________________
चन्द्रप्रभचरितम्
हृदयामिमतं वरं वृणीष्वेत्यभिधातुं त्रपया न मेऽस्ति शक्तिः । नहि पुण्यवतां भवद्विधानां परनिष्ठं भुवने समस्ति किंचित् ।। ३०॥ तदपि क्वचन प्रयत्नसाध्ये विषयेऽहं मनसि त्वया निधेयः । न सहायविनाकृता कदाचित्पुरुषस्योद्यमशालिनोऽपि सिद्धिः ॥ ३१ ॥ अपरं च निवेदयाम्यहं ते शृणु जन्मान्तरवृत्तमेकचित्तः । अभवस्त्वमितो भवे तृतीये नृपतिः श्रीपुरभुक्सुगन्धिदेशे ।। ३२ ।। गृहिणौ शशिसूर्यनामधेयावथ तत्रैव कृषीवलावभूताम् ।
अपरेधुरुपेत्य दत्तखातः सकलं सूर्यधनं शशी जहार ।। ३३ ।। मुख्या। जननी माता। धन्यतमा पुण्यवतो भवति ॥२९॥ हृदयेति । हृदयाभिमतं हृदयेन चित्तेनाभिमतं वाञ्छितम् । वरम् अभीष्टम् । वृणीष्वेति प्रार्थय इति । अभिघातुं वक्तुम् । त्रपया लज्जया। मे मम । शक्तिः सामथ्यम् । नास्ति न भवति । [हि यतः]। पुण्यवतां कुशलवताम् । भवद्विधानां युष्मादृशाम् । भुवने लोके । किंचित् यत्किचित् वस्तु । परनिष्ठं पराधीनम्, असाध्यमित्यर्थः । न समस्ति । हि नास्ति हि (न समस्ति नास्ति ) ॥३०॥ तदिति। तदपि तदापि । क्वचन क्वचित् । प्रयत्नसाध्ये प्रयत्नेनोद्योगैन साध्ये साधनीये। विषये वस्तुनि । अहं, मनसि चित्ते । त्वया भवता । निधेयः स्मरणीयः । उद्यमशालिनोऽपि प्रयत्नशालिनोऽपि । पुरुषस्य जनस्य । कदाचित् कस्मिश्चित् । सहायविनाकृता सहायेन विनाकृता रहिता'। सिद्धिः कार्यसिद्धिः । न न भवति ॥३१॥ अपरमिति । अहं, जन्मान्तरवृत्तं प्रकृत. जन्मनोऽन्यज्जन्म जन्मान्तरं तस्य वृत्तं वृत्तान्तम् । अपरम् अन्यत् । ते तव । निवेदयामि बोवयामि । विद ज्ञाने लट् । एकचित्तः एक निश्चिलं चित्तं मनो यस्य सः, सन्, शृणु। त्वं भवान् । इतः एतस्माद्भवात् । तृतीये त्रयोऽवयवा यस्य तस्मिन् । भवे जन्मनि। सुगन्धिदेशे सुगन्धिरिति देशे विषये। श्रीपुर भुक् श्रीपुरपालकः । नृपतिः राजा। अभवः अजायथाः ॥३२॥ गृहिणाविति । अथ अनन्तरम् । तत्रैव तस्मिन्नेव पुरे। शशिसूर्यनामधेयो शशिसूर्याभिधानौ। कृषीबलो कृषिकर्मजीविनी । गृहिणी गृहस्थी । अभूताम् अजायताम् । भू सत्तायां लुङ । शशी तयोर्मध्ये शशी। अपरेयुः अन्यस्मिन् दिने । 'पूर्वापर-' इत्यादिना एद्युस-प्रत्ययः । उपेत्य आगत्य । दत्तखातः दत्तः खातो येन सः, विहितसुरङ्ग इत्यर्थः । सकलं सर्वम् । सूर्यधनं सूर्यास्यस्य
पुण्यात्मा है। सबकी माँसे तुम्हारी ही मां अधिक धन्य है ॥ २६ ॥ लज्जावश मुझे यह कहनेका साहस नहीं हो रहा है, कि तुम मुझसे इच्छित वर मांग लो; क्योंकि सच तो यह है कि इस संसारमें ऐसी कोई वस्तु ही नहीं है, जिसे पानेके लिए आप जैसे पुण्यात्माओंको दूसरोंका आसरा लेना पड़े-उनका मुंह देखना पड़े ॥ ३० ॥ तो भी इतना अवश्य कहना चाहता हूं कि किसी प्रयत्नसाध्य-कठिन कामके आ पड़नेपर मेरा स्मरण करना; क्योंकि सहायकके बिना उद्योगी पुरुषको भी कार्य सिद्धि कभी नहीं होती ।। ३१ ॥ एक बात और निवेदन करता हूँ- मैं तुम्हारे पिछले जन्मका वृत्तान्त सुनाता हूँ। तुम उसे सावधान होकर सुनो--पिछले तीसरे जन्ममें तुम सुगन्धि नामक देशमें श्रीपुर नामके नगरके राजा हुए थे ॥ ३२ ॥ तुम्हारे शासनकाल में वहीं पर ( श्रीपुरमें ) दो गृहस्थ रहते थे। दोनों किसान थे। उनमेंसे एकका नाम शशी था और दूसरेका सूर्य । एक दिनकी बात है । शशी सूर्यके घर गया और सेंध लगा
१. आ तदित्यादि । २. आ श स 'निधेयः' शेषासु च प्रतिषु 'विधेयः' इति पाठः समस्ति । ३. आ विहिता । ४. आ अजायेताम् । Jain Education International For Private & Personal Use Only
www.jainelibrary.org