________________
- ८, ५१ ]
अष्टमः सर्गः
शीतला इति विभाव्य जनेन पातिताः ससलिलव्यजनेन । को न जातविरहोतनुतापः काथिताम्बुसदृशोऽतनुतापः ॥४९॥ वीक्ष्य जातरुडिवासमहानि पद्मषण्डमविकासमहानि । तिग्मगुर्विहितवानहिमानि भास्वतां न हृदयं नहि मानि ॥ ५० ॥ इत्थं मधौ मधुकरोमुखरीकृताशे व्याजृम्भिते मकरकेतु निसर्गबन्धौ । भूयः प्रविश्य मुदितः सहसा निशान्तं विस्रब्धमित्यभिदधेऽङ्कगतां स देवीम् ॥ ५१ ॥
नलिन्याः । रागकारि प्रीतिकारि । मधु पुष्परसम् । संनिषेश्य निपीय । सततम् अनवरतम् । यानि ध्वनितानि यान् ध्वनीन् । चक्रुः विदधुः । तानि ध्वनितानि । निशम्य श्रुत्वा । अध्वनि मार्गे । के पुरुषाः । ययुः जग्मुः । न केsपि इत्यर्थः । या प्रापणे लिट् ॥ ४८ ॥ शीतला इति । ससलिलव्यजनेन संसलिलेन जलसहितेन' व्यजनेन तालवृन्तेन । जनेन परिवारजनेन । शीतला इति शोतगुणयुक्ता इति । विभाव्य निश्चित्य । पातिताः सिक्ताः । आप: ( अप: ) सलिलानि । जातविरह्ः जातः समुत्पन्नो विरहो वियोगो यस्य सः । अतनुतापः अतनुर्बहलः तापो यस्य सः, कामसंतापयुक्तो वा । कः को वा पुरुषः । क्वाथिताम्बुसदृशः क्वाथितस्य संतप्तस्य (संतापं प्रापितस्य ) जलस्य सदृशः समानाः । न अतनुत न करोति स्म । तनून् विस्तारे लङ् ||४९ || वीक्ष्येति । तिग्मतुः तिग्मा: तीक्ष्णा गावः किरणा यस्य सः, सूर्यः । अविकास विकासरहितम् । असमहानि असमा असदृशा हानिर्नाशो यस्य तत् प्रागृतुगुणयुतम् — इति यावत् । पद्मषण्डं पद्मानां कमलानां षण्ड समूहम् । वीक्ष्य दृष्ट्वा । जातरुडिव जाता उत्पन्ना रुट् कोपो यस्य स इव । ' रुट्कुधी स्त्रियौ' ३ इत्यमरः । अहानि दिवसानि । अहिमानि उष्ण ( ता ) सहितानि । विहितवान् कृतवान् । तथा हि- भास्वतां भासः सत्येषां ते भास्वन्तः, तेषां तेजस्विनाम् । हृदयं चित्तम् । मानि नहि अभिमानयुक्तं न भवतीति नहि, अपि तु मानमुक्तमेत्र ॥ ५० ॥ इत्थमिति । मधुकरीमुखरीकृताशे मधुकरीभिर्भुङ्गवधूभिर्मुखरीकृता वाचालिता आशा दिशो यस्मिन् तस्मिन् । मकरकेतु निसर्गबन्धौ मकरकेतोर्मन्मथस्य निसर्गेण सहजेन बन्धो मित्रे । मधौ वसन्ते । इत्थम् उक्तप्रकारेण । व्याजृम्भिते सति व्यावृद्धे सति । मुदितः संतुष्टः । स भूप: अजितसेनचक्रवत्र्त्ती । सहसा स्वेच्छया । निशान्तम् अन्तःपुरम् । प्रविश्य प्रवेशनं कृत्वा । अङ्कगताम् उत्सङ्गगताम् । देवीं शशिप्रभादेवीम् । विश्रब्धं विश्वस्तं यथा तथा । इति वक्ष्यमाणप्रकारेण । अभिदधे ऊचे ।
२०९
धीर-वीर थे, जो उस मार्ग में आगे समझकर जिस जलके छींटे देकर जल एक-एक बिन्दुके रूपमें जब किस तीव्र सन्तापवाले विरहीने
पीकर जो झंकार की ध्वनि की, उसे सुनकर ऐसे कौनसे कदम बढ़ा सके हों ? ॥ ४८ ॥ परिवार के लोगोंने शीतल ताड़के पंखोंको विरहियों के ऊपर झलना शुरू किया, वही उनके सन्तप्त शरीरपर गिरा, तब उसे उन विरहियों में से खौलाये गये जलके समान नहीं कर दिया ? ॥ ४६ ॥ शिशिर ऋतु में कमलोंका विकास रुक गया था, और उनकी इतनी हानि हुई थी, जितनी हानि कभी किसी की नहीं हुई होगी, मानो इसी विचारसे क्रुद्ध होकर सूर्यने हिमको दूर कर दिया, और दिनोंमें उष्णता भर दी । तेजस्वियोंका मन मानयुक्त नहीं होता, यह बात नहीं ॥ ५० ॥ जिसने भौंरियोंके शब्दसे सभी दिशाओंको मुखरित कर दिया है और कामदेव जिसका स्वभावतः मित्र है, उस वसन्त ऋतुके पूर्ण विकासको प्राप्त कर लेनेपर अजितसेन बड़ा प्रसन्न हुआ। वह सहसा अन्तःपुर में प्रविष्ट होकर अपने पास आकर बैठी हुई रानी शशिप्रभासे शान्तिपूर्वक यों बोला – ॥ ५१ ॥
१. आ जलरहितेन श जलसहिते । २. = 'पद्मादिवृन्दे षण्डोऽस्त्री' इति विश्वलो० । ३. आश स्त्रियाम् । ४. श प्रती 'दिशो' इति नोपलभ्यते । ५. आ प्रवृद्धे ।
२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org