________________
९८
चन्द्रप्रमचरितम्
तं यौवराज्ये परिणीतभार्य नियोज्य धुर्यं वशिनां तनूजम् । स राज्यसौख्यं विगतान्तरायं निश्चिन्तचित्तोऽनुबभूव भूपः ॥ १६ ॥ भोगैः स वाञ्छाकृतसंनिधानैर्मनोहरै मोहितचित्तवृत्तिः । कालं न गच्छन्तमपि प्रजज्ञे प्रज्ञां हि मोह: शिथिलीकरोति ||१७|| स्थितोऽथ ह स नृपः कदाचिदुल्कां विलोक्याम्बरतः पतन्तीम् । विरक्तबुद्धिविषयेषु चिन्तामगादिति प्रोद्गतकाललब्धिः || १८ || समस्तमेवंविधमेव पुंसामशाश्वतं 'जीवितयौवनादि । तथापि जानाति न मन्दबुद्धिरस्मादृशः पुत्रकलत्रमूढः ||१९||
२
3
प्रभावतः सामर्थ्यात् । प्रभावतीति प्रभा देहकान्तिरस्यास्तीति प्रभावती, इति । प्रथिताभिधानां प्रथितं प्रसिद्धमभिधानं यस्याः ताम् । सुन्दराङ्गीं सुन्दरमङ्गं यस्याः सा ताम् । 'असहनम् -' इत्यादिना ङी । राजकन्यां राजपुत्रीम् । पितुः जनकस्य । निदेशात् आज्ञायाः । विधिना विधानेन । उपयेमे परिणीतवान् । यम उपरमे लिट् ।।१५।। तमिति । सः भूपः श्रीषेणभूपतिः । परिणीतभायं परिणीता भार्या जाया यस्य तम् । धुर्यं मुख्यम् । वशिनं जितेन्द्रियं जितात्मानं वा । तं तनूजं कुमारम् । यौवराज्ये युवराजपदव्याम् । नियोज्य संस्थाप्य । निश्चिन्तचित्तः चिन्ताया निर्गतं निश्चिन्तं चित्तं यस्य सः । विगतान्तरायं विगतोऽन्तरायो यस्मिन् तत् । राज्यसौख्यं राज्यसुखम् । अनुबभूव अनुभवति स्म । भूसत्तायां लिट् ॥ १६ ॥ भोगैरिति । वाञ्छ'कृतसन्निधानं वाञ्छया कृतं सन्निधानं समीपं येषां तैः । मनोहरैः मनोहररूपैः । भोगैः विषयानुभवैः । मोहितचित्तवृत्तिः मोहिता आसक्ता चित्तस्य वृत्तिर्यस्य सः । सः कुमारः । गच्छन्तमपि यान्तमपि । कालं समयम् । न प्रजज्ञे न जानाति स्म । मोहः मोहनीयकर्म । [ हि निश्चयेन ] । प्रज्ञां सम्यग्ज्ञानम् । शिथिलीकरोति अपहरति । डुकृञ् करणे लिट् । हि । अर्थान्तरन्यासः ॥ १७ ॥ ॥ स्थित इति । अथ अनन्तरम् । कदाचित् अन्यदा । हर्म्ये सौधे । स्थितः उपविष्टः । सः नृपः श्रोषेणनरपति: । अम्बरतः आकाशात् । पतन्तीं निपतन्तीम् । उल्काम् उल्कातनम् । विलोक्य दृष्ट्वा । विषयेषु पञ्चेन्द्रियविषयेषु । विरक्त बुद्धिः अनासक्तबुद्धिः । प्रोद्गतकाललब्धि: प्रोद्गता काललब्धिर्यस्य सः । इति वक्ष्यमाणप्रकारेण | चिन्तां स्मृतिम् । ( स्मृतिसमन्वाहारम् ) । अगात् अयात् । इण गती लुङ् ।। १८ ।। समस्तेति । पुंसां पुरुषाणाम् । अशाश्वतम् अस्थिरम् । जोवितयौवनादि जीवितं यौवनमादिर्यस्य तत् समस्तं सकलम् । एवंविधम् एतदुल्का
११
સ્
3
४
।
Jain Education International
[ ४, १६ -
गया था || १५ || विवाह के बाद
प्रभाके प्रभाव से उसका 'प्रभावती' नाम सभी ओर प्रसिद्ध हो राजा श्रीषेण (पिता) ने अपने उस, जितेन्द्रियों में श्रेष्ठ पुत्र ( श्रीवर्मा ) को युवराज बना दिया, और स्वयं निश्चिन्त होकर विघ्न-बाधाओंसे रहित राज्यसुखको भोगने लगा ॥ १ ॥ उसे भोग सामग्र. की कमी नहीं थी, इच्छा होते ही मनोहर भोग्य पदार्थ उसकी सेवामें उपस्थित कर दिये जाते थे । उनमें उसका मन इतना आसक्त हो गया कि उसे यह भी पता नहीं रहा कि समय बीत रहा है । सच है मोह मानवको मतिको शिथिल कर देता है ||१७|| इसके पश्चात् एक दिनकी बात है । वह अपने राजमहल में बैठा था । इतने में उसने आकाशसे गिरती हुई उल्का देखी । देखते ही उसे विषयोंसे विरक्ति हो गयी । उसकी काललब्धि जो आ गयी थी । फलतः वह यों सोचने लगा - || १८ || मानव मात्रका जीवन और यौवन आदि सभी वस्तुएँ इसी उल्काकी तरह क्षणभङ्गुर हैं । फिर भी बाल-बच्चोंके मोह में फँसे हुए मुझ जैसे १. अ जीवन । २. = नाम । ३. भा गोता मितामिता भार्या । ४. = येन । ५. = सामीप्यम् । ६. = यैः । ७. श स चित्तवृत्ति । ८. आ यातं । ९. = शिथिलयति । १० = अशनिकम् । ११. आ आयात् । १२. आ गम्लृ । १३. अ जीवनयों । १४. जीवितं जीवनं यौवनं तारुण्यं चादि यस्य तत् ।
For Private & Personal Use Only
www.jainelibrary.org