________________
पञ्जिका
४६९
धनेश्वर इम्यो न । तद् धनं द्रव्यं न, यद् भोगसमन्वितं भोगसहितं न । स भोगोऽपि न, यः संततोऽनवरतो न । एकावलीयमलंकृतिः ॥ ३५ ॥ विलप्तेत्यादि । यत्र सितेतराणि सितानि चेतराणि च यद्वा सितेभ्य इतराणि नीलानि । अम्बुरुहाणि कंजानि । लुठन्ति प्रकम्पन्ते । कुतः, तापात् अन्तःक्लेशादिव । किलक्षणानि योषितां कामिनीनाम्, विलोचनोत्पल: विशिष्टनयनकुशेशयैः, विलुप्तशोभानि जितकान्तीनि । क्व, दीर्घिकाजले वापीतोये। किंलक्षणे, मरुन्चल० मरुता वायुना चलन्त्यो वीचयः कल्लोला यत्र तत् तस्मिन् । पुनः किं लक्षणे, शीतले। अन्योऽपि यः कश्चित् केनापि जितो भवति सोऽपि वायुना शीतले जले लुठति । उपमेयमलंकृतिः ( हेतूत्प्रेक्षा ) ॥ ३६ ॥ महागुणैरित्यादि । यत् पुरम् । महाजनैः गरिष्ठलोकैः । अधिष्ठितम् आश्रितम् । प्रतिभाति चकास्ति । किलक्षणैस्तैः, महागुणैः महान्तो गुणाः सौजन्यौदार्यस्थैर्यप्रभृतयो येषु ते महा. गुणास्तैरपि । अगुणः गुणरहितैः, पक्षे यतो महागुणैरतएवागुणः; 'सत्त्वं रजस्तमश्चेति त्रयः प्रोक्ता महागुणाः ।' तेभ्यः, तमोगुणरहितैः, अथवा अस्य कृष्णस्य गुणा इव गुणा येषां तेऽगुणाः तै. । मदोज्झितैः त्यक्तमदैः अपि प्रवृ० परिणतप्रकृष्टमदैः, पक्षे यतो मदोज्झितैरत एव परिणतहर्षेः; मानिनां सदा संतप्तत्वाद्धर्षाभाव एव । प्रकामम् अतिशयेन । निर्भयैः भयरहितैरपि । परे शत्रवश्च ते लोकाश्च परलोकास्तेभ्यो भीरुभिर्भालुकैः, पक्षे परलोकः प्रेत्यभावः । विरोधालंकारः ॥ ३७ ॥ स यत्रेत्यादि । यत्र स एव परं दोषो यत्कामिनः कामुकाः, स्वकान्तानुनयस्य स्वकामिनीचाटुकारस्य, रसं रहस्यं न जानते नावबुध्यन्ति । क्व सति कृजति कुणति सति । कस्मिन्, पतत्कूले पक्षियूथे। किंलक्षणे, वेदिकानां सौधोपरिममिकानां शिर:शिखासु शेते इति वेदिकाशिरःशिखाशायि तस्मिन् । पुनः किंलक्षणे मानभञ्जने मानं भनक्तीति मानभञ्जनं तस्मिन् । कामिन्यः खलु सुरतावसरे कूजन्ति स्वचातुर्यात् । तत्र पतत्रिणां कूजनश्रवणात् तासां मानभङ्गः, मानभने च नीरसत्वमिति भावः ।। ३८ ॥ अथ पञ्चदशभिः पद्य राजोपवय॑ते । अथाभवदित्यादि । अथ नरेश्वरः भूपतिः। अभवत् । किलक्षणः, भूरिगुणैः प्रचुरगुणः । अलंकृतः भूषित; । पुनः किं०, तस्य पुरस्य रत्नसंचयस्य । शाशिता रक्षकः । तथा यः, उवाह दधौ । का, कनकप्रभाभिधां कनकप्रभ इत्यमिधा कनकप्रभाभिधा ताम् । कया, रूढया लोकप्रसिद्धया। कथं तथापि, तथापीति कि, यः, केनचिदुपमानेन तुलितद्युतिर्न तुलिता समीकृता द्युतिर्यस्य स तुलि० ॥ ३९ ॥ यशोभिरित्यादि । महौजसः महदोजो बलं यस्य तस्य । यस्य राज्ञः । विधूपितं संतापितमरातो नां कुलं यस्तानि । तेजांसि महांसि । न ममुः न संमान्ति स्म । वव, भूतले पृथिव्याम् । किंलक्षणे, पूरितमन्तरं मध्यं यस्य तत् तस्मिन् । कैः, यशोभिः, किंलक्षणैः एणाङ्ककला. एणाङ्कस्य चन्द्रस्य कला एणाङ्ककलाः ताभिरिव समुज्ज्वलानि एणाङ्कक० तैरेणाङ्ककलासमुज्ज्वलैः । किं लक्षणरिव, पुरः प्रयातैःपुरोगैरिव ॥४०॥ प्रयासमुच्चरित्यादि। ततो जयश्रीः पुनश्चिरं स्थिरा बभूव । किं कृत्वा, उच्चैः कटकं यद्भजं यस्य बाहुम्। अधिगम्य संप्राप्य । किंलक्षणा, भीतेव त्रस्तेव । कुतो भीता यतो जयश्रोः प्रयासमवाप गतवती । कुत संचारवशात् संचारस्य पर्यटनस्य वशस्तस्मात् । वेषु, भूभृतां राज्ञां पर्वतानां च । गणेषु समूहेषु । किंलक्षणेषु, उच्चैः कटकेषु उच्चैः कटकाः शिविरा ( शिबिराणि ) येषां ते तेषु; अथवा उच्चैर्वलयेषु उच्चैनितम्बेषु च। अन्यस्यापि उच्चै कटकेषु उच्चैनितम्बेषु भूभृतां पर्वतानां गणेषु भ्रमतः प्रयासो भवति ततः कुत्रचिदवस्थानमिति लेषः (?) ॥ ४१ ॥ यः पुरुषोत्तमोऽपि कृष्णोऽपि, पक्षे पुरुषप्रधानः । वृषोच्छेद० वृषोच्छेदविधायि चेष्टितं यस्य स वृषोच्छेदविधायिचेष्टितः-दैत्यध्वंसकारिवृत्तिः, पक्षे पुण्यघातिचेष्टितः, नाभूत् ; अथवा वृषोच्छेदविधायिनी चासौ चेष्टा च वृषो० सा संजाता यस्य स तथाविधः, नाभूत् नाजनिष्ट । किंलक्षणः, अचिन्त्य० महात्मनो भावो माहात्म्यमचिन्त्योऽनवधार्यो माहात्म्यस्य प्रभुत्वस्य गुणो यस्य सः। जनानामाश्रयो जनाश्रयः । स्वस्य विक्रमोऽतिशत्तिता स्वविक्रमरतेनाक्रान्तं व्याप्त समस्तं विष्टपं येन स स्वविक्र०। श्रिया सनाथः लक्षया सहितः ॥ ४२ ॥ कल्पवृक्षेभ्योऽप्याधिक्यं यस्य सूच्यते । कल्पोपपदैर्महीरुहैः कल्पवृक्षः । नितान्तम् अतिशयेन । विमनस्कवृत्तिता विमनस्का चासो वृत्तिश्च विम० तस्या भावो विमनस्कवृत्तिता। दधे
१. ब विलेषः ( श्लेषः )।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org