________________
पञ्जिका
४७१
कार्याणि विधेयानि । किं कृत्वा, विमृश्य विचार्य । कया, धिया बुद्ध धा। किंलक्षणया, विशुद्धया निर्मलया। कस्मात, नरेन्द्र० नरेन्द्राणां विद्याः आन्वीक्षिकी त्रयो वार्ता दण्डनीतिरिति चतस्रो राजविद्याः तासामधिगमः परिज्ञानं तस्मात । पौरुषेण अष्टापदतुल्यत्वेऽपि घिया विमृश्यकारित्वाद् व्यतिरेकोऽयम् ।। ५१ ॥ रतिप्रदानेनेत्यादि । येन राज्ञा। प्रजा प्रसाधिता अलंकृता। किंलक्षणा, कृतायतिः कृता विहिता आयतिविस्तारो यया सा कृता० । पुनः कि०, गुणानुरा० गुणानामौदार्यादीनामनुरागः प्रीतिः तेनोपनता प्रणता। किंलक्षणेन च येन, रति० रतिरनुरागस्तस्याः प्रदानं तत्र प्रवीणेन । पुनरपि किंलक्षणेन, कुर्वता। काम उज्ज्वला, विचित्र. विचित्रा नानाविधाश्च ते वर्णाश्च द्विजादयस्तेषां क्रमवृत्तिः संकीर्णताभावस्ताम्, उज्ज्वलां निरतिचारां कुर्वता विदधता । केव वधूरिव अङ्गनेव । यया भर्तृगुणानुरागप्रवणा कृतोत्तरकालफला वधूः रतिप्रदानचतुरेण विशिष्टकान्तिप्रकृतिवर्तनमुज्ज्वलं विदधता रमणेन प्रसाध्यते । इत्युपमा ॥ ५२ ॥ अतीतसंख्यरित्यादि । यस्मिन् राजनि । गुण: समुदायिता चयत्वम् । अकारि विदधे । फिलक्षणैः, अखिलैः । पुनरपि किंलक्षणः, अतीतसंख्यैः अतीता अतिक्रान्ता संख्या यैस्ते, तैः । पु०, परिलब्धा कीतियैस्ते, तैः । पु०, शरदो निशानाथश्चन्द्रस्तस्य मरीचय इव निर्मलास्तैः। किंलक्षणैरिव, दोषच दोषसेना, रुरुत्सुभिः रोखुमिच्छद्भिरिव । सेना खलु समुदायाभावे जेतुं न शक्यते । सकललोकवतिनो ये गुणास्तेऽस्मिन् समुदिता इति भावः ॥ ५३ ॥ अथ चतुभिवृत्तः कान्तोपवर्ण्यते पराक्रमेत्यादि । 'अथ' इत्यानन्तर्यार्थे । 'सुवर्णमाला' इति नाम्नी। भामिनी मानिनी। बभूव अजनि । किंलक्षणा, निशा० निशान्तस्य सकलान्तःपुरस्य । नायिका पट्टमहिषी । कस्य नृपस्य । किंलक्षणस्य, पराक्र० पराक्रमेण शक्त्या आक्रान्ता व्याप्ता महीभुजो राजानी येन स तस्य । पुनः किंलक्षणस्य, जगल्ल० जगतो ललामा तिलका चासो लक्ष्मीश्च जग० तया निलयोकृतमास्पदीकृतमुरो वक्षो यस्य स तस्य ॥ ५४ ॥ यदीयेत्यादि । यदीयं यत्संबन्धि । शोलं सद्वृत्तम् । जातचित् कदाचित् । मलीमसं मलिनम । नाभत । किंलक्षणम, अविनिन्दितं निन्दारहितम । कथंभतमिव, नितान्तनिर्धीतमिव नितान्त मेकान्तेन निधीतं प्रक्षालितं नितां० । 'तीवकान्त नितान्तानि' इत्यमरः । केन, कान्तिमयेन कान्त्या निर्वत्तेन । वारिणा जलेन । किंलक्षणेन. विसारिणा विस्तीर्णेन । पनरपि०. एणास्य चन्द्रस्य मरीचयः त्विष इव हारि मनोहरं तेन । उपमा । 'यत्राकृतिस्तत्र गुणा वसन्ति प्रायो विरूपासु भवन्ति दोषाः ।' इति सूचितम् ॥ ५५ ॥ वहन्नित्यादि। यत्तनो यच्छरीरे। न ऊनमनूनं, 'होनन्यूनावूनगों' इत्यमरः, अनूनं च तल्लावप्यं च कान्तिमयत्त्वं तेन मयः । पयोनिधिः समुद्रः। विचकास उल्ललास । किंलक्षणः, सहासफेनः हास एव फेनो डिण्डोरः, सह हासफेनेन वर्तत इति सहासफेनः । किं कुर्वन्, शशाङ्कस्य चन्द्रस्य । शङ्काम् आरेकाम् । वहन् धारयन् । क्व, वक्त्रपङ्कजे वक्त्रमेव पङ्कज कुवलयं तत्र । किंलक्षणे, स्मरापाण्डुकपो० स्मरेण कामेन आपाण्डु ईषत्पाण्डु कपोलयोर्गल्लयोर्मण्डलं यत्र तत् तस्मिन् । भ्रान्तिमान् । लावण्यपयोनिध्योर्मुखचन्द्रयोश्चोपमानोपमेयभावो वा । यौवने हि सुष्ठु परिणते मुखं चन्द्रवदाभाति ततश्च तनुरतीव कान्ति दधातीति भावः ॥ ५६ ॥ भुव इत्यादि । सा मृगेक्षणा हरिणलोचना । तस्य नृपस्य । मन्दिरे गृहे । लक्ष्मीः श्रीः । बभूव । किंलक्षणस्य नृपस्य, पुरुषोत्तमस्य पुरुषप्रधानस्य, कृष्णस्य च । किंलक्षणस्य तस्य, भुवः पृथिव्याः समुद्धर्तुः उद्धरणशीलस्य जगद्धारकस्य च । पु०, बलेन पराक्रमेण बलमद्रेण च । अधिष्ठितात्मनः समाश्रितस्य । पुन०, सत्यानु० सत्ये तथ्येऽनुरतमेकमद्वितीयं चेतो यस्य. सत्यायां सत्यभामायां च । श्लेषः ।। ५७॥ अथ पुत्रोत्पत्तिमाह परस्परेत्यादि । स: प्रसिद्धः। स्तनन्धयः पुत्रः । किलक्षणः, धाम्नां निधिः तेजोनिधानम् । कयोः तयोः । किलक्षणयोः, पर० परस्परम् अन्योन्यं स्नेहेन प्रणयेन निबद्धं नियन्त्रितं चेतो मनो याभ्यां तो पर० तयोः । येन पद्मनाभता संज्ञया अभिधया न दधे नरकद्विषा अर्थेन च । पद्मनाभः किल नरकस्य दैत्यविशेषस्य द्विट, अयमपि नरकस्य दुर्गतेरित्यन्वर्थता । तुल्ययोगितेयम् ॥ ५८ ॥ अथ चतुभिः पद्यः पद्मनाभकूमार उपवर्ण्यते-कलासनाथस्येत्यादि । यस्य पद्मनाभस्य । बाल्येऽपि शैशवेऽपि । विवेकरिक्तता सदसद्विवेचनशून्ययत्वम् । न बभूव । किंलक्षणस्य, निःशेषाश्च ते जनाश्च तेष्वनुकम्मायुक्तस्य । 'कृपा दयानुकम्पा स्यात्' इत्यमरः । किंलक्षणस्य, हिमाते: चन्द्रस्येव, कला० कलाभिः सनाथस्य सहितस्य । कलाः शस्त्रधारणाद्याः षोडशो भागश्च । हिमेतरा उष्णा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org