________________
- ९, १३ ]
नवमः सर्गः
3
लघु जिगमिषुणेति काचिदूचे स्वत्रपुरलंकरणाकुला प्रियेण । प्रतिपदमवगच्छता तदीयं जघनमहाभरविघ्नितं प्रयातम् ॥ १० ॥ सकृदबुधतया कृतेऽपराधे भवति ततो विनिवृत्तिरेव दण्डः । तदहमपि न तं पुनर्विधास्ये सुतनुं तवेति स वल्लभो ब्रवीति ॥ ११ ॥ अपि च सुवदने नरो न दोषाद्विरमति शिक्षयते न यावदन्यः । स च कुसुमशरेण शिक्षितस्त्वद्विरहसखेन निनीषुणा विनाशम् ॥ १२ ॥ न च सखि सुसहस्त्वयापि तावत्प्रियविरहः क्षयहेतुरङ्गयष्टेः । कथयति हि तवष्टबिम्ब मुष्णश्वसितवि रूक्षितमान्तरङ्गमाधिम् ॥ १३ ॥ रागस्यारुणस्य बन्धः संबन्धः । निसर्गसिद्धः स्वभावसिद्धः । ननु खलु ||९|| लध्विति । स्ववपुरलंकरणाकुला त्ववपुषः स्वशरीरस्यालंकारणेऽलङ्कारे (मण्डने) आकुला सक्ता । काचित् एका स्त्री । प्रतिपदं पदं पदं प्रति चरणनिक्षेपणं चरणनिक्षेपणं प्रति । जघनमहाभर विनितं जघनस्य नितम्बस्य महाभरेण भारेण विघ्नित मन्तरितम् । तदीयं तस्या इदं तदीयम् । प्रयातं गमनम् । अवगच्छता जानता । लघु जिगमिषुणा लघु शी fatafat गन्तुमिच्छता । प्रियेण दयितेन । इति वक्ष्यमाण ( उक्त ) प्रकारेण । ऊचे उच्यते स्म । पञ्चभिः कुलकम् ||१०|| सकृदिति । सतनु भो मनोहराङ्गि । अबुधतया अज्ञानतया । सकृत् एकवारम् । अपराधे दोषे । कृते विहिते । ततः तस्मात् । विनिवृत्तिरेव निराकृतिरेव । दण्ड: अपराध: ( ? ) भवति । भू सत्तायां लट् । तस्मात्, अहमपि तम् अपराधम् । पुनः पश्चात् । न विधास्ये न करिष्ये । सः तव ते । वल्लभः प्राणनायकः । इति एवम् । ब्रवोति वदति ॥ ११ ॥ । अपीति । सुवदने सुभगमुखि । अपि च विशेषोऽस्ति ( अथ च ) । अन्यः, नरः पुरुषः । यावत् यत् ( यावत् ) पर्यन्तम् । न शिक्षयते शिक्षां न करोति । शिक्षि विद्योपादाने ण्यन्ताल्लट् । तावत् - इत्यध्याहारः । दोषात् अपराधात् । न विरमति नापसरति । 'न पयोङ् वे रमः' इति तङ् न भवति । विनाशं विनाशनम् । निनीषुणा नेतुमिच्छुना । त्वद्विरहसखेन १२ तव ते विरहस्य वियोगस्य सखेन ( ? ) सहायेन । कुसुमशरेण पुष्पबाणेन । स च पुरुषः । शिक्षितः ।। १२ । न चेति । सखि भो वयस्ये । अङ्गयष्टेः शरीरयष्टेः । क्षयहेतुः नाशकारणम् । प्रियविरहः प्रियस्य दयितस्य विरहो वियोग: ।
४
इच्छुक नायक ने इस तरह
स्वाभाविक लालिमा बनी हुयी है || ९ || शीघ्र ही जानेके लिए अपनी पत्नी से कहा, जो अपने शरीरका शृङ्गार करनेमें व्यग्र थी; क्यों कि वह पहले से ही उसके नितम्बके भारी भारसे गमनमें पग-पगपर आनेवाली बाधाको जो जानता था । ( छठे श्लोक से यहाँ तक सम्बन्ध है ) || १० || हे सुन्दर शरीरवाली ! तेरा पति यों कहता है कि भूलसे एकबार अपराध कर लेनेपर उससे निवृत्त होना ही दण्ड है । अत: मैं भी अब कभी उस अपराधको नहीं करूँगा, जो मुझसे भूलवश एक बार हो गया है ॥ ११ ॥ हे सुन्दर मुखवाली ! और एक बात यह भी तो है कि मनुष्य किसी अपराधसे तभी तक निवृत्त नहीं होता, जबतक कि उसे कोई शिक्षा नहीं दे देता-समझा नहीं देता । विरहावस्था में तुम्हारी मदद करनेवाले और अपराधीको विनाशकी ओर ले जानेकी इच्छा रखनेवाले कामदेवने उसे ( तेरे पति को ) खूब शिक्षा दे दी है ॥ १२ ॥ हे सखि ! प्रियका विरह शरीर के विनाशका कारण है, अतः तेरे लिए भी वह ( प्रिय विरह ) आसानी से सहने योग्य
२८
Jain Education International
२१७
१. अ जनमना भविनितं । २. आ इ सुतनो । ३. अ आ इ "तमङ्गरङ्गमाधिम् । ४. = रागस्य आरुण्यस्य । ५ = गन्तुमिच्छुजिगमिषुः तेन । ६. आ इ 'कुलकम्' इति नास्ति । ७. दमनोपायः । ८. श असीति । ९. आ शिक्षा । १०. आ लुट् श लुट् । ११. आ नाशनम् । १२. तव विरहो वियोग: स एव सखा मित्रं यस्य तेन ।
For Private & Personal Use Only
www.jainelibrary.org