________________
चन्द्रप्रभचरितम्
शौर्य नातिशयि समुज्झितं नयेन न क्षान्त्या रहितमुदारया प्रभुत्वम् । यस्यासीद्वियविनाकृता न विद्या वित्तं नानवरत दानभोगहीनम् ॥१४॥ तस्योर्वीवलयविशेषकस्य राज्ञः पर्याप्ताननुगुणवर्णनेयतैव । संसारार्णवमथनस्य भव्यभानोर्यद् भेजे सकलजगद्गुरोर्गुरुत्वम् ||१५|| तस्य श्रीरिव कमलालयादुपेता पातालादिव परिनिर्गताहिकन्या । पुष्पेषो रतिरिव लक्ष्मणेति जाया सर्वान्तःपुरपरमेश्वरी बभूव ||१६|| सच्छाया विपुलतरोर्महा लतेव मेघानामिव पदवी सतारतारा । चापश्रीरिव वरवंशलब्धजन्मा या रेजे सुकविकथेव चारुवर्णा ||१७||
३८८
निषेधोपमा ॥१३॥ शौर्यमिति । यस्य भूपस्य । अतिशयि अतिशयोपेतम् । शौयं सामर्थ्यम् । नयेन नयगुणेन । न समुज्झितं विरहितं न भवति । तस्य प्रभुत्वं स्वामित्वम् । उदारया महत्या । क्षान्त्या क्षमया । रहितं समुज्झितं न । विद्या शास्त्रपरिज्ञानम् । विनयविनाकृता विनयेन विनयगुणेन विनाकृता अभावविहिता । नासीत् नाभवत् । वित्तं द्रव्यम् । अनवरतदानभोगहो नम् अनवरतं सततं दानभोगाभ्यां त्यागानुभवाभ्यां हीनं रहितम् । न स्यात् सर्वं सार्थकमेव भवतीत्यर्थः || १४ || तस्येति । यत् यस्मात् कारणात् । संसारार्णवस्य संसारसमुद्रस्य मन्थनस्य प्रमर्दनस्य । भव्यभानोः भव्यानां विनेयजनानां भानोः सूर्यस्य, सन्मार्गप्रकाशकस्येत्यर्थः । सकलजगद्गुरोः स्वामिनः । गुरुत्वं पितृत्वम् । भेजे भजतिस्म । लिट् । उर्वीवलयविशेषकस्य उर्व्या भूमेर्वलयस्य मण्डलस्य विशेषकस्य तिलकस्य । तस्य महासेनस्य । राज्ञः भूपस्य । गुणवर्णना गुणानां वर्णना कीर्तना । इयतैव एतावत्प्रमाणेनैव । पर्याप्ता संपूर्णा । ननु निश्चयम् ||१५|| तस्येति । कमलालयात् कमलमेवालयं तस्मात् । उपेता आगता । श्रीरिव लक्ष्मीरिव । पातालात् अधोभुवनात् । परिनिर्गता आयाता । अहिकन्येव नागकन्येव । पुष्पेषोः कामस्य | रतिरिव रतिदेवीव । तस्य महासेनभूपस्य । सर्वान्तःपुरपरमेश्वरी सर्वस्याखिलस्यान्तः पुरस्य निशान्तस्य परमेश्वरी स्वामिनी । लक्ष्मणा इति लक्ष्मणादेवी इति । जाया प्राणवल्लभा । बभूव भवति स्म । भू सत्तायां लिट् । उपमा ( उत्प्रेक्षा ) ॥ १६ ॥ सच्छायेति । विपुलतरोः विपुलस्य महतस्तरोवृक्षस्य । महालतेव वल्लरीव । सच्छाया कान्तियुक्ता ( पक्षे ) अनातपसहिता । मेघानां जलधराणाम् । पदवीव वीथोव, गगनमिवेत्यर्थः । सुतारतारा सुतारा महत्यस्तारा मौक्तिकाः, पक्षे तारा नक्षत्राणि यस्याः सा । चापश्रीरिव चापस्य धनुषः श्रीरिव शोभेव । वरवंशलब्धजन्मा वरे श्रेष्ठे वंशे, सका ॥१३॥ उसका सर्वोत्कृष्ट पराक्रम नीतिसे रहित नहीं था, प्रभुता उत्तम क्षमासे रहित नहीं थी, विद्या विनयसे रहित नहीं थी और धन कभी भी दान और भोगसे हीन नहीं था ||१४|| राजा महासेन सारे भूमण्डलका तिलक था । निश्चय ही उसके गुणों का वर्णन इतना ही पर्याप्त है कि वह संसारसमुद्र के मथन करनेवाले, भव्य जीवोंको सन्मार्ग प्रदर्शन करने के लिए सूर्यको समता करनेवाले और सारे संसारके गुरु बननेवाले भगवान् चन्द्रप्रभका गुरु-पिता था ।। १५ । उसकी लक्ष्मणा नामकी पट्टरानो थी, जो सभी रानियोंमें प्रमुख थी, और जो ऐसी प्रतीत होती थी मानो कमलरूपी आलयको छोड़कर आयी हुई लक्ष्मी हो, पातालसे निकलकर आयी हुई नागकन्या हो या कामदेव के पाससे आयी हुई रति ( कामदेवकी पत्नी ) हो ॥ १६॥ जिस प्रकार विशाल वृक्षको बहुत बड़ी शाखा अच्छी छायासे युक्त होती है उसी प्रकार पट्टरानी लक्ष्मणा अच्छी छाया-कान्तिसे युक्त थी; जिस तरह आकाश चमकती हुई ताराओंसे युक्त होता है उसी तरह वह चमचमाते निर्मल मोतियोंसे भूषित थी; जैसे धनुषकी सुषमा श्रेष्ठ
[ १६, १४ -
१. अ क ख ग घ म महातरो ल° । २ = पराक्रमः । ३. आ विनयजनानां श विनीयजनानां । ४. श वेतृत्वम् । ५ = निश्चयेन । ६ = महाशाखेव । ७. श 'वल्लरीव' इति नोपलभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org -