________________
४७८
चन्द्रप्रमचरितम्
संयतकचपतदुज्ज्वलमल्लिका । पञ्चभिः कुलकम् ॥ १३७ ॥ तीक्ष्णत्वं कर्कशत्वम् । मानसे चेतसि ॥ १३८ ॥ कचेषु केशेषु । विरसत्वं रसाभावः [॥ १३९ ॥] विरोधः वैरं, पक्षिरोधश्च ॥ १४०॥ [ प्राकार० ] प्राकारखातिकाधूलिशालैः॥ १४१ ॥ मानेन प्रस्थादिना, प्रमाणेन वा। प्रमिन्वते प्रमाणविषयीकुर्वते ॥ १४२ ।। वापी दीपिका । वनम् उद्यानम् । आयतनं चैत्यम् । सोधः राजसदनम् । तडागः कासारः । गुरुणा बृहस्पतिना ॥ १४३ ॥
इति चन्द्रप्रभचरितमहाकाव्यपन्जिकायां द्वितीयः सर्गः ॥ २ ॥
तृतीयः सर्गः आप्तमीमांसादिशास्त्रप्रकाशं योऽकरोन्मुनिः ।
श्रुतादि : स मुनिर्जीयाच्छ्रद्धादिगुणभासिवाक् ॥ तत्र श्रीपुरे । आनन्दविषयीकृतस्वकीयसमस्तबन्धुपङ्कजः । न्यायगभस्तिसमूहनिराकृसदुर्नीतितिमिरः । मुकुलीकृतशत्रुवधूमुखचन्द्रश्रीः। भानुनिभः सूर्योपमः ॥१॥ विलङ्घयमानमूर्तिः अतिक्रभ्यमाणतनुः । प्रभूष्णुः समर्थः ॥२॥ अनुरागकरैः आनन्दविधायकः । तन्मात्र० प्रकाशमात्रकार्यकरणसमर्थाय ॥३॥ संपूर्णः समग्रश्चासौ शारदनिशाकरश्च तेनेव कान्तं मनोहरं च तत कीर्तिवल्लीवितानं च मण्डलं च संपूर्ण० तेन परिवेष्टितं विष्टपान्तं येन सः । व्यसनापनोदात आपदपसारणात ॥४॥ व्यस्यन्ति पातयन्तोति व्यसनानि, प्रशान्तानि सकलव्यसनानि यस्मात् स तस्मिन् । बुद्धिमाहात्म्यम् ॥५॥ अद्रिपतिना मेरुणा। हरिणा इन्द्रेण । वशिता जितेन्द्रियता । तुलितं प्रमितम् ॥ ६ ॥ पदातिवृषभाः भृत्यप्रधानाः, पदातयश्च वृषभा वलीवश्चेति वा । आक्रम्य तिरस्कृत्य ॥ ७ ॥ यत्र कृचित् यस्मिन् कस्मिंश्चित्पुरुषे । जातनिर्भररुषा उत्पन्नगाढकोपेन ॥ ८॥ वरवीरलक्ष्म्याः प्रधानशूरश्रियः ॥ ९॥ अजलोऽपि नदीनभावं समुद्रत्वम् । वसुमत्यां तिलको वृक्षविशेषोऽपि, अशोको वृक्षजातिः । कलाधरोऽपि चन्द्रोऽपि दोषाकरो न बभूव । विराधोऽयं, तत्परिहार:-अपि निश्चयेन यतोऽजडः पण्डितोऽतएव दीनभावं न भेजे। यतश्च वसुमत्याः वसुघायास्तिलको ललामभूतोऽत. एवाशोकः शोकरहितः । यतश्च कलाधरोऽतएव दोषाणामसोजन्यादीनामाकरो न बभूव ॥ १०॥ अर्थसंचयनिमित्तं द्रव्यसंचयकारणम् । इतरः कामः । व्यपेक्षां परस्पराश्रयम् । विजहुः तत्यजुः ॥ ११॥ अभ्यर्थित: प्राथितः । आलयभूतम् आस्पदम् ॥ १२ ॥ मनाक ईषत् धामाधिकः तेजोऽधिकः । तेन सूर्येण चन्द्रेण च ।। १३ ॥ सरसिजाकरसंनिवासिनी कमलवनवासिनी चासो श्रीश्च तद्वत् कान्तया मनोरमया। अव्यतिरिक्तया अभिन्नया ॥ १४ ॥ लावण्य सौन्दर्यसंपदमलोदके । शरद्विश० शरन्निर्मलचन्द्रकरसितः । समुदितः चयं गतः ॥ १५ ।। उच्चित्य परिज्ञाय । बत्रे' वृतवती ॥ १६ ॥ परीतवता वेष्टितवता ॥ १७ ॥ दोषायाः रात्रेः, दोषाणां दौर्जन्यादीनां च । तमसा अन्धकारेण पापेन च प्राभातिको प्रभातसमयोद्भवा। अम्बुजबान्धवस्य सूर्यस्य । औषधिपतेः चन्द्रस्य । परिभूय तिरस्कृत्य ।। १८॥ प्रणयकोप० स्नेहकषायविहितावकाशानि ॥ १९ ॥ अखिलावसरं निखिलकृत्यम् । उदश्रुणी नयने यस्याः सा स्रवद्रोदकनेत्रा ॥ २० ॥ विभक्तं विभागेनोभयत्र विधातुम् । त्वरमाणवृत्तिः 'कथय कथय' इति शीघ्रवर्तनः । शोकसमुद्भवस्य शोकोत्पत्तेः ॥ २१ ॥ दुरवीर्याः दुनिवारपराक्रमाः । प्रसृतः विस्तृतः। सोढुमशक्यतेजसि ।। २२ ॥ अप्रभूष्णोः असमर्थात् । प्रणयस्य स्नेहस्य ॥ २३ ॥ त्वदधीनवृतो त्वदायत्तजीवने । त्वत्प्रेमनिघ्नमनसि तव स्नेहपरचेतसि । शाठ्यं शठत्वम् ॥ २४ ॥ छन्दो ( न्दा ) नुवतिषु छन्दःकारिषु ( ? )। निशां० अन्तःपुरस्त्रीलोकेषु । अशक्नुवत्सु असमर्थेषु ॥ २५ ॥ आपरि० असंतोषकारणेषु ॥ २६॥ ह्रीवशान् लज्जावशात् । परेगितज्ञा परचेष्टामवबुद्धयन्ती
१. व ववेव । २. ब ओप। ३. ब ज 'कथय २' । ४. ज परवशचें । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org