________________
४७२
चन्द्रप्रभचरितम्
अंशो यस्य स तस्येव तीव्रं तेजो यस्य स तस्य असह्यमहसः । चन्द्रसूर्ययोरिव शान्ततीव्रस्यापि आशुकार्य करणे सवित्रे कित्वमिति भावः । प्रतिवस्तूपमा । अथवा चन्द्रः सूर्यान्वयिनां क्लेशकारी सूर्यश्च चन्द्रवंशिनाम् अस्य चोभयसाम्येऽपि क्वचिदनुयायिनि विवेकरिक्तताभावाद् व्यतिरेकश्च ।। ५९ ।। समाचरन्नित्यादि । यः कृतज्ञः कृतं जानातीति । पलिताङ्कुरैः शुक्लकेशैर्विना । वृद्धः स्थविरः । बभूव । किंलक्षणः, सम० समस्ताश्च ता विद्याश्चान्वीक्षिक्यादयस्तासामधिगमः परिज्ञानम्, 'आन्वीक्षिक्यामात्मविज्ञानं धर्माधर्मो यो स्थिती | अर्थानर्थों तु वार्तायां दण्डनीत्यां नयानयो ।' इति, तेन प्रबुद्धा धीर्यस्य सः । पुनः किलक्षणः, समाचरन् अनुभवन् । काः, क्रियाः । किंलक्षणाः, शिशुभावः शैशवं तत्र दुष्प्रापाः । ताः पुनः कथंभूताः, नयमार्गेण नीतिपथेन शालिनीः शोभमानाः । विभावनेयमलंकृतिः ॥ ६० ॥ गलदि ( नि ) त्यादि । यस्य अङ्कुशः सृणिः, गुरु: जनकादिः, अभवत् । किंलक्षणस्थ, गरीयसा गरिष्ठेन, ओजसा बलेन, युतस्य सहितस्य । पुनः किंलक्षणस्य, गलन्मदस्य गलन्मदो यस्य स तस्य - स्रवन्मदस्य, मदः स्रुत्वा गत इत्यर्थः । अत एवोन्नतवंशेनोच्चवंशेन शाली शोभमानः तस्य । पुनरपि गृहीतः सम्यग्विनयो येन स तस्य आदृतप्रश्रयस्य । पुनर०, सोन्नतेः सह उन्नत्या औद्धत्येन ( उच्छ्रित्या) वर्तत इति सोन्नतिस्तस्य । कस्येव, गजाधिपस्येव । यथा स्रवन्मदस्य, उन्नतपृष्टशोभिनः, सुशि क्षित विनयस्य, उच्चैस्तरस्य च गजेन्द्रस्याङ्कुशो गरिष्ठः स्यादिति । उपमा ॥ ६१ ॥ विभूषितमित्यादि । व्यसनैः व्यस्यन्ति परेहलोकमिति व्यसनानि द्यूतादीनि तैः । किंलक्षणैः, प्रमाथिभिः प्रपातिभिः । यस्य मनो न जह्रे न मुष्टम् । क्रिलक्षणस्य, मनस्विनः पण्डितस्य । पुनरपि जिताः पूराभूता आन्तरा अन्तराश्रिता द्विषो येन सः, तस्य । पुनरपि०, विग्रहं शरीरम् दधतः । धारयतोऽपि । किलक्षणं विग्रहं विभूषितं परिष्कृतम् । कया, यौवनस्य रूपसंपत् तया । किंलक्षणया, विकारवत्या विकारसहितया ।। ६२ ।। स बह्वेत्यादि । स विशामधीश्वरः पृथ्वीपतिः । बहूनि अपत्यानि यस्य सोऽपि । जिष्णुना जयशीलेन । तेनैव सुतेन पुत्रेण । रराज बभासे । अत्रार्थान्तरमुपन्यस्यते - अनेकाश्च ( अनेके च ) ते शकुन्ताः पक्षिणश्च तैः संकीर्णः । जलाधारो राजहंसेन विना न विराजते । 'राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः । ।। ६३ ।। अथेत्यादि । अथ अनन्तरम् । जातु कदाचित् । सः । मेदिन्याः पृथ्याः पतिः स्वामी । परिहृष्टा हर्षं प्राप्ता मतिर्यस्य स परिहृष्टमतिः सन् । निजा चासो लक्ष्मीश्च तथा परिभूषितं परिष्कृतम् । पुरं नगरम् । विलोकयन् अवलोकयन् । गुरुश्चासौ सौधो राजसदनं च तस्य मस्तके | अवतस्थे स्थितः । जातिः ।। ६४ ।। तदा तस्मिन्नवसरे । तेन कनकप्रभेण । गवां गणः गोयूथः । ददृशे ललोके । कथंभूतः समुत्तरन् विनिःसरन् । किं कृत्वा पयः पानीयं परिपाय पीत्वा । किंलक्षणेन तेन यदृक्षया स्वेच्छया, दृशं दृष्टि, विनिपातयता इतस्ततः प्रसारयता । वव, आस० अतिशयेनासन्नमासन्नतमं तच्च तदेकपल्वलमल्पसरश्च तस्मिन् । जातिः ॥ ६५ ॥ किल इति पुराणोक्तौ । असौ विचक्षणः विदग्धः । तत्र पल्वले । एकं जरद्गवं जरंश्चासौ गौरव जरद्गौः तं म्रियमाणं प्राणांस्त्यजन्तम् । अवेक्ष्य अवलोक्य । तत्क्षणात् । इति वक्ष्यमाणप्रकारेण । निर्वेदं वैराग्यम् । जगाम । कथंभूतं जरद्गवं, घनपङ्क० घनश्वासी पङ्कश्च तत्र निमग्नो ब्रुडितः तम् । पुन०, अक्षमं क्षीणगात्रम् ।। ६६ ॥ क्षणभङ्गुरेत्यादि । भवं भजन्तीति भवभाजस्तेषां भवभाजां प्राणिनाम् । जीवितं प्राणाः । क्षणभं० क्षणेन तत्कालं भङ्गुरा विनश्वरा वृत्तिर्वर्तनं यस्य तत् क्षणभङ्गुरवृत्ति । इत्यत्र विस्मयः अद्भुतं न । इह जीविते । अत्रस्यद्भिः पण्डितैरपि प्रमुह्यते । तदेतदीदृशमद्भुतं विस्मयः ॥ ६७ ॥ क्षणदृष्टेत्यादि । जनः लोकः । क्षण० दृष्टाश्च तिरोहिताश्च दृष्टतिरोहिताः, क्षणेन दृष्टतिरोहिताः क्षणदृष्टतिरोहिताः, तैः - क्षणदृष्टनष्टैः । विषयैः भोग्यैः । स्वप्ने इव प्रतार्यते वञ्च्यते । तथापि अयं जडबुद्धिर्मन्दमतिः । तेषु रति रागम् एति । अनात्मवेदितां जडत्वम् । धिक् ॥ ६८ ॥ प्रहतमित्यादि । एषः जनः । जन्तुं जन्तुं प्रतिजीवितं मरणेन प्रहतं बाधितं पश्यति । यौवनं तारुण्यम् । जरसा वार्धक्येन प्रहृतं पश्यति । तदपि मन्दमतिरसी स्वहिते न पश्यति जागति । अहो आश्चर्यम् ।। ६९ ।। यदतीतेत्यादि । यत् सुखम् । अतीतम् अतिक्रान्तम् । तत् अतीतमेव ।
3
१. ब ंप्राप्याः। १. ब ज अवश्यद्भिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org