________________
४६८
चन्द्रप्रमचरितम्
ति । कया जनाभिशङ्कया जनेभ्योऽभिशङ्का तया–किमेते जनाः सन्तीत्यारेकया। कथंभूता नवा वधूः, तरले चञ्चले, विलोचने विशिष्टनयने । निपातयन्ती इतस्ततः प्रक्षिपन्तो । कासु निवासभित्तिषु निवासस्य भित्तयो निवासभित्तयस्तासु गृहकुड्येयु । किंलक्षणासु सजीव० सह जीवचित्रवर्तन्त इति सजीवचित्रास्तासु । जीवचित्राणि पुत्तलिकाविशेषाः । भ्रान्तिमान् ।। २७ ॥ शशाङ्ककान्तेत्यादि । तथा यत्र पयस्ताण्डवं तनोति । कि लक्षणं. विकासि प्रोत्फल्लवहम । क्व. अकाण्डे अनवसरे। केषां शिखण्डिनां मयराणाम । किलक्षणम पयोदशङ्किनां पयोदानां शङ्का विद्यते येषां ते पयोदशङ्किनस्तेषां जलधरारकिनाम् । किलक्षणं तत्पयः । पतत् क्षरत् । कस्मात् सोधचयात् । सौधानां चयस्तस्मात् राजसदननिकरात् । किंलक्षणम् शशाङ्ककान्ता० शशांकान्ताश्च तेऽश्मानश्च शशाङ्क० तैर्मया (?) निवृत्ता ऊर्ध्वभूमिका वेदिका यस्य स तस्मात् । क्व, विधद्गमे चन्द्रोदये । अयमपि भ्रान्तिमान् ॥ २८ ।। निशगमेत्यादि । तथा यत्र, विधुः चन्द्रः । कलङ्कलेखया लाञ्छनरेखया। विभज्यते विभिद्यते । किंलक्षणो विधुः, अभिन्न देशः न भिन्नो देशो यस्य सोऽनन्यदेशः । कस्मात्, आननाम्बुजात् आननमेवाम्बुजं तस्मात् मुखकमलात् । किंलक्षणात्, अमलगण्डमण्डलात् अमलं गण्डयोर्मण्डलं यत्र तत्तस्मात् निर्मलकपोलविम्बात् । कस्य, वधूजनस्य। किंलक्षणस्य, सौधशि० सोधानां राजसदनानां शिरांसि शिखराण्यधिरोहतीति० स तस्य। क्व, निशागने रात्रिप्रारम्भे ॥२९॥ समुल्लसद्भिरित्यादि । तथा यत्पुरं विभाति । कैः, ध्वजांशुकैः । ध्वजानामंशुकानि ध्वजांशु० तैः केतनवसनैः । किंलक्षणः, समुल्लसद्भिः समुल्लासमूर्ध्वपरिस्पन्दं कुर्वद्भिः। पुनः किंलक्षणः, शरद० शरदोऽभ्राणि शरभ्राणि तानोव पाण्डुराः शरद० तैः । निरालम्बविशेषणत्वात् पुल्लिङ्गः। पुनरपि किंलक्षणम्, विनिवारि० विशेषेण निवारित आतप औष्ण्यं यैस्तानि तैः । बहुब्रीह्यालम्बनत्वान् नपुंसके । कैरिव, निर्मोकल वैरिव निर्मोकस्य लवा निर्मोकलवास्तैः । कञ्चुकलेशः (इव)। कि लक्षणनिर्मोकलवैः, निर्मल: मलरहितः। कस्य उष्णगो:-उष्णा गावो यस्य स तस्य आदित्यस्य। कि लक्षणस्य सतः । गृहाग्र० गलात्यर्थं पुरुषेणोपाजितमिति गृहम् , तस्य तेषां वा अग्रभागास्तैरुल्लिखितस्य सौधोपरिप्रदेशे घृष्टस्य इति ॥ ३० ॥ विशालशालोपवनेत्यादि । यस्निन जिनालयाः चैत्यगृहाणि विभान्ति । किंलक्षणाः, विशाल० शालश्च उपवनं च शालोपवने विशाले च ते शालोपवने च विशा० ताभ्यामुपशोभिनः जविस्तीर्णप्राकारवाटिकाराजमानाः। पुनः कि०, शिरः० शिरोभिः समुत्तम्भिता मेघानां पङ्क्तियस्ते शिखरस्थगित जलधरघटाः । पुनरपि कि० सिंह० सिंहः सनाथा मूर्तिर्येषां ते लेप्यमृगेन्द्राधिष्ठिततनवः । के इव, धरणीधरा इव पर्वता यथा । कि लक्षणाः पर्वताः, विशाला विस्तीर्णाश्च ते शाला वृक्षविशेषाश्च विशा० तेषामपवनं तेनोपशोभिनः। शेषं स्पष्टम् । श्लेषोपमा ॥३१॥ मदेनेत्यादि । यस्मिन् मदेन मद्येन योगः केवलं परं द्विरदेषु गजेषु विलोक्यते, अन्यत्र अवलेपेन योगो न । सोपसर्गता उपसर्गसहितत्वम्. केवलं धातुषु भ्वादिषु । निपातनक्रियाः साधुत्वं, पक्षे मारणक्रियाः। शब्देषु शब्दादिषु । करयोः पीडनानि करपोडनानि, पक्षे भागधेयस्य दुःखानि । कुचेषु स्तनेषु । भवन्ति, न जनेषु-इति सर्वत्र संबध्यते । परिसंख्यालंकारः ॥३२॥ द्विजिह्वितेत्यादि । यत्र द्विजिह्वता द्विरसना, पक्षे पिशुनता। परं केवलम् । फणाभृतां फणिनाम् । कुलेषु यूथेयु, न जनेष्विति सर्वत्र संबन्धः । चिन्तापरता चिन्तैकाग्रता (चित्तैकाग्रता ), पक्षे सचिन्तता। योगिषु घ्यानिषु । दरिद्रता क्षीणत्वं, पक्षे निर्धनत्वम् । नितम्बि नीनां कामिनोनाम् । उदरेषु कटीषु । अधरत्वसंभवः अधरशब्दवाच्यत्वं, पक्षे हीनजातित्वम् । ओष्ठेषु रदनच्छदेषु । वृत्तद्वयेऽपि परिसंख्या ॥ ३३ ॥ विभान्तीत्यादि । यस्मिन् गृहाणि सदनानि विभान्ति । किंलक्षणानि, सर्वतः सामस्त्येन । विविधो० उज्ज्वलाश्च ते उपलाश्च उज्ज्व० विविधाश्च ते उज्ज्वलो. विविधोज्ज्व० तैः प्रणद्धाः खचिता भित्तयो येषां तानि । किंलक्षणानीव, लीनानीव तिरोभूतानीव । केषु, दीप्तता कान्तिमत्तां दधत्सु निजेषु स्वेषु धामसु महःसु । कया, पतङ्गसंतापभिया पतङ्गस्य भानोः संतापः परितापस्तस्माद् भीः तया। उत्प्रेक्षा ॥ ३४ ॥ स न प्रदेशोऽस्तीत्यादि । यत्र स प्रदेशः प्रकृष्टो देशो न, यो जनाकुल: जनसंभृतो न। असौ जनोऽपि न, यो
१. ज पयोदत् । २. = निशागम इत्यादि । ३. ज 'लक्षणं' इति नास्ति । ४. ब स्वतिकान्तर्गतः पाठो नास्ति । ५.- स्थापित। ६. ज सद्य आदिषु । ७. ज नितम्बि इति नोपलभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,