मयः कः, न कोऽपि ॥ ७३ ॥ सुखेत्यादि । इष्टसमागमे इष्टसंयोगे । यथा येन प्रकारेण । सुखम् । तथैव तस्य इष्टस्य विरहे वियोगे च । असुखं दुःखम् । अतएव सुधियः पण्डिताः । सङ्गसु० सङ्गस्य सुखं सङ्गसुखं तत्र एकनिःस्पृहाः अद्वितीयेहा रहिताः सन्तः । निर्वृतो मुक्तौ । सजन्ति सावधाना भवन्ति ॥ ७४ ॥ हितमित्यादि । कश्चन हितमेव मोक्षस्तत्कारणतत्त्वं च हितं तदेव । न वेत्ति । अन्यः पुमान् । खलु शास्त्रोक्तौ । तत्र हिते । संशयं सन्देहम् । भजते । परः अन्यः । विपरीतरुचि: विपरीता अतद्गुणे तद्गुणाभा रुचिः श्रद्धा यस्य सः । एवंविधैस्त्रिभिरज्ञानतमोभिः अज्ञानान्धकारैः । जगत् भुवनम् । आहतं वाधितम् । तदन्यतद्विरुद्ध तदभावेषु न प्रवर्तत इति ।। ७५ ।। परिणामेत्यादि । जिनवाक्यम् अर्हद्वचः । विहाय त्यक्त्वा । शरीरिणां प्राणिनाम् । परि० परिणामस्योदर्ककालस्य सुखम् । न विद्यते । सरुजां हितकार्यौषधं पथ्यमिव । यथा पथ्यं विहायौषधं परिणामहितं न । अनात्मज्ञतया जडतया । तत् जिनवाक्यम् । न रोचते ॥ ७६ ॥ यथाविधि विधिमनतिक्रम्य । श्रुतं शास्त्रम् । अधिगम्य परिज्ञाय । उत्तमाश्च ते साधवश्च तेषां संगमं संपर्कम् । प्रतिपद्य आश्रित्य । इमां प्रसिद्धाम् । भवफल्गुतां संसारस्यासारत्वम् । अत्रयन् जानन् । अहमिव अहं यथा । अपरः अन्यः । कः पुमान् प्रमाद्यति न कोऽपि ॥ ७७ ॥ सुखमित्यादि । मन्दमतिः जडः । आयतिदुःखम् उदर्कासुखकरम् । अक्षजम् ऐन्द्रियकम् । सुखं भजते बुद्धिमान् न । अत्रर्थान्तरमुपन्यस्यते--: खलु अहो । कः अमन्दधीः । मधुना दिग्धं प्रलितं मुखं यस्याः सा ताम् । असिधारां खङ्गधाराम् । लिलिक्षति लेतुमिच्छति, न कोऽपि ॥ ७८ ॥ असुखैकेत्यादि । यः प्रविरक्ता निर्विण्णा मतिर्यस्य सः । असुखमेवैकं फलं यस्य स तम् । पल्लवं किसलयम् । टसिति झटिति । प्रभज्य आमर्थ । न प्रवर्तते । स पुरुषः । श्रेयसि मुक्त्यर्थम् । वञ्चितः विप्रलब्ध: । ही विस्मये । निर्विण्णेन झटिति उद्यमो विधेय इति । भावः ॥ ७९ ॥ इतीत्यादि । स चारुचेताः चारुमनाः । इति उक्तप्रकारेण । विषयेभ्यो विरक्तः सन् छन्नया गूढया । मुक्तिदूत्या निर्वृतिसंचारिका । स्वयमात्मना । कर्णजाहं श्रवणसमीपम् । एत्य आगत्य । व्याहृत इव आहूत इव । मुनिमार्गे रत्नत्रये । चेतसा मनसा । न्यविशत तस्थौ । उचितमेतत् । हि यस्मात् । मतिभाजां मतिमताम् । काललब्धि: । वन्ध्या निरर्थिका । न भवति ।। ८० ।। प्रपृच्छयेत्यादि । स राजा कनकप्रभः । अपरेद्युः अन्येद्युः । आत्मनः स्वस्य । उद्यन्ती अतिवर्धमाना श्रीर्यस्य स तम् — उद्यच्छ्रियम् । तं प्रसिद्धम् । सुतं पुत्रम् । प्रपृच्छय आपृच्छ्य । च पुनः । विगलन्ति पतन्त्यश्रूणि रोदनबिन्दवो याभ्यां ते तदक्षिणी तस्य नेत्रे । प्रमृज्य संविशुद्धे विधाय । अविनिन्दितं निन्दारहितम् । श्रीधरं श्रीधराभिधानम् । मुनीन्द्रं यतीशम् । समभिवन्द्य प्रणम्य | भूरिभि: प्रचुरैः । नृपतिभिः समम् । तपः तपश्चरणम् । समधिशिश्रिये आश्रितः ॥ ८१ ॥ गुरुवि रहेत्यादि । तदा तस्मिन्नवसरे । पद्मनाभः भूमीशः नरपतिपदं राज्यम् । आस्थितोऽपि समाश्रितोऽपि । गुरुविरभवेन पितृवियोगजनितेन । असुखेन दुःखेन । भृशम् अत्यर्थम् । तताम चक्लाम । हि यस्मात् । बान्धर्वैर्वियुक्ता त्रियोगिनी | लक्ष्मीः । मुदे हर्षाय । नहि भवति ॥ ८२ ॥ विपुलेत्यादि । असौ सुधीः । विपुल० विशालप्रतिभाभिः । वृद्धामात्यैः प्रौढसचिवैः । कृतप्रतिबोधनः कृतं प्रतिबोधनं यस्य सः, सन् । कियद्भिः परिमितै । दिनैः दिवसैः । पितृविरहजं जनकवियोगजनितम् । शोकं हित्वा । नयनविगलवाष्पापूराः नयनाभ्यां विगलन्तो
।
१. ब वक्लाम, ज पक्लाम । ६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org