________________
- ६, २९ ]
षष्ठः सर्गः अथ भूपतिसू नुना कराभ्यां स समुत्फाल्य नभस्तले विमुक्तः। कृतषोडशभूषणाभिभूषं वपुरादर्शयति स्म दिव्यरूपम् ॥ २६ ॥ इति चाभिदधे हिरण्य नामा परमर्द्धिस्त्रिदशोऽस्मि नाकलोके। अभिवन्द्य जिनालयान्सुराद्रौ सुभग क्रीडितुमागतोऽत्र शैले ॥ २७ ॥ कृतकप्रधनेन रूपमन्यत्समुपादाय मया परीक्षितोऽसि । अमना तव साहसेन चेतः परतन्त्रीकतमेतदस्मदीयम ||२८॥ विभृतोऽसि ययाम्बुजाक्ष कुक्षौ जननी धन्यतमा तवैव सैका ।
कृतिनः ससुरासुरेऽपि लोके चरितं यस्य चमत्कृतिं विधत्ते ॥ २६ ॥ कुमारस्य जयः, पुनरेकवारं देवस्य जयः--इति क्रमः। युद्धं संग्रामः । चिरं' दीर्घम् । बभूव भवति स्म । भू सत्तायां लिट् ॥२५॥ अथेति । अथ युद्धानन्तरम् । भूपतिसूमुना कुमारेण । कराभ्यां हस्ताभ्याम् । समुत्फाल्य उद्धृत्य । नभस्थले [ नभस्तले ] नभस आकाशस्य तले प्रदेशे। विमुक्तः विमुच्यते स्म विमुक्तो निसृष्टः । सः देवः । कृतषोडशभूषणाभिभूषं कृता षोडशभूषणैरभिभूषा अलङ्कारो यस्य तत् । दिव्यरूपं दिव्यं रूपं यस्य तत् । वपुः शरीरम् । आदर्शयति स्म आलक्षयति स्म । दृशु प्रेक्षणे णि जन्ताल्लट् ।।२६।। इतीति । सुभग भो मनोहराङ्ग । नाकलोके सुरलोके । हिरण्यनामा हिरण्य इति नाम यस्य सः । परमद्धिः परमा उत्कृष्टा ऋद्धिः ऐश्वर्य यस्य सः । त्रिदशः देवः । अस्मि भवामि । अस भुवि लट् । सुराद्री मेरौ । जिनालयान् चैत्यालयान् । अभिवन्द्य वन्दित्वा । अत्र अस्मिन् । शैले पर्वते । क्रीडितुं क्रीडानिमित्तम् । आगतः । इति एवं प्रकारेण । अभिदधे ऊचे। डवाज धारणे च लिट ॥२७॥ कृत केति । मया, अन्यत भिन्नम । रूपं वेषम् । समुपादाय अङ्गीकृत्य। कृतकप्रधनेन कृतकेन पटरूपेण प्रधनेन यद्धेन । परीक्षितः विचारितः । असि भवसि। तत्र भवतः । अमना एतेन । साहसेन सामर्थेन । अस्मदीयम् अस्मत्संबन्धम् । चेतः चित्तम् । परतन्त्रोकृतं पराधीनं कृतम् ॥२८॥ वित' इति । अम्बुजाक्ष अम्बुजमिवाक्षिणी यस्य तस्य संबोधनम्भो अम्बुजाक्ष । कृतिनः पुण्यवतः । यस्य पुरुषस्य। चरितं प्रवर्तनम् ( वृत्तं वा )। ससुरासुरेऽपि सुरैश्चासुरैश्च सह वर्तते इति ससुरासुरः, तस्मिन् अपि । लोके भुवने । चमत्कृतिम् आश्चर्यम् । विधत्ते करोति । स त्वम् इत्यध्याहारः। यया कुक्षौ गर्ने । विधृतः विध्रियते स्म। असि भवसि । तवैव भवत एव । सैका अनेक प्रकारके पेचोंके प्रयोगसे वे दोनों एक दूसरेके ऊपर कभी हाथोंसे और कभी पैरोंसे प्रहार कर रहे थे । बराबरीका जोड़ होनेसे कभी एक की, तो कभी दूसरेकी विजय हो रही थी। इस तरह उन दोनोंमें बहुत देर तक शारीरिक युद्ध ( कुश्ती) होता रहा ॥ २५ ॥ इसके पश्चात् राजकुमारने उसे अपने दोनों हाथोंसे उठाकर ऊपर उछाल दिया। तब उसने अपने शरीरको सोलह आभूषणोंसे विभूषित करके उसे अपना असली दिव्यरूप दिखला दिया ।। २६ ॥
और उसने राजकुमारसे कहा-हे सुभग ! मैं उत्तम ऋद्धिओंका धारण करनेवाला देव हूँ। मैं स्वर्गमें रहता हूँ। मेरा नाम हिरण्य है । मैं वहाँसे चैत्यालयोंकी वन्दना करनेके लिए सुमेरुपर्वतपर गया था। फिर वहाँसे क्रीड़ा करनेके लिए यहाँ चला आया ॥ २७ ॥ मैंने अपना रूप बदलकर बनावटी युद्धसे तुम्हारी परीक्षा ली है । तुम्हारे इस साहससे मेरा मन तुम्हारे अधीन हो गया है-मैं हृदयसे तुम्हारा हो चुका हूँ ॥ २८ ॥ हे कमललोचन ! जिस पुण्यात्माका चरित आज सुरलोक और असुर लोकमें चमत्कार उत्पन्न कर रहा है, उसे ( अर्थात् तुमको) जिस माताने अपने गर्भ में धारण किया है, केवल वही ( तुम्हारी माता ) सबसे अधिक
१. = चिरकालं यावत् । २. = समायातः। ३. एष टीकाकृदभिमतः पाठः, प्रतिषु 'विभृतः' इत्येव दृश्यते । ४. अयमपि पाठस्तथैव ज्ञेयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org