________________
चन्द्रप्रभचरितम्
उत्पादिता ॥ ३७ ॥ अवयवैः करचरणादिन्यासैः । अभारि अधारि ॥ ३८ ॥ इतवति गतवति । सचन्द्रत्वम् ॥ ३९ ॥ तनुभूः पुत्रः ॥ ४० ॥ उपचिकाय उपचयं नीतवान् ॥ ४१ ॥ अवयवे बुबुधे । विफलः निःप्रयोजनम् ॥ ४२ ॥ वार्तं फल्गु ॥ ४३ || अलं० भूषयांवकार ॥ ४४ ॥ लघयन्तं लघूकुर्वन्तम् ॥ ४५ ॥ पिदधाति तिरोदधाति - आच्छादयति । गवारलोपः' । 'अपिधानतिरोधानविधानाच्छादनानि च । इत्यमरः ॥ ४६ ॥ इतं गतम् । सकलतेजस्विनाम् ।। ४७ ।। परम् अन्यत् । अलंकरणं भूषणम् ॥ ४८ ॥ न्यवीविशत् स्थापयामास ॥ ४९ ॥ अधरि० न्यक्कृत देवताधीशस्थानम् ॥ ५० ॥ नयनाभिरामं नेत्रयोः सुन्दरम् । दृशोर्विषयं दृष्टिगोचरम् ॥ ५१ ॥ उपायनेनोपग्राहोना ( णा ) नुगता अन्वायाता ये मण्डलिनस्तेषाम् । आस्त तस्थी ॥ ५२ ॥ परिमोहा विमोहं प्राप्य । जहार हृतवान् ।। ५३ ।। सुतशून्यं पुत्ररहितम् ॥ ५४ ॥ इन्द्रजालं हरिचन्द्रपुरम् ( मायाम् ) ॥ ५५ ॥ असुसदृश: प्राणसमानः ।। ५६ ।। मुक्तः करुणया आर्तरवो यत्र कर्मणि तद् यथा भवति ।। ५७ ।। अनलम् असमर्थ: ।। ५८ ।। अभिहितम् उक्तम् ।। ५९ ।। अनिबन्धनं निष्कारणम् । अकुशलम् अकल्याणम् । उपेक्षसे अवगणयसि ॥ ६० ॥ सहजविनयता ॥ ६१ ॥ क्षतं बाधितम् ॥ ६२ ॥ तिमिरावृत्ताः अन्धकारवेष्टिताः ।। ६३ ।। अनुत्सवताम् अकल्याणताम् ॥ ६४ ॥ व्यवहस्तितं मुष्टम् ॥ ६५ ॥ तुहिन० चन्द्रसुभगम् ॥ ६६ ॥ विषयत्वं गोचरत्वम् ॥ ६७ ॥ दयितत्रियपुत्र ॥ ६८ ॥ दुर्व्यसनम् आपत् ॥ ६९ ॥ धुनीपयसः नदीजलस्य ॥ ७० ॥ आधि मानसव्यथाम् । अन्तरयितुं प्रच्छादितुम् ॥ ७१ ॥ व्यलोकयत् लुलोके ।। ७२ ।। उद्ग्रीवम् ऊर्ध्वमुखम् ॥ ७३ ॥ जनेव वेगेन । जज्ञे अजनिष्ट ॥ ७४ ॥ कृशत्वं क्षीणताम् ॥ ७५ ॥ उत्तरीयम् ऊर्ध्ववस्त्रम् ॥ ७६ ।। उपहिताम् अग्रतः समानीताम् । सः मुनिः ॥ ७७ ॥ अभू० पूर्वं कदाचिदपि न भूतो यः ॥ ७८ ॥ खेचरत्वात् गगनगामित्वात् ॥ ७९ ॥ सप्रश्रयां सविनयाम् ॥ ८० ॥ अभ्युपेतः समागतः । मदनुग्रहार्थी ममोपकाराभिलाषुकः । अभूमिः अगोचरः ॥ ८१ ॥ कल्या० श्रेयस्करी ॥ ८२ ॥ समुच्छ्वासि उद्गतम् ॥ ८३ ॥ श्रुति० श्रोत्रसुखजनकम् ॥ ८४ ॥ प्रियविप्रयुक्तम् इष्टवियोगिनम् ।। ८५ ।। शतक्रतोः इन्द्रस्य ॥ ८६ ।। साधारणो समवृत्त्या वर्तमानौ । विगणय्य विचार्य ॥ ८७ ॥ अर्हसि न योग्यो भवसि अदृष्टोपजनितासु ॥ ८८ ॥ अकुशलम् अकल्याणम् । संयोज्य से संयोगं गमिष्यसि ॥ ८९ ॥ निश्चितार्थं निःसंदिग्धाम् ।। ९० ।। उग्रतेजसः । विश्वस्तमना ( नसा ) निश्चित
चेतसा ॥ ९१ ॥
इति चन्द्रप्रमचरितमहाकाव्य पञ्जिकायां पञ्चमः सर्गः ॥ ५ ॥
४८२
निपपात पतति स्म । उच्छलद्ग्राहसमूहे ॥ १ ॥ अपविद्धेषु अपध्वस्तेषु ॥ २ ॥ पाणिः गुल्फयोरघोवर्तमानः || ३ || कर्बुरयन् चित्रयन् ॥ ४ ॥ पादाः रश्मयश्चरणा वा ॥ ५ ॥ मृगराजः सिंहः || ६ || प्रियकाः चमूरवः | ७ || शबराः भिल्लाः । पुण्डरोक: व्याघ्रः । हिंसिताः मारिताः । सामजाः हस्तिनः ॥ ८ ॥ प्रचुरप्रान्त० अमर्यादावसानवल्ली, अथवा प्रचुराणि प्रान्तानि पुष्पाणि यासु ताश्च ता लताश्च । क्रमं पदम् ॥ ९ ॥ अपोढ निवारितशीताः । शत्रुः अजगरः । प्लवगाः वानराः ॥ १० ॥ विनिचाय्य निरीक्ष्य । प्रतस्थे प्रचलितः ।। ११ ।। वंशः अन्ववायः, पृष्ठं च । सत्त्वं पराक्रमः । सत्त्वाश्च प्राणिनः ॥ १२ ॥ खड्गिनः अनुचराः पादचारिणः, गण्डकाश्च । वनपर्यन्तस्य बुभुत्सा ज्ञातुमिच्छा तया ॥ १३ ॥ वर्षाकालोद्भवजलदश्यामः ॥ १४ ॥ प्रतिशब्दितसकलभूधर विवरः । त्वरया वेगेन । अविषयैः सोढुमशक्यैः ॥ १५ ॥
षष्ठः सर्गः
आप्तमीमांसादिशास्त्रप्रकाशं योऽकरोन्मुनिः । स श्रुतादिमुनिर्जीयाच्छ्रद्धादिगुणभासिवाक् ॥
O
Jain Education International
१. ल । २. जं नयम् । ३. जठश्च ।
For Private & Personal Use Only
www.jainelibrary.org.