Book Title: Chandraprabhacharitam
Author(s): Virnandi, Amrutlal Shastri
Publisher: Lalchand Hirachand Doshi Solapur

View full book text
Previous | Next

Page 522
________________ पञ्जिका ४६९ धनेश्वर इम्यो न । तद् धनं द्रव्यं न, यद् भोगसमन्वितं भोगसहितं न । स भोगोऽपि न, यः संततोऽनवरतो न । एकावलीयमलंकृतिः ॥ ३५ ॥ विलप्तेत्यादि । यत्र सितेतराणि सितानि चेतराणि च यद्वा सितेभ्य इतराणि नीलानि । अम्बुरुहाणि कंजानि । लुठन्ति प्रकम्पन्ते । कुतः, तापात् अन्तःक्लेशादिव । किलक्षणानि योषितां कामिनीनाम्, विलोचनोत्पल: विशिष्टनयनकुशेशयैः, विलुप्तशोभानि जितकान्तीनि । क्व, दीर्घिकाजले वापीतोये। किंलक्षणे, मरुन्चल० मरुता वायुना चलन्त्यो वीचयः कल्लोला यत्र तत् तस्मिन् । पुनः किं लक्षणे, शीतले। अन्योऽपि यः कश्चित् केनापि जितो भवति सोऽपि वायुना शीतले जले लुठति । उपमेयमलंकृतिः ( हेतूत्प्रेक्षा ) ॥ ३६ ॥ महागुणैरित्यादि । यत् पुरम् । महाजनैः गरिष्ठलोकैः । अधिष्ठितम् आश्रितम् । प्रतिभाति चकास्ति । किलक्षणैस्तैः, महागुणैः महान्तो गुणाः सौजन्यौदार्यस्थैर्यप्रभृतयो येषु ते महा. गुणास्तैरपि । अगुणः गुणरहितैः, पक्षे यतो महागुणैरतएवागुणः; 'सत्त्वं रजस्तमश्चेति त्रयः प्रोक्ता महागुणाः ।' तेभ्यः, तमोगुणरहितैः, अथवा अस्य कृष्णस्य गुणा इव गुणा येषां तेऽगुणाः तै. । मदोज्झितैः त्यक्तमदैः अपि प्रवृ० परिणतप्रकृष्टमदैः, पक्षे यतो मदोज्झितैरत एव परिणतहर्षेः; मानिनां सदा संतप्तत्वाद्धर्षाभाव एव । प्रकामम् अतिशयेन । निर्भयैः भयरहितैरपि । परे शत्रवश्च ते लोकाश्च परलोकास्तेभ्यो भीरुभिर्भालुकैः, पक्षे परलोकः प्रेत्यभावः । विरोधालंकारः ॥ ३७ ॥ स यत्रेत्यादि । यत्र स एव परं दोषो यत्कामिनः कामुकाः, स्वकान्तानुनयस्य स्वकामिनीचाटुकारस्य, रसं रहस्यं न जानते नावबुध्यन्ति । क्व सति कृजति कुणति सति । कस्मिन्, पतत्कूले पक्षियूथे। किंलक्षणे, वेदिकानां सौधोपरिममिकानां शिर:शिखासु शेते इति वेदिकाशिरःशिखाशायि तस्मिन् । पुनः किंलक्षणे मानभञ्जने मानं भनक्तीति मानभञ्जनं तस्मिन् । कामिन्यः खलु सुरतावसरे कूजन्ति स्वचातुर्यात् । तत्र पतत्रिणां कूजनश्रवणात् तासां मानभङ्गः, मानभने च नीरसत्वमिति भावः ।। ३८ ॥ अथ पञ्चदशभिः पद्य राजोपवय॑ते । अथाभवदित्यादि । अथ नरेश्वरः भूपतिः। अभवत् । किलक्षणः, भूरिगुणैः प्रचुरगुणः । अलंकृतः भूषित; । पुनः किं०, तस्य पुरस्य रत्नसंचयस्य । शाशिता रक्षकः । तथा यः, उवाह दधौ । का, कनकप्रभाभिधां कनकप्रभ इत्यमिधा कनकप्रभाभिधा ताम् । कया, रूढया लोकप्रसिद्धया। कथं तथापि, तथापीति कि, यः, केनचिदुपमानेन तुलितद्युतिर्न तुलिता समीकृता द्युतिर्यस्य स तुलि० ॥ ३९ ॥ यशोभिरित्यादि । महौजसः महदोजो बलं यस्य तस्य । यस्य राज्ञः । विधूपितं संतापितमरातो नां कुलं यस्तानि । तेजांसि महांसि । न ममुः न संमान्ति स्म । वव, भूतले पृथिव्याम् । किंलक्षणे, पूरितमन्तरं मध्यं यस्य तत् तस्मिन् । कैः, यशोभिः, किंलक्षणैः एणाङ्ककला. एणाङ्कस्य चन्द्रस्य कला एणाङ्ककलाः ताभिरिव समुज्ज्वलानि एणाङ्कक० तैरेणाङ्ककलासमुज्ज्वलैः । किं लक्षणरिव, पुरः प्रयातैःपुरोगैरिव ॥४०॥ प्रयासमुच्चरित्यादि। ततो जयश्रीः पुनश्चिरं स्थिरा बभूव । किं कृत्वा, उच्चैः कटकं यद्भजं यस्य बाहुम्। अधिगम्य संप्राप्य । किंलक्षणा, भीतेव त्रस्तेव । कुतो भीता यतो जयश्रोः प्रयासमवाप गतवती । कुत संचारवशात् संचारस्य पर्यटनस्य वशस्तस्मात् । वेषु, भूभृतां राज्ञां पर्वतानां च । गणेषु समूहेषु । किंलक्षणेषु, उच्चैः कटकेषु उच्चैः कटकाः शिविरा ( शिबिराणि ) येषां ते तेषु; अथवा उच्चैर्वलयेषु उच्चैनितम्बेषु च। अन्यस्यापि उच्चै कटकेषु उच्चैनितम्बेषु भूभृतां पर्वतानां गणेषु भ्रमतः प्रयासो भवति ततः कुत्रचिदवस्थानमिति लेषः (?) ॥ ४१ ॥ यः पुरुषोत्तमोऽपि कृष्णोऽपि, पक्षे पुरुषप्रधानः । वृषोच्छेद० वृषोच्छेदविधायि चेष्टितं यस्य स वृषोच्छेदविधायिचेष्टितः-दैत्यध्वंसकारिवृत्तिः, पक्षे पुण्यघातिचेष्टितः, नाभूत् ; अथवा वृषोच्छेदविधायिनी चासौ चेष्टा च वृषो० सा संजाता यस्य स तथाविधः, नाभूत् नाजनिष्ट । किंलक्षणः, अचिन्त्य० महात्मनो भावो माहात्म्यमचिन्त्योऽनवधार्यो माहात्म्यस्य प्रभुत्वस्य गुणो यस्य सः। जनानामाश्रयो जनाश्रयः । स्वस्य विक्रमोऽतिशत्तिता स्वविक्रमरतेनाक्रान्तं व्याप्त समस्तं विष्टपं येन स स्वविक्र०। श्रिया सनाथः लक्षया सहितः ॥ ४२ ॥ कल्पवृक्षेभ्योऽप्याधिक्यं यस्य सूच्यते । कल्पोपपदैर्महीरुहैः कल्पवृक्षः । नितान्तम् अतिशयेन । विमनस्कवृत्तिता विमनस्का चासो वृत्तिश्च विम० तस्या भावो विमनस्कवृत्तिता। दधे १. ब विलेषः ( श्लेषः )। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616