________________
पञ्जिका
४३७
नूतनानि नवीनानि च तानि धान्यानि च तेषां राशयस्तैः नवीनधान्यपुजैः । कथंभूतैः बहिस्थितैः बाह्ये पुञ्जितैः । पुनरपि कथंभूतैः शिखावलि० शिलानामावल्यः पङ्क्तयः शिखा० ताभिः लीढो घनाघनानां मेघानामध्वा यैस्ते तैः शिखरपङ्क्तिस्पृष्टावकाशैः । कैरिव कुलमेदिनीधरैः कुलपर्वतैरिव । किविशिष्टैस्तैः उपयातैः समागतैः । कस्मात् कुतूहलात् कौतुकात् । उपमा ॥ १९ ॥ गतैरित्यादि । यः मङ्गला -
विषयः । भाति चकास्ति । कै: ग्रामपुरैः ग्रामाश्च पुराणि च ग्रामपुराणि तैः । किंलक्षणः, निरन्तरोद्या० निरन्तराणि सान्द्राणि च तानि उद्यानानि च निरन्तरोद्यानानि तेषां वितानं मण्डनं ( लं ) तेन राजितानि शोभितानि तैः अथवा उद्यानानां वितानमुद्यानवितानं तस्य राजि: उद्यानवितानराजिः निरान्तरा चासो उद्यानराजिश्च निरन्तरोद्य ( न सा संजाता येषु तानि तैः । उत्प्रेक्ष्यते कैरिव गतैरिव । कां समासति निकटत्वम् । कया दिदृक्षया द्रष्टुमिच्छया । कासाम् इतरेतरश्रियाम् इतरेतरेषां श्रिय इतरेतरश्रियस्तासां परस्वरलक्ष्मीणाम् । कथंभूतनाम्, अनन्यत्रभुवां न अन्यत्र भवन्तीन्त्यनन्त्रभुवस्तासाम् । एताः श्रियोऽस्मास्वेव नान्यात्रेति परस्परदिदृक्षाभिप्रायः || २० || देशमुपवदानीं नगरमुपर्णयति वणिक्पथेत्यादि । अथ आनन्तर्ये । तस्मिन् देशे । पुरं नगरम् । समस्ति विद्यते । किमभिधं रत्नसंवयं नाम । किलक्षणं वणिक्पथ० रत्नानां संचयः संघातो रत्नसंचयः वणिक्पथेषु विपणिपथेषु स्तुतिः पुञ्जितो रत्संचयो यत्र तत् । तथा यत्पुरं विभाति । कैः आला नितमत्तवारणैः मत्ताश्च ते वारणाश्च मत्तवारणाः क्षीवगजाः, आलानिता उतम्भिताश्च ते मत्तवारणाश्च आलानि० तैः । च पुनः । हम्यैः घनिनिवासैः । किंलक्षणः समत्तवा० सहमत्तवारणैर्वर्तन्ते इति समत्तवारणानि तैः प्रग्रीवसहितैः । यमकम् ॥ २१ ॥ गभीरनादैरित्यादि । यत्परिखा यस्य खातिका । विराजते विभासते । किंलक्षणा, प्रथीयसी पृथुलतरा । पुनः किंलक्षणा, संकुलान्तरा संभृतमध्या । कैः पयोधरैः जलदैः । किंलक्षणः, गम्भीरशब्दैः । पुनः किलक्षणः, प्रतिमानिपातिमिः प्रतिच्छायावती रितैः । पुनः किं० मन्दसमीर० मन्दश्चासी समीरणश्च ईरितास्तैः अल्पवायुप्रेरितैः । कैरिव जलेभयूथैरिव वारिवारण संत्रातैर्यथा । उपमा ।। २२ ।। परीतशृङ्गरित्यादि । परिधिः प्राकारः । विभाति । कः नक्षत्रगणैः तारकानिकरैः । किंलक्षणैः, परीतशृङ्गः परीतानि वेष्टितानि शृङ्गाणि यैस्ते परी०, तैः । पुनः किलक्षणैः, स्फुरन्ति अंशूनां जालकानि येषां ते, तैः स्फुरदंशुजालकैः भास्वत्करनिवहैः । कैरिव, प्रदीपप्रकरैरिव प्रदीपानां प्रकरैः समूहैः प्रबोधितैः प्रकाशितैरिव । किं लक्षण:, स्थिरत्रभैः नि. कम्प्रदीप्तिभिर्मण्यादिजैर्वा । कथं समन्ततः इतस्ततः । क्व यस्मिन् पुरे । उपमा || २३ || मलीमसमित्यादि । यत्र जनैश्वन्द्रमण्डलं विलोक्यते । किलक्षणं, घनाध्वमध्यगं धनानामध्वा धमाध्वा तस्य मध्यं गच्छतीति घनाध्वमध्यगंस्तम्' ( तत् ) । पुनः किलक्षणं मलीमसं मलिनम् । केन, भृङ्गनिभेन भ्रमरसदृशेन । लक्ष्मणा चिह्नेन । उत्प्रेक्ष्यते किमिव अभ्रं लिहन्तीत्यभ्रंलिहः शृङ्गाणां कोटयो येषां तानि तैः । गृहैः सदनैः निघृष्टदेहच्छवीव निघृष्टा उद्धर्षिता देहस्यच्छविर्यस्य तत् ।। २४ ।। भदाभमित्यादि । यत्र घनैः मेघैः । गजभ्रमः हस्तिभ्रान्तिः । वितन्यते क्रियते । केषां शरीरिणां प्राणिनाम् । कथंभूतानां गोपुरस्य शृङ्गे वर्तन्ते इति गोपुर शृङ्गवर्तिनस्तेषाम् । कथंभूतैर्घनैः, मदाभं मदसदृशम् । अम्भः जलम् । विसृजद्भिः श्र ( ख ) वद्भिः | उल्लसन्ती चासो तडिल्लता च उल्लसत्तडिल्लता सा अलंकरणं येषां ते, तैः विकसत्क्षणप्रभाभरणः । पुनः किं०, अधोगतैः अधः स्थितैः ॥ २५ ॥ सुगन्धिनिश्वासेत्यादि । यत्र पुरे । मधुव्रतव्रजः मधुकर समूहः । जनैर्विलोक्यते, क इव राहुः सैंहिकेय इव । किं लक्षणो राहुः, समापतन् समागच्छन् । क्या इन्दुशङ्कया चन्द्रारेकया । क्व, कामिनीमुखे नारीवदने । किलझणे, आपाण्डुनि आ ईषत् पाण्डुरे । केन, मनोभुवा कामेन । पुनः कथंभूते सुगं० शोभनो गन्धो यत्र स सुगन्धिः, निःश्वासस्य मरुत् निःश्वासमरुत्, सुगन्धिइचासौ निःश्वासमरुच्च सुगं० तेन मनोहरं तस्मिन् सुगन्धोच्छवासवायुसुन्दरो ( रे ) अत्र मुखचन्द्रयोः कान्तिमत्तया समानत्वेऽपि सुगन्धित्वेन काकिनीमुखे विशेष इति भावः ।। २६ ।। निपातयन्तीत्यादि । यत्र नवा नवोढा । वधूः कामिनी । जीवितेश्वरं प्राणनाथम् । गाढं यथा भवति तथा नालिङ्गति नाश्लिष (ष्य )
3
१. बावित । २. ब° गस्तम् । ३. बरौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org