________________
पञ्जिका
विक्लेदितम् आदितम् । उपायनेभैः प्राभतगजैः ॥ ६१ ।। शावैः बालैः। पार्वतीयाः पर्वतवासिनः ।। ६२ ।। उपदीकृत्य उपायनीकृत्य ।। ६३ ।। अङ्गारिणीः अङ्गारयुक्ताः शत्रणां चिताभिः चितिभिः । प्रधुमिता धूसरा । यां च चकांक्ष अभिलाषमकरोत् । 'यस्यां दिशि सूर्य: सा शान्ता, अन्ये ज्वहितप्रधूमिते' इति ।। ६४ ॥ विकिरन् प्रसारयन् । करं भागधेयम् ।। ६५ ॥ प्रतिकूलिता द्विष्टा आज्ञा येन सः ॥ ६६ ॥ समानां मानसहिताम् । अम्भोनि० समुद्रजलपरिधाना ॥ ६७ ॥ भूतधात्री वसुन्धराम् । धात्रों दधानाम् । आससाद प्राप ॥ ६८ ॥ प्रत्यागतं समाय । श्लेषः ॥ ६९ ।। गोपुरस्य पुरद्वारस्य ।। ७० ॥ मारुहाः विटपिनः । विरोधीन् कन्धरविशेषान् ।। ७१ ।। कलं मनोहरम् । निषेदुषी निवसन्ती। हंसावलिः हंसपङ्क्तिः ॥ ७२ ॥ विनियंत् निःसरत् । पाठोनकुलं मत्स्ययूथम् ।। ७३ ।। गवाक्षः वातायनम् । संभूय एकीभूय । इलथ० अधोवस्त्रबन्धनदवरकम् ॥ ७४ ।। पञ्चबाणः कामः ॥ ७५ ॥ शशिसम० चन्द्रसमदीप्त्या। विलासैः शृङ्गारभेदैः । निकृतशत्र: खण्डितारिः।। ७६ ॥ निवेदं वैराग्यम ।। ७७ ।। प्रवज्य दीक्षित्वा । परमोदयः महद्धिकः ॥ ७८ ।। ...
इति चन्द्रप्रभचरितमहाकाव्यपञ्जिकायां चतुर्थः सर्गः ॥ ४ ॥
पञ्चमः सर्गः आप्तमीमांसादिशास्त्रप्रकाशं योऽकरोन्मुनिः ।
स श्रुतादि मुनिर्जीयाच्छ्रद्धादिगुणमासिवाक् ॥ धातकीखण्डभुवम् ॥ १ ॥ भरतप्रमुखक्षितीश्वराः भरतेश्वरादयः । कविवेधसां कविचक्रिणाम् ॥ २ ॥ तरुणोः कमनोयकामिनोः। स्थल० स्थलकमलिनीः । हृदयंगमा रुच्याः ॥३॥ यदीयनिगमान्तगताः यद्ग्रामप्रान्तस्थिताः ॥ ४ ॥ अस्पृश्यमध्याः ॥ ५ ॥ शकुन्ताः पक्षिणः ॥ ६ ॥ समयोचित (तं) यथाभिलिखित (-भिलषितम् ) । सकलर्तुषु षड्ऋतुषु ॥ ७ ॥ सुपयोधराः स्वच्छ जलधराः, पक्षे शोभनस्तनधारिण्यः ।। ८ ।। नवं वयः तारुणत्वम् । अपमृत्युहतः दुर्मृत्युबाधितः ॥ ९॥ निरवग्रहः निरुपद्रवः, अवृष्टिरहितैरित्यर्थः । सुरकुरुः भोगभूमिः ॥ १० ॥ तरुराजयः वृक्षपङ्क्तयः ॥ ११ ॥ तत्र विषये तस्मिन् देशे। प्रचुर० पुण्यरुपलक्षिता जनाः पुण्यजनाः, प्रचुराश्च ते पुण्यजनाश्च प्रचुरपुण्यजनाः तैः-बहुलपुण्यम ( व ) द्भिः, पक्षे प्रचुरश्रीदैः ।। १२ ।। अतनुधारं मुसलप्रपातम् ॥ १३ ॥ निर्वृतये विध्यापनाय ॥ १४ ॥ विविधासु नानाप्रकारासु ॥१५॥ जिगमिषगन्तुमिच्छम ॥ १६॥ विच्छरितः कर्बरितः ॥ १७॥ परिधेः प्राकारस्य ॥ १८ सरोभेदे । शिशिक्षिषया शिक्षितुमिच्छया ॥ १९ ॥ प्रतोलीशिखरं पुरद्वारशृङ्गम्। संवलितः कर्बुरितः ॥ २०॥ भिदा भेदः ॥ २१ ॥ त्रिदशा. स्वर्गतिरस्कारिणि ॥ २२ ॥ शक्तीनां प्रभावादीनामुपचयन समूहेनानुगतः सहितः। जगति जयो जगज्जयो नयविक्रमाभ्यामजितो जगज्जयो येन सः ॥ २३ ॥ बिसतन्तुः मृणालसूत्रम् । उडुपतिना चन्द्रेण ॥ २४ ॥ अवजेतुम् अवगणयितुम् । पृथु प्रचुरम् ॥ २५ ॥ गुरुतां महत्त्वम् ॥ २६ ॥ भुव० जगदतिक्रान्तेन ॥ २७ ॥ येन राज्ञा । दहनेन भस्मीकरणेन । कमनीयतया मनोहरतया ।। २८ ।। गृणातीति गुरुः । ईष्टे इतीश्वरः । नरकं दुर्गति, दैत्यभेदं च । धनं ददातीति धनदः, कुबेरश्च । कमलाया आलयः, ब्रह्मा च । शिशिराः शीतला गावो वाण्यो यस्य सः, चन्द्रश्च । बुध्यते इति बुधो धीमान, रोहिणेयश्च । सुष्ठ गतं ज्ञानं यस्य सः, बुद्धश्च । सकलैर्देवैर्मयो निर्वत्तः सकलदेवमयः ॥ २९ ॥ विववध वद्धि गता ॥ ३० ॥ वाष्पजलै: अश्रतीयैः ।। ३१ ॥ निजविक्रमेणाहितः स्वीकृतो रणकरसो येन सः। प्रधने संग्रामे ॥ ३२ ॥ तिरस्कृतसूर्यतेजसि ॥ ३३ ॥ सह. स्वाभाविकसरलतया, पक्षे भद्रजातितया । वंश: अन्वयः पृष्ठं च । दिक्षु करो यस्य स दिक्करी तस्य, दिक्कुञ्जरस्य च। मदः अवलेपः ॥ ३४ ॥ परिधा० अर्गलाकारे । भुग्नं निम्नं शेषशिरःसमूहम् [॥ ३५ ॥ ] योगं सहायम् ।। ३६ ॥ समितेः समूहस्य । अजन्यत
१. बगतां जगता । २. ब ज यातां । ३. ब तादिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org