________________
चन्द्रप्रभचरितम्
रोत्थः खनिजः ||४|| अवाप्तुं प्राप्तुम् । सदाभियुक्तः अभियुज्यन्ते इत्यभियुक्ताः तैः सेवापरैः । उप० उपजीवनविषयीकृतः || ५ || इयेष इच्छति स्म ||६|| वदान्यतां दानशोण्डताम् । तद्वद्भिः वदान्यतायुक्तः । परतः अन्यतः ॥७॥ शूरतरः अतिशयेन शूरः । महीयः गरीयः । द्विपारेः सिंहस्य ||८|| स्पर्द्धात् ईर्ष्याविशेषात् ॥ ९ ॥ प्रपूरयन् पोषयन् ॥ १० ॥ खलस्वभावाः दुर्जनाः || ११|| अभिभव० तिरष्करणचतुरम् ||१२|| आयतनम् आस्पदम् । उत्सेकं गर्वम् ||१३|| षण्णां वर्गः षड्वर्गः स चासो रिपुश्च षड्व० निरस्तः षड्वर्गरिपुर्येन सः । 'कामः क्रोधश्च हर्षश्च मानो लोभस्तथा मदः । अन्तरङ्गोऽरिषड्वर्गः क्षितीशानां भवत्ययम् ॥ १४ ॥ निदेशात् अनुग्रहात् ( आज्ञातः ) । उपयेमे परिणीतवान् ॥ १५ ॥ नियोज्य निवेश्य । धुर्यं धौरेयम् ||१६|| वाञ्छयैव कृतं संनिधानं यैः ||१७|| अम्बरतः आकाशात् । विषयेषु भोग्येषु । १८ ।। अशाश्वतं विनश्वरम् । पुत्रकलत्रैर्मोहितः ॥१९॥ नगापगाः प्रसिद्धाः ||२०|| क्षणक्षयिणि क्षणिके । स्थिराभिमानं निश्चलमतिम् ॥ २१ ॥ समागमाः संयोगाः पुत्रमित्रकलत्रादयः । ऋच्छति गच्छति ||२२|| कृते निमित्तम् ||२३|| अव्यपायाम् अविनश्वराम् । वृणुते स्वीकुर्वन्ति । अपः पानीयानि ||२४|| अणुप्रमाणस्य परमाणुमितस्य । गिरीन्द्रोपमं मेरुप्रमितम् ||२५|| तालया कृतं तालीयं, काकस्य तालीयं का० ( काकागमनमिव तालपतनमिव काकतालं, काकतालमिव काकतालीयम् - - काकतालसमागमसन्निभमिति यावत् । क्लेश० कर्मणां विनाशात् ॥ २६ ॥ फल्गुभावम् असारताम् । अपगतरागः ||२७|| मन्दीभवश्वासौ प्रेम्णः स्नेहस्य रसश्च । युवराजानम् ( युवराजम् ) ॥२८॥ वात्या वातमण्डली । उपेत्य आगत्य । विहन्तुं त्यक्तुम् ॥ २९ ॥ निजप्र० स्वस्य उद्यमताम् । अवसानं प्रान्तम् ॥ ३० ॥ वयोऽनु० वयसा सह । प्रस्ख० गद्गदा भवितुम् ||३१|| दुःखदावपीडितम् । परिपन्थिना प्रतिकूलेन ||३२|| पुरैव पूर्वमेत्र | अपेतम् उज्झितम् । अवतिष्ठे स्थितोऽहम् ||३३|| अपास्तव्यसनः परित्यक्तद्यूनादिः । अपहस्तितः क्षिप्तो निराकृतोऽरिवर्गाणामुदयो येन सः || ३४ ॥ अभ्युदिते उदयं प्राप्ते । चाराः गूढपुरुषाः चक्षुर्यस्य सः । ' गन्धेन गावः पश्यन्ति ब्राह्मणा वेदचक्षुषा । चारैः पश्यन्ति राजानश्चक्षुमितरे जनाः ||३५|| मोद्वीविजः उद्वेगविषयं मा कृथाः । आत्मनोनम् आत्महितम् । निबन्धनं कारणम् ||३६|| निर्व्यसनस्य अनुद्रुतस्य । गरीयः गरिष्टम् । व्यसनम् उपद्रवः -- आपत् ||३७|| विधित्सुः कर्तुमिच्छुः । एनं परिवारम् । कृतज्ञतायाः कृतकृत्यतायाः ( ? ) । उद्वेजयते उद्वेगविषयं कुरुते ||३८|| दोषाः दौर्जन्यादयः । लोकद्वयम् इहपरलोकम् ।। ३९॥ वृद्धानुमत्या मन्त्रिवचनेन । वि० निरालस्यः । विनीयसानः अनुनोयमानः । गुरुणा वृद्धेन ॥४०॥ निगृह्णतः बाघयतः । बन्दिनः स्तुतिपाठकाः ॥ ४१ ॥ | संवृतमनाः । फला० निष्पत्तिनिश्चेयानि । निजस्येहितानि वाञ्छितकार्याणि ॥४२ || आशा : वाञ्छितानि दिशश्च । भूभृतः राजानः पर्वताश्च । कराणां भागधेयानां किरणानां च । निविबन्धः प्रतिकूलतारहितः || ४३ ॥ विश्राणमामास ददौ । प्रतीयेष जग्राह ॥ ४४ ॥ श्रीप्रभो नाम मुनिस्तस्य पादभूले । समासदत् प्राप ।। ४५ ।। विनिर्ययौ निर्जगाम ॥ ४६ ॥ मोलम् अङ्गरक्षकृतम् आटविकं भिल्लशवरादिजनितम् । सामन्वबलं क्षत्रियसैन्यम् ।। ४७ ।। खरकेशधूसरम् । परं केवलम् । दिशाम् आशानाम् ।। ४८ ।। अप्रतिकूलः अनुकूलः । व्याधूननं प्रकम्पनम् । अन्तर्दधे तिरोहितः ।। ४९ ।। प्रयाण० विजयसमयः । मातङ्ग ( ङ्गाः ) हस्तिनः । प्रतानः धूलिप्रसरः ॥ ५० ॥ मूर्च्छन् व्याप्नुवन् । विवरेषु रन्ध्रेषु ॥ ५१ ॥ प्रत्युद्यये प्रतिगृहीतः ॥ ५२ ॥ निशम्य श्रुत्वा । प्रस्थानं विजयप्रयाणम् । महाव्याकुल० व्यग्रचित्तानाम् । इति वक्ष्यमाणप्रकारेण ॥ ५३ ॥ अनपेक्ष्य अवगणय्य ।। ५४ ।। भयदिह्न० साध्वसविह्वलाङ्गाः । शरण्यं शरणार्हम् । अपोह्य परित्यज्य ।। ५५ ।। शौर्येण शूरत्वेन शौण्डैरुद्धतैः । अभ्येत्य आगत्य । पतङ्गानां पक्षिणां वृत्तिम् ।। ५६ ।। पत्रं वाहनम् । अशेषाणि समस्तानि रत्नानि । उपायनीकृत्य प्राभृतीकृत्य । हिमर्तुवृक्षाः यथा प्रालेयोपहताः शातिताङ्गाः पत्रादिरहिता भवन्ति ।। ५७ ।। गृहीत० स्वीकृतद्रव्यविशेषान् कृत्वा । न्ययुक्त अस्थापयत् ।। ५८ ।। उपेयुषः समागतान् । अन्वग्रहीत् पितृपदेषु अनुजग्राह । तनूजान् पुत्रान् ।। ५९ ।। गता० क्रोध ( गर्व ) रहितैः । दत्तमभयं येभ्यस्ते दत्ताभयास्तैः । कटकं सैन्यम् । यथा समुद्रं जेतुमिच्छया ।। ६० ।। गण्डस्थलामोद : कटोद्भेदपरिमलः ।
१. ब अश ।
४८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org