________________
पञ्जिका
॥ २७ ॥ नियतिः विधिः ।। २८ ।। अनुभावः प्रभाव: । अध्यरुक्षत् आरुरोह । आढ़य० धनिकुमारान् डिम्भान् ।। २९ ।। विषण्ण' ० म्लान पुखकमला । कुक्षिः जन्म वा ॥ ३० ॥ मद्विधाः मया सदृशाः । पुष्पम् आर्तवं पुष्पम् ।। ३१ ।। स्त्यानधर्मिणि गर्भाधानवति । कार० निष्कारणकम् । व्यप० संज्ञाभिलाषी ॥ ३२ ॥ चन्द्रोज्झतां मृगाङ्करहिताम् ।। ३३ ।। उज्झितां रहिताम् ॥ ३४ ॥ न्यपतत् पतिवती ॥ ३५ ॥ निशम्य आकर्ण्य || ३६ || शुधः शोकस्य ।। ३७ ।। कर्म चित्तं कर्तव्यं देवमित्यर्थः ।। ३८ ।। अलस मन्दगामिनि । एकान्ततः सर्वथा इति भावमंस्थाः न जानीहि ॥ ३९ ॥ नानाबुद्धयादिलब्धिसहिताः ॥ ४० ॥ प्रतिविधातुं प्रतिकर्तुम् । कम्रैः मनोहरैः । करदीकृताशः अकरदाः करदीकृता आशा येन सः ॥ ४१ ॥ अभ्यया सीत् निर्जगाम ।। ४२ ।। नटन्मयूरे । कोमल कूजत्कोकिले ॥। ४३ ।। तारापथात् अम्बरात् ॥ ४४ ॥ रोमहर्षचचितशरीरः । नमाम अनंसीत् ॥ ४५ ॥ निजस्मितेन ईषद्धास्येन ।। ४६ ।। संकुचत्कमलप्रतिमौ । रश्मिवि० मण्डले ।। ४७ ।। रजसः पापस्य ॥ ४८ ॥ उन्मूलयति मूलत उत्खनति । उदीरयते उत्पादयति । अतिशयेनाल्पमल्पीयः [ तस्य ] ॥। ४९ ।। प्रसोद प्रसादं कुरु । परिजानतः अवबुध्यतः । विरति वैराग्यम् ।। ५० ।। चेतोगतां चेतसि स्थिताम् । अवबुद्धमानः परिजानन् । सूनुवाञ्छा पुत्राभिलाषः ।। ५१ ।। सुनुवाञ्छा | अरिकुलोन्मथनायैकोऽसहायो वीरः । विबं० अन्तरायकारणम् ।। ५२ ।। अग्रमहिषी पट्टदेवी । पुटभेदने पत्तने । अभिनन्दिताः समन्ताद्वृद्धि नीताः सर्वबन्धवो येन सः ।। ५३ ।। भ्रष्टकायकान्तिम् । ईदृग् गर्भपीडिततनुः ॥ ५४ ॥ प्रतिपद्य प्रतीक्ष्य । उद्धृतपुण्यान् ।। ५५ ।। अनपत्यम् अपुत्रम् । तस्य निदानस्य ॥ ५६ ॥ पृथूषाम्नि विपुलमहसि । अशेषितो निरस्तः कर्मबन्धो येन सः ॥ ५७ ॥ आनन्द्य आह्ना । इष्ट अभिलषितप्ररूपणेन । धाम स्थानम् ।। ५८ ।। पुरा पूर्वमुपचितैः पुष्टिं नीतैः पुण्यैनिबद्धं नियन्त्रितम् । आकलय्य विचार्य । निवबन्ध चकार । नियतं निश्चितम् । अङ्ग प्रधानं कारणम् ।। ५९ ।। प्रक्षोभिताः संभ्रमिता अखिलाः समस्ताः सुरासुरनागलोका येन तत् । समाससाद आजगाम ॥ ६० ॥ समीहितनितित्तं पुत्रोत्पत्यभिलाषकारणम् । जिनबिम्बस्तानस्याधः स्नानं चक्रे ।। ६१ ।। प्रह्लादनम् आनन्दम् ।। ६२ ।। आपाण्डुरम् ईषच्छुभ्रम् ।। ६३ ।। प्रसूतगण्डिम प्रसृता ( तः ) पाण्डिमा यत्र । षट्चरणः भ्रमरः । अनुचकार अनुसरतिस्म ।। ६४ ।। सर्प ० कुचद्वययो: ( स्य ) या विपाण्डुरता शुभ्रत्वं तस्य गुणः, सर्पन् प्रसरंश्चासी विषां गुणश्च तेन ॥ ६५ ॥ अन्तः समीपम् ।। ६६ ॥ नीलोत्पलानि कुवलयानि । प्रथमं विजितानि, इदानों पुण्डरोकैः सिताम्भोजः, सद्धे अभ्यसूये ।। ६७ ।। शिरोष० शिरीषपुष्पकोमलगात्रायाः ॥ ६८ ॥ भावितीर्थकरम् आगामितोर्थनाथम् ॥ ६९ ।। अभीषुति सूर्ये ॥ ७० ॥ मुखरं वाचालम् । नरनाथगृहम् ।। ७१ ।। निरित्य निर्गत्य | जन्मवतां प्राणिनाम् । प्रघोषः प्रणादः ।। ७२ ।। निवेदयद्भयः सूचवेभ्यः | अजीगणत् गणयामास ।। ७३ ।। रभसेन वेगेन । अन्तः मध्यम् । हृदयं मनः ॥ ७४ ॥ शुभे दिवसे सुवर्णनिवृत्तेः पुष्पैः सर्वज्ञं पूजयित्वा वंशवृद्धः यह मङ्गलनिमित्तं 'श्रीवर्मा' इति नाम चक्रे ॥ ७५ ॥ परान् शत्रून् । अमिताम् अयर्यादाम् । ननन्द ववर्द्ध ।। ७६ ।।
इति चन्द्रप्रभचरितमहाकाव्य पञ्जिकायां तृतीयः सर्गः ॥ ३ ॥
चतुर्थः सर्गः
आप्तमीमांसादिशास्त्रप्रकाशं योऽकरोन्मुनिः ।
स श्रुतादिमुनिर्जीयाच्छ्रद्वादिगुणमा सिवाक् ॥
Jain Education International
पद्माकरवत् कमलवनवत् । श्लेषोपमा ॥ १॥ कलाभिः चतुषष्टिभिः, षोडश [ भाग ] श्च ॥ २ ॥ उपास्य संसेव्य । विद्याः चतुर्दश, उपविद्याः तदन्याः । प्रचण्ड इन्दुमि (रि) ति पाठान्तरम् ||३|| वयसा वेषेण । आक
१. ब विशिन्न ज विषिन्न० । २. ब अमुमी ज असुया ।
४७९
For Private & Personal Use Only
www.jainelibrary.org