Book Title: Chandraprabhacharitam
Author(s): Virnandi, Amrutlal Shastri
Publisher: Lalchand Hirachand Doshi Solapur

View full book text
Previous | Next

Page 508
________________ ४५५ - १०, १३९] अष्टादशः सर्गः गगने गमनं तस्य सर्वेषामपि हृष्टये । बभूव प्राणिनां प्राणिविरोधेन विवर्जितम् ।।१३५।। तस्य भुक्त्युपसर्गाभ्यां मनागपि न पस्पृशे । शीतेतरकरस्येव च्छायाविरहितं वपुः ।।१३६।। चतुराननतारूपमहातिशयशालिनः। चतुरा न नता तस्य काभ्युत्थाय स्वयं प्रजा ॥१३७।। पक्ष्मस्पन्दविनिर्मुक्त बभतुस्तस्य लोचने । नीलोत्पले इवात्यन्तनिर्वातस्थानसंस्थिते ॥१३८।। सर्वविद्येशिनः स्तस्य यथास्थनस्त्रमूर्धजम्।। असाधारणतां तस्य वपुर्वक्तुमिवाभवत् ।।१३९॥ प्रीत्यै प्रीतिनिमित्तम् । अजायत जायते स्म । लङ ॥१३४॥ गगन इति । तस्य चन्द्रप्रभस्य । प्राणिविरोधनविवजितं प्राणिनां विरोधनेन वधेन विजितं रहितम् । गगने आकाशे। गमनं यानम् । सर्वेषामपि निखिलानामपि । प्रणिनां जीवानाम् । संतोषाय। बभूव भवति स्म । लिट् ॥१३५।। तस्येति। शोतेतरकरस्येव सूर्यस्येव । छायाविरहितं छायया प्रतिबिम्बेन विरहितं विहीनम् । तस्य चन्द्रप्रभस्य । वपुः शरीरम् । भुक्त्युपसर्गाभ्यां भुक्तरुपसर्गाच्च । मनागपि स्तोकमपि । न पस्पृशे नस्पृश्यते स्म। स्पृश स्पर्शने कर्मणि लिट् ॥१३६।। चतुरेति । चतुराननतारूपमहातिशयशालिन: चत्वारि आननानि यस्य तस्य भावश्चतुराननता चतुर्मुखता सा च रूपं यस्य सः चतुराननतारूपः स चासौ महातिशयश्च चतुराननतारूपमहातिशयः तेन शालते शोभते इति तथोक्तः, तस्य । तस्य भगवतः । चतुरा प्रौढा।[ का] प्रजा जनः । स्वयम् । अभ्युत्थाय गौरवं कृत्वा । नता विनता । न भवति । अपितु सर्वा प्रजा विनतैव ।।१३७॥ पक्ष्मेति । पक्ष्मस्पन्दविनिर्मुक्ते पक्ष्मणोनयनच्छदयोः स्पन्देन निमीलनादिना विनिर्मुक्ते विरहिते । तस्य जिनेशिनः । लोचने नयने । अत्यन्तनिवातस्थानसंस्थिते । अत्यन्तं निवाते वातरहिते स्थाने सरोवरप्रदेशे संस्थिते स्थिते । नीलोत्पले इव नीले च ते उपले च ते इव । बभतः भातः स्म । भा दीप्तौलिट् ॥१३८॥सर्वेति । सर्वविद्येशिनः सर्वासां विद्यानामीशिनः स्वामिनः । तस्य भगवतः। असाधारणतां साधारण (ता) रहितत्वम्।स्वस्य आत्मनः। वपुः शरीरम् वक्तुमिव निगदितुमित्र । यथास्थनखमूर्धजं यथा तिष्ठन्तीति यथास्था नखाः कररूहामूर्धजाः शिरोरुहा यस्य तत् । अभवत् अभूत् । लङ् ॥१३९॥ स इति । लिए दो सौ योजन तक सुभिक्ष हो जाता था ॥१३४॥ सभी प्राणियोंकी प्रसन्नताके निमित्तसे उनका गमन आकाशमें होता था, तथा उनके गमनसे किसी भी प्राणीकी विराधना नहीं होती थी ॥१३५॥ उनका शरीर सूर्यमण्डलकी भांति परछाईसे रहित था, तथा कवलाहार और उपसर्गसे अछूता था ॥१३६॥ उनमें एक ऐसा अतिशय था, जिससे उनका मुख चारों ओर दिखलाई पड़ता था-उनमें चतुर्मुख होनेकी अतिशय था, उससे उनका रूप देखते ही बनता था । प्रजामें ऐसा कौन सा मनुष्य था जो उन्हें स्वयं उठकर नमन नहीं करता था ? ॥१३७॥ उनके नेत्रोंके पलक झपते नहीं थे-सदा निनिमेष रहते थे, अतः वे ( नेत्र ) जहाँ वायुका संचार बिलकुल भी नहीं है, उस स्थानमें स्थित सरोवरके नीलकमलोंकी भांति सुशोभित होते थे ।।१३८॥ वे समस्त विद्याओंके स्वामी थे। मानो उनकी असाधारणताको बतलानेके लिए १. अ प्राणविरो। २. अ आ इ भक्त्यु। ३. म 'विद्येशितु। ४. एष टीकापाठः प्रतिषु तु 'प्राणिविरोधेन विवर्जितम्' इति दृश्यते । ५. श 'लिट्' इति नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616