________________
२९२ चन्द्रप्रमचरितम्
[१२, ५० - बहुसाँवयुतो स्थिराशयावविश्लङ्घयौ यदि नाम तावुभौ । महदेव तथापि दृरतो नभर्तुश्च नदस्य चान्तरम् ।।५०।। प्रियवादपरेषु विश्वसोत्कुभटेष्वेषु वृथैव मा भवान् । परिवारितमप्यगैर्नगं क्षुभितः प्लायितुं क्षमोऽम्बुधिः ॥५१।। स्वयमेतदुदाहृतं मया प्रधने तत्प्रकटं' भविष्यति । स्फुटतामुपयाति कस्यचिद्रसभेदो नहि जिह्वया विना ॥५२।। अहितस्य हितोपदेशनैरथवा किं मम कुर्वभीप्सितम् ।
प्रतिकूलजने ह्यपेक्षणं हितशिक्षानुगतैकवृत्तिषु ।।५३।। करणे षष्ठो । संमतः अङ्गीकृतः । नाभवत् नाभूत् [ अभवत् अभूत् ] । भू सत्तायां लुङ ।।४९॥ बह्विति । बहुसत्त्वयुतो बहुना प्रचुरेण सत्त्वेन युतो युक्तो, अन्यत्र बहुप्राणियुतो । स्थिराशयो दृढबुद्धियुतो, पक्षे दृढह्रदौ । अविलङ्यो लचयितुमशक्यौ । तावुमो नाम नामानी (?) । नाम समानार्थेऽव्ययम् । यदि । तथापि तहिं । नदभर्तुश्च सागरस्य । नदस्य नद्याश्च । अन्तरं तारतम्यम् । दूरतः अत्यन्तम् । महदेव पृथुलमेव भवति ॥५०॥ प्रियेति । प्रियवादपरेषु प्रियेषु इच्छानुकूलेषु वादेषु वचनेषु परेषु तत्परेषु एषु एतेषु । कुभटेषु कुत्सितभृत्येषु । भगवान् त्वम् । वृथैव निष्फलमेव । मा विश्वसोत् विश्वासं मा कार्षीः । अनश्वस प्राणने
इ। अग: वृक्षः । परिवारितं परिवेष्टितम् । नगं पर्वतमपि। क्षुभितः संचलितः । अम्बुधिः समुद्रः । प्लावयितुं मज्जयितुम । क्षमः समर्थः, भवति । अर्थान्तरन्यासः ॥५१॥ स्वयमिति । मया, उदाह ( यत् ) एतत् इदम्, वचनम् । प्रधने संग्रामे । स्वयमेव, तत् वचनम् । प्रकटं व्यक्तम्, भविष्यति ।। रसनया। विना ऋते । रसभेदः रसानां षड्रसानां भेदोऽन्तरम् । कस्यचित् पुरुषस्य । स्फुटता व्यक्तताम् । नोपयाति हि न प्राप्नोति हि ( नहि उपयाति न प्राप्नोति)। जिह्वया रसभेदः प्रकटतामायाति तथा संग्रामे मद्वचनं प्रकट भविष्यति-इत्यर्थः । अर्थान्तरन्यासः ॥५२॥ अहितस्येति । अहितस्य शत्रो:-विपरीतवर्तनायुक्तपुरुषस्य-इत्यर्थः । हितोपदेशनैः हितस्य उपकारकस्य उपदेशनैर्वचनैः । मम मे। किं प्रयोजनम् । अभीप्सितम् अभीष्टम् । कुरु विधेहि । डुकृञ् करणे लोट् । अथवा तथा हि । प्रतिकूलजने अहितजने ।
यह सर्वसम्मत सिद्धान्त है कि बलवानके आगे झक जाना चाहिए ॥४९॥ यों बहत जलजन्तुओंसे युक्त होनेके नाते, स्थिर आधार युक्त होने के कारण और लांघने योग्य न होनेकी बजहसे समुद्र और नद ये दोनों भले ही एक सरीखे हों, फिर भी दोनोंमें महान् भेद होता है । इसी तरह पृथिवीपाल और पद्मनाभ ये दोनों ही बहुत बली हैं, स्थिरचित्त हैं और हैं अनाक्रमणीय, फिर भी दोनोंमें बहुत अधिक अन्तर है, जो मामूली नहीं कहा जा सकता-एक बड़ा है, दूसरा छोटा; एक स्वामो है, दूसरा सेवक और एक शरण देनेवाला है तो दूसरा शरणार्थी ॥५०॥ सुवर्णनाभ ! इस प्रकारको मीठी-मीठी बातें करनेवाले इन गेहेनर्दी सैनिकोंका व्यर्थ विश्वास न करो। सभी ओरसे वृक्षोंसे घिरे हुए भी पहाडको, क्षुब्ध समुद्र आप्लावित कर सकता है-डुबो सकता है ॥५१॥ मैंने जो यह कहा है, वह युद्ध में अपने-आप, आपको स्पष्ट हो जायेगा। जीभके बिना किसोको भी रसोंका अन्तर स्पष्टतया ज्ञात नहीं हो सकता ॥५२॥ अथवा जिसे अपने हितका स्वयं खयाल नहीं, उसे हितका उपदेश देनेसे मुझे क्या लाभ ? तुम्हारी जो इच्छा हो, करो। जो समझाया जाये उससे विपरीत काम करनेवालोंके प्रति उपेक्षा करना हो उचित है। हितकी
१. अ क ख ग घ त्वत्प्रकटं । २. क ख ग घ हितशिष्या। ३. = चाटुकारेषु । ४. श 'मज्जयितुम्' इति नास्ति । ५. श लेट् । ६. आ तथापि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org