________________
चन्द्रप्रभचरितम्
दधे । कया, शुचेव शोकेनेव । किं लक्षणैः सद्भिः, निर्जितैः पराभूतैः । केन, निसर्ग जश्चासी त्यागगुणश्च निसर्ग० तेन निसर्गजत्यागगुणेन । कि लक्षणेन, गरीयसा गरिष्ठेन । कस्य यस्य । किल०, परार्था संपद् यस्य स तस्य अन्यनिमित्तसंपत्तेः || ४३ ॥ कुरङ्गलाञ्छतः चन्द्रः । यं जेतुं न शशाक शक्नोतिस्म । किल०, उज्ज्वलं निर्मलम् । कया, प्रदोष० प्रदोषो रजनीमुखं, पक्षे प्रकृष्टदोषाः ( षः ) तस्य तेषां वा संसंगिता तथा । उभयत्र साम्येऽपि चन्द्रस्य प्रदोषसंसगित्वमस्य चोज्ज्वलत्वं चन्द्रस्ये कुरङ्गलाञ्छनत्वमस्य च सद्रङ्गनिल ञ्छिनत्वमिति भावः । इति व्यतिरेकालंकारः । किं लक्षणोऽपि सः, कलाभिः समग्रोऽपि संपूर्णोऽपि । पुनः किं० जनानभिनन्दतीति जनाभिनन्द्यपि । पुनरपि किं० अभिभूतं विष्टपं यया सा तां तिरस्कृतलोकाम् । श्रियं दधानोऽपि विभ्राणोऽपि ॥ ४४ ॥ अथ समुच्चयः । यः जगद्विशेषक: चित्रकः । विशेषयामास अलंचकार । किं तत् कुलम् । केन, विशुद्धवृत्तिना चरित्रेण अनुष्ठानविशेषेण । तथा शरदभ्राणीव विभ्रमो येषां तानि तैः । यशोभिः आशाः । गुणैः वपुः । श्रवणेन शास्त्राकर्णनेन । शेमुषीं बुद्धिम् ॥। ४५ ।। विरोधो यथा तत्परिहारश्च । षण्णां गणः षङ्गणः, साधितो वंशं नीतः शत्रूणां षङ्गणो येन सः । तदुक्तम्- ' कामः क्रोधश्च हर्षश्च मानो लोभस्तथा मदः । अन्तरङ्गोऽरिषड्वर्गः भितीशानां भवत्ययम् ॥' यः भूरिदानोऽपि कटोद्भेदः, पक्षे वितरणं भूरिदानं यस्य स भूरिदानः । मदेन मद्येनावलेपेन च । च पुनः । अहीनां सर्पाणामिनस्तस्य संसर्गेण समन्वि - तोऽपि अजगर संसर्गसहितोऽपि पक्षे उत्कृष्टसंयोगसहितोऽपि । द्विजिह्व० द्विजिह्वानां सर्पाणां दुर्जनानां च संसंगितया संबन्धितया । दूषितः कलुषितः । न बभूवेति ।। ४६ ।। सर्वं च तद् विष्टपं च सर्व० तत्र प्रतीता प्रथिता कीर्तिर्यस्य स राजा कनकप्रभः । वसुन्धरां वसुमतीम् । गामपि धेनुमपि । करिणों हस्तिनीं चकार । विरोधोऽयं, तत्परिहारश्च - गां गोशब्दवाच्यां पृथ्वों वसुमतीं वसु दधानामपि पृथ्वी, तेजोभिर्दानवतीं चकारेति भावः, करिणीं भागधेयवतीं चकारेति । किं कृत्वा, अभिभूय तिरस्कृत्य । कान्, समस्तान् सकलान् । मण्डलिनः मण्डलेशान् । किलक्षणान्, समुद्धतान् उत्कटान् । कैः, धामभिः तेजोभिः । किंलक्षणः, अतिदुःसहै: अतिशयेन दुःखेन सोढुं शक्यैः । पुनः किं० निजैः स्वकीयैः । विरोधालंकारः ॥ ४७ ॥ यस्य विभोः स्वामिनः । तेजसा महसा । श्रीः लक्ष्मीः । वधूरिव । व्यतिरेको वा । चपला चञ्चलापि निश्चला । व्यधीयत अक्रियत । अतिशयोऽयम् । केनेव, कञ्चुकिना सौविदल्लेनेव । उपमेयम् । किंलक्षणेन, नितान्तम् अतिशयेन वृद्धेन लोकान्तमातेन, पक्षे परिणतवयसा । कठोरा कर्कशा परोपघातिनी वृत्तिर्वर्तनं यस्य तत् तेन, पक्षे दाक्षिण्यवर्जितेन । सनीतिना सह नीतिभिर्वर्तत इति सनीतिः, तेन, उभयत्रापि श्लेषोऽयम् । संकरोऽयमलंकारः ॥ ४८ ।। सः राजा । ईश्वरः रुद्रः, ऐश्वर्ययुक्तश्च । सन् अपि भवन् अपि । असमदृष्टिदूषितो न बभूव । शम्भोः किल विषमदृष्टया दूषणं वर्ततेऽस्य चासमा देवताभा सानुगामिनो दृष्टिः श्रद्धानं तथा किल महदूषणम् (?) 1 'दृष्टि: ज्ञानेऽक्षिण दर्शने इत्यमरः । व्यतिरेकोऽयम् । क्रिलक्षणः, धराश्रयः धरायाः पृथिव्या आश्रयोऽवष्टम्भः । संततम् अनवरतम् । भूतेः संपदो भस्मनश्च संगमो यस्य सः । शशाङ्कवत् कान्तो मनोरमः, शशाङ्केन कान्तश्च; शशाङ्कः कस्य शिरसोऽन्ते ललाटे यस्येति वा । धृत उदूढो नागनायकेन गजेन यः सः, तो घारितो नागनायकः सर्पराजो येन स च । अधो भवन्तो न्यग्भवन्तो गोपतयः पृथ्वीनाथा यस्य सः, पक्ष अधोभवन् वाहनीभूतो गोपतिर्यस्य सः । अत्र श्लेषोऽपि तेन संकरश्च स्यात् ।। ४९ । यदीयेत्यादि । अधुनाऽपि सांप्रतमपि । पयोनिधिः समुद्रः । पूत्कारमिव दीनाक्रन्दनमिव । करोति विदधाति । किंलक्षणः, उदस्तकल्लोलभुजः सन् उदस्ता ऊद्धवकृताः कल्लोला वोचय एव भुजा बाहवो येन सः । पुनः कथंभूतः, लुतयशोमहाधनः लुप्तं पराभूतं यश एवं महाधनं यस्य सः । केन, यदीय० गाम्भीर्यमेव गुणो गाम्भीर्यगुणः, यदीयश्चासौ गाम्भीर्यगुणश्व यदीय० तेन यद्गम्भीरत्वगुणेन । किलझणेन, निर्मलप्रसिद्धिना निर्मला उज्ज्वला प्रसिद्धिः ख्यातिर्यस्य स तेन । उत्प्रेक्षेयम् ॥ ५० ॥ नरेन्द्रेत्यादि । यस्य राज्ञः । पौरुषं बलम् । अष्टापदवृत्ति अष्टापदस्य वृत्तिरिव वृत्तिर्यस्य तत् । न अजायत नाभूत् । किंलक्षणस्य यस्य, निःशेषितशत्रु संततेः निःशेषिता निर्मूलिता शत्रूणां रिपूणां संततिर्येन सः, तस्यापि । किंलक्षणस्य सतः, विधित्सतः चिकीर्षतः । कानि १. व स्वस्तिकान्तर्गतः पाठो नोपलभ्यते । २. ज 'रेको' । ३. ब 'भूषि ।
1
४७०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org