________________
चन्द्रप्रमचरितम्
करिणो मदमूढचेतसः परिपश्यन्स्वयमेव बन्धनम् । भजते मदवृत्तिमात्मवान्क इवानात्महितप्रवर्तिनीम् ॥१२॥ मदमूढमतिर्हिताहितं न हि जात्यन्ध इवावलोकते' । परिपश्यति सोऽथवा धिया न मदान्धस्तु धिया न चक्षुषा ॥ १३ ॥ डमी रिपवः शरीरजा नयविद्भिर्गदिता मदादयः ।
निजचेतसि यः पुरैव तान्नृपतिः शास्ति स शास्ति मेदिनीम् ||१४|| क्षमते निजमेव रक्षितुं रिपुषड्वर्गहतं मनो न यः । परिभूतिभयादिवात्मनस्तमपास्यापसरन्ति संपदः ||१५||
२८२
( अतिक्रान्ता ) । उपमा || ११|| करिण इति । मदमूढचेतसः मदेन मूढमज्ञानं चेतश्चित्तं यस्य तस्य । करिणः गजस्य । बन्धनं स्वयमेव, परिपश्यन् विलोकमानः । अनात्महितप्रवर्तिनीम् अनात्महितां स्वस्यहितां प्रवर्तिनी प्रवर्तनाम् । मदवृत्ति मदेनाहंकारेण युक्तां वृत्ति वर्तनाम् । आत्मवान् बुद्धिमान् । क इत्र को वा । इव शब्दो वाक्यालङ्कारे । भजते आश्रयते । भज सेवायां लट् । आक्षेपः || १२ || मदेति । मदमूढमतिः मदेन गर्वेण मूढा मुग्धा मतिर्बुद्धिर्यस्य सः । जात्यन्ध इव जनुषान्ध इव । हिताहितम् इष्टानिष्टम् । न हि अवलोकते न वीक्षते । लोकृञ् दर्जने लट् । अथवा जात्यन्धः, धिया बुढा । परिपश्यति पर्यालोकते । दृश४ प्रेक्षणे लट् । मदान्धस्तु मदेनान्वस्तु । धिया च न पश्यति, चक्षुषा च नयनेन च न पश्यति । उपमा | व्यतिरेकः ||१३||
[ १२, १२ -
डिति । नयविद्भिः नयं नीतिशास्त्रं विदन्तीति नयविदः तैः । शरीरजाः अन्तरङ्गभागः । मदादयः मदप्रभृतयः । ' कामक्रोध लोभमानमदहर्षाः क्षितीशानामन्तरङ्गोऽरिषड्वर्ग : ' इति नीतिवाक्यामृते । अभी हमे । षड् रिपवः शत्रवः । गदिताः प्रोक्ताः । यः नृपतिः भूपतिः । पुरैव प्रागेव । निजचेतसि स्त्रस्य मानसे । तान् शरीरजरिपून् । शास्ति निगृह्णाति । सः भूपः । मेदिनीं भूमिम् । शास्ति रक्षति । शास् अनुशिष्ट लट् ॥ १४॥ क्षमत इति । यः राजा रिपुषड्वर्गहतं रिपूणां शत्रूणां षण्णां वर्गः समूहः तेन हतं" बाधितम् । निजमेव स्वकीयमेव । मनः चित्तम् । रक्षितुं रक्षणाय । न क्षमते समर्थो न भवति । क्षमोषि सहने लट् । तं राजानम् । संपदः संपत्तयः । आत्मनः स्वस्य । परिभूति भयादिव परिभूतेस्तिरस्कारस्य भयादिव भोतेरिव ।
जैसे मदमाता हाथी अर्गला ( आगर ) को तोड़ देता है ॥११॥ मदान्ध हाथीके बन्धनको स्वयं देखकर भी कौन ऐसा बुद्धिमान् होगा, जो अपने लिए अहित करनेवाली मदान्ध वृत्तिको अपना ॥ १२ ॥ | जिसकी बुद्धि मदसे विकृत हो जाती है, उसे जन्मान्ध पुरुषकी भाँति अपना हित और अहित नहीं सूझता । यों मदान्ध और जन्मान्ध बिल्कुल एक सरीखे हैं, किन्तु जन्मान्ध पुरुष अपनी बुद्धि ( हिये की आँख ) से सभी ओर देख लेता है— आगा-पीछा सोच लेता है, पर मदान्ध न हियेकी आंख से देख सकता है, और न ऊपरी आँखसे । अतः मदान्ध जन्मान्धसे भी गया - बीता है | १३ || नीतिशास्त्र के जाननेवाले विद्वानोंने इन मद आदि छः( मद, मान, काम, क्रोध, लोभ और हर्ष ) को अन्तरंग शत्रु कहा है । जो राजा पहले से ही अपने मनमें इन छहों पर शासन कर लेता है, वही पृथिवीका शासन करता है || १४ || जो राजा अपने ही मनको इन छह शत्रुओंके आक्रमणसे नहीं बचा सकता, उसकी लक्ष्मी मानो अपने
९. अलोकति । २. आ 'भज सेवायां' इति नास्ति । ३ = जन्मान्ध इव । ४. आ दृशिर । ५. आशासु । ६. आश हृतं । ७. आश हृतं । ८. आ क्षमूष् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.