________________
चन्द्रप्रभचरितम्
तीरेष्वेताः कुसुमितवानीराली रालीनालीरनिलर योद्धृतान्ताः । तान्ता धर्मैरविरतमूलापातीः पातीहायं प्रसृतनदी नीरौघः ||३५|| घातिनिर्मथन लब्धकेवला योगिनोऽत्र परिनिर्विवासवः । कुर्वते प्रतरपूरणादिभिः कर्मणां समबलत्वमायुषा ||३६|| शिखरमणिशिलानां शास्त्रिशास्त्रान्तरालैः प्रसृतरविकराणामुल्लसन्ोचिरोघः । तदनुकृतिकारी शङ्किताम्भोदकालान्मदयितुमलमस्मिन्नीलकण्ठानकाले ||३७||
३३६
वर्तन्ते' इति विवृणोति विवरणं करोति । वृञ् वरणे लट् । स्त्रियोऽत्र वर्तन्ते इति अनुमितिः || ३४ ॥ तीरेष्विति I इह गिरौ । आलीनाली आलीनाः पतिताः अलयो भ्रमरा यासां ताः । अनिलरयोद्भूतान्ता: अनिलस्य वायो रयेण वेगेन उद्भूतः अन्तो मध्यप्रदेशो यासां ताः । तान्ताः म्लानाः । तमू ग्लानी । एताः इमाः । अविरत मूलापातीः अविरतं निरन्तरं मूलं बुघ्नमापातीरागमनशीलाः । कुसुमितवानीरालीः कुसुमिताः पुष्पिता वानराणां वञ्जुलानामालीः संहती: । अयम् एषः । प्रसृतनदीनी रोघः प्रसृतः प्रस्यन्दितो नदीनामापगानां नीराणां जलानामोघः प्रवाहः । पाति रक्षति । पा रक्षणे लट् । यमकम् ||३५|| घातीति । अत्र गिरो । घातिनिर्मथन लब्धकेवलाः घातीनां घातिकर्मणां निर्मथनेन विनाशेन लब्धाः प्राप्ताः केवला नवकेवललब्धयो येषां ते । योगिनः मुनयः । परिनिर्विवासवः सकलकर्माणि विनाशयितुमिच्छवः । प्रतरपूरणादिभिः प्रतरपूरणे आदी येषां तैः प्रतरपूरणप्रमुखसमुद्घातैरित्यर्थः । आयुषा आयुः कर्मणा । कर्मणां नामाद्यघातिकर्मणाम् । समबलत्वं समानशक्तित्वम् । कुर्वते विदधति । लट् । स्वभावः || ३६ || शिखरेति । अस्मिन् गिरौ । शाखिशाखान्तरालैः शाखिनां तरूणां शाखानां शिखानामन्तरालैर्मध्यैः । प्रसृतरविकराणां प्रसृतः प्रस्यन्दितो रवेः सूर्यस्य करः किरणो येषां तेषाम् । शिखरमणिशिलानां शिखरे शृङ्गे विद्यमानानां मणिशिलानाम् । उल्लसन् भासमानः । रोचिरोघः रोचिषां किरणानामोघः समूहः । तडिदनुकृतिकारी तडितां विद्युतामनु [ कृति ] कारी सन् अनुकरणकारी सन् । अकाले असमये । शङ्किताम्भोदकालान् शङ्कित आशङ्कितोऽम्भोदस्य मेघस्य कालो
[ १४, ३५
श्वासवायुसे वे उनके छिपनेका सङ्केत पाकर उन्हें खोज लेते हैं ||३४|| राजन् ! जरा इधर भी देखिये, तटों पर यहां विकसित वेतके पेड़ खड़े हुए हैं। इनमें भौंरे छिपकर बैठे हुए हैं । इन्हें हवा हिला रही है । ये तेज धूपसे मुरझाये हुए हैं । ऐसी स्थिति में ये जड़ से उखड़ जाते, किन्तु फैला हुआ यह नदियोंका प्रवाह इन्हें बचाये रहता है - इनकी रक्षा किया करता है ||३५|| राजन् ! यहाँ पर निर्वाण के अभिलाषी मुनियोंने चार घातिया (ज्ञानावरण, दर्शनावरण, मोहनीय और अन्तराय ) कर्मों को नष्ट करके केवलज्ञान प्राप्त कर लिया है । अब ये प्रतर और पूरण आदि समुद्धातोंके द्वारा वेदनीय, नाम और गोत्र इन तीन अघातिया कर्मो को आयु कर्मको स्थितिके बराबर कर रहे हैं ||३६|| इन पर्वत के शिखरों पर मणिमय शिलाएं पाई जाती हैं । वृक्ष-शाखाओं के बीचसे सूर्य किरणोंके पड़नेपर उनसे बिजुलीकी भांति प्रतीत होनेवाली चमचमाती हुई ज्योति निकल पड़ती है, और वह असमय में ही मयूरोंको वर्षाकालका धोखा उत्पन्न करके उन्हें उन्माद उत्पन्न करनेके लिए खूब अच्छी तरह समर्थ हो जाती है ॥३७॥
१. = यासु । २. = कम्पितः । ३ = ऊर्ध्वप्रदेशः । ४ = यैः । ५ = प्रसारं गतः । ६. = यासु
तासामु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org