________________
चन्द्रप्रमचरितम्
[१४, १
[ १४. चतुर्दशः सर्गः]
ना
मणिप्रभाभिर्मणिकुटमद्रिं सदीपमुच्चैहषदं ददर्श। च्युतं दिवोऽन्योन्यविघट्टनेन तडित्त्वतां वारिमुचामिवौघम् ॥१॥ विचित्ररत्नः कटकैः स्वकीयैरिवाद्वितीयां वहतो विभूषाम् । निशाकरो यस्य निशासु शोभां करोति चूडामणिमात्रजन्याम् ।।२॥ पर्यन्तचर्यः कनकोज्ज्वलासु यन्मेखलासूच्चतरासु ताराः। परिस्फुरद्दीधितिभासुराणां कुर्वन्ति कृत्यं मणिकिङ्किणीनाम् ।।३।।
मणीति । मणिप्रभाभिः मणीनां रत्नानां प्रभाभिः । दीप्रं देदीप्यमानम । 'नम्कम्यजस्क-' इत्यादिना शोले र-प्रत्ययः । उच्चैषण्डम् उच्चैरुन्नतं द्रुषण्डं वृक्षकदम्बकं यस्य तम् । मणिकूटं मणिकूटनामधेयम् । अद्रि पर्वतम् । अन्योन्यविघट्टनेन अन्योन्यं परस्परं विघट्टनेन संमर्दनेन । दिवः आकाशात् । च्युतं पतितम् । तडित्त्वतां विद्युत्वताम् । 'स्तं मत्वर्थे' इति पदत्वाभावान्न जस्त्वम् । वारिमुचां मेघानाम् । ओघमिव समूहमिव । सः राजा। ददर्श पश्यतिस्म । लिट् ॥१॥ विचित्रेति । स्वकीयः स्वसंबन्धैः । विचित्ररत्नैः विचित्र
नाविध रत्नमणिभिर्युतः । कट कैरिव बलयरिव स्थितैः। वटकैः नितम्बैरित्यर्थः । अद्वितीयां सादृश्यरहिताम् । विभूषाम् अलंकारम् । वहता घरतः । यस्य पर्वतस्य । निशासु रात्रिषु । निशाकरः चन्द्रः । चूडामणिमात्रजन्यां चूडामणिमात्रेण शिरोरत्नमात्रेण जन्यामृत्पन्नाम् । शोभां करोति विदधाति । लट् । चन्द्रश्चूडामणिरिवाभाति, इत्यर्थः । उत्प्रेक्षा ॥२॥ पर्यन्तेति । कनकोज्ज्वलासु कनकेन सुवर्णधातुना उज्ज्वलासु प्रकाशमानासु । उच्चतरासु अत्युन्नतासु । यन्मेखलासु यस्य मेखलासु सानुषु काञ्चीधामसुं । पर्यन्तचर्यः पर्यन्ते समन्ततः ( चरन्तीति ) चर्य: संचर्यः । ताराः नक्षत्राणि । परिस्फुरद्दोधितिभासुराणां परिस्फुरन्त्या प्रज्वलन्त्या दीधित्या कान्त्या भासुराणां प्रकाशनशीलानाम् । “भंजभास-' इत्यादिना घुर–प्रत्ययः । मणि
इसके पश्चात् राजा पद्मनाभने आगे बढ़ते ही मणिकूट नामक पर्वतको देखा। उसके ऊपर खूब ऊँचे-ऊंचे प्रस्तरखण्ड-चट्टानें थे, और वह मणियोंको प्रभासे देदीप्यमान हो रहा था। अतएव वह ऐसा जान पड़ता था मानो आपसमें टकराकर आकाशसे गिरा हुआ, बिजली सहित मेघोंका समूह हो ॥१॥ वह नाना प्रकारके रत्नोंसे जड़े हुए कड़ोंके समान शोभाको धारण करनेवाले अपने विचित्र रत्नमय मध्यभागके प्रदेशोंसे अद्वितीय सुषमाको प्राप्त कर रहा था। जिस प्रकार कड़े मनुष्यको मण्डित करते हैं उसी प्रकार मध्यभाग उसकी शोभाको बढ़ा रहे थे। मध्यभाग ( कटक ) ही उसके कड़े थे । अब केवल चूडामणिकी कमी रह गयी थी, जिसे रात्रिके समय चन्द्रमाने पूरा कर दिया जो उसके सबसे उन्नत शिखरपर चूड़ामणि सरीखा जान पड़ता था ॥२॥ उस पर्वतकी, अत्यन्त उन्नत और स्वर्णमय होनेसे उज्ज्वल मेखलाओं-मध्यभागके प्रदेशों ( करधनी ) में चारों ओर घूमनेवाली ताराएँ चमाचमाती हुई किरणोंसे देदीप्यमान मणिजडित छोटी-छोटी घण्टियोंका काम कर रही थीं। उसके मध्यभाग ( मेखला ) करधनी सरीखे थे और उन्हींके आस-पास घूमनेवाली ताराएं छोटी घण्टियों सरोखी। उसके मध्यभाग
१. अ आ इ सदीप्र । २. द्रुषण्डं' टोकायां "दृषद' च मूलप्रतिषु वर्तते । ३. श 'संमर्दनेन' इति नास्ति । ४. = स्वसंबन्धिभिः, आत्मीयः-इत्यर्थः । ५. = छविम् । ६. श 'कनकेन स्वर्णधातुना' इति नास्ति । ७. आ उच्चतरा, श उज्ज्वलतारासु। ८. श°दामसु । ९. = संचारिण्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org