________________
चन्द्रप्रभचरितम्
प्रणनाद भावनगृहेषु जलदपटुशङ्खसंहतिः । व्यन्तरसुरभवनेष्वहताः पटहाः प्रतिध्वनिमुचः प्रदध्वनुः ||५|| इति हेतुभिः प्रचलितैश्च समसमयमात्मविष्टरैः । ज्ञातजिनपतिभवा परितो गगनं प्रपूर्य विबुधाः प्रतस्थिरे ||६|| प्रचलत्सुरासुर किरोटकिरणनिकुर स्वरञ्जिताः ।
मण्डनमिव जगृहुः ककुभोऽप्यथवा न कस्य जिनजन्म वृद्धये ||७|| अधुना व्यक्ति जिन एव भुवनमिदमत्र किं मया
कृत्यमिति सुरविमानच यैस्त्रपयेव भानुरभवत्तिरोहितः ||८||
४०६
Y
लिट् ||४|| प्रणनेति' | भावनगृहेषु भवनामरसंबन्धिषु गृहेषु भवनेषु । शङ्खसंहतिः शङ्खानां संहतिः समूहः । जलदपटु जलदवद् मेघवत् पटु व्यक्तं यथा तथा । प्रणनाद दध्वान । णद शब्दे लिट् । व्यन्तरसुरभवनेषु व्यन्तरसुराणां भवनेषु गृहेषु । अहताः अताड़िताः । प्रतिध्वनिमुचः प्रतिध्वनि मुञ्चन्तीति तथोक्ताः । पटहा दुन्दुभयः । प्रदध्वनुः रुरुवुः । ध्वन शब्दे लिट् ॥५॥ इतीति । इति हेतुभिः इत्येवं हेतुभिः । समसमयं समः समानः समयः कालो यस्मिन् कर्मणि तत्० । प्रचलितैः कम्पितैः । आत्मविष्टरः [च] आत्मनां स्वेषां विष्टररासनश्च । ज्ञातजिनपतिभवा: ज्ञातो विदितो जिनपतेर्भवो जन्म यैस्ते । विबुधाः देवाः । परितः सर्वतः । गगनम् आकाशम् । प्रपूर्यं व्याप्य । प्रतस्थिरे निर्जग्मुः । ष्ठा गति निवृत्तों | अनुमितिः || ६ || प्रचलदिति । प्रचलत्सुरासुर किरीट किरणनिकुरम्बरञ्जिताः प्रचलतां सुरासुराणां सुरासुरदेवानां किरीटानां निकुरम्बेण निकरेण रञ्जिता उपरञ्जिताः । ककुभोऽपि दिशोऽपि । मण्डनम् अलंकरणम् । जगृहुरिव स्वोचक्रुरिव । अथवा तथाहि । जिनजन्म जिनस्यार्हतो जन्म जननम् । कस्य पुरुषस्य । वृद्धये समृद्धये । [ न ] न भवति । अर्थान्तरन्यासः° ॥७॥ अधुनेति । अधुना इदानीम् । अत्र जिनजन्मनि । इदम् एतत् । भुवनं जगत् । जिन एव जिनेश्वर एव । व्यक्ति व्यक्तीकरोति, प्रकाशयतीत्पर्थः । मया कि कृत्यं करणीयम् । इति त्रपयेव लज्जयेव । सुरविमानचयैः सुराणां देवानां विमानानां व्योमयानानां चयैः समूहैः । भानुः सूर्यः । तिरोहितः व्यवहितः ।
[ १७, ५ -
लगे - सिंहनाद होने लगा || ४ || भवनवासी देवोंके घरोंमें मेघोंकी भाँति गम्भीर शंख समूहकी ध्वनि सुनाई पड़ने लगी और व्यन्तर देवोंकी निवास भूमिमें बिना बजाये ही दुन्दुभि बाजे बजने लगे तथा सभी ओर उनकी प्रतिध्वनि गूंजने लगी ||५|| इन कारणोंसे एवं एक ही साथ अपने-अपने आसन के कम्पित होनेसे सभी देवोंको जिन भगवान्के जन्मका पता चल गया । फलतः उन्होंने अपने-अपने स्थानसे चन्द्रपुरीको, जहाँ जिन भगवान्का जन्म हुआ था, प्रस्थान कर दिया । जाते समय उन्होंने आकाशको सभी ओरसे व्याप्त कर दिया || ६ || क्या सुर और क्या असुर सभी बड़े वेग से आगे बढ़ रहे थे । उनके मुकुटोंकी किरणोंके समूह से सारी दिशाएं रंग विरंगी हो गयीं, अतः ऐसा जान पड़ता था मानो उन्होंने आभूषण पहन लिये हों । भला जिन भगवान्का जन्म किसकी वृद्धिके लिए नहीं होगा ? ||७|| 'इस समय जिनभगवान् ही सारे संसारको प्रकाशित कर रहे हैं, अब यहाँ मेरा क्या काम ? यह सोचकर मानो लज्जाके कारण
१. आ इ भवनेषु पटहाः । २. अ ध्वनिमुदः । ३. अ वृषाय । ४. आ इ भवन | ५. आ प्रणतीति । ६. = व्वनिं चक्रुः । ७. आ रुराव । ८. = लिट् । ९. श 'समृद्धये' इति नोपलभ्यते । १०. = उत्प्रेक्षा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org