________________
[५, .
पञ्चमः सर्गः अथ धातकीत्युपपदेन युतामभिभूष्य' याम्यदिशि खण्डभुवम् । प्रविभासमानवपुरस्ति गुरुः सुरसेव्यसानुरिषुकारगिरिः ॥१॥ अपि तस्य पूर्वभरते भरतप्रमुखक्षितीश्वरकृतावतरे।। 'कविवेधसां स्तुतिपथाविषयो विषयोऽलकेति दधदस्त्यभिधाम् ॥२॥.... कमलानना मधुकरीनयना नवनालदण्डतनुबाहुलताः। हृदयंगमा वहति यः परितस्तरुणीरिव स्थलसरोरुहिणीः ॥३॥
स सर्वदैकान्तमतं विदूष्य स्याद्वादविद्यां प्रकटीप्रकुर्वन् । मिथ्यान्धकारं प्रहतं प्रवाण्या श्रीवासुपूज्यो जयतां सुमान्यः ।।
अथेति । अथ देवस्योत्पत्त्यनन्तरम् । घातकोत्युपपदेन घातकीति समोपपदेन । युतां युक्ताम् । खण्डभुवं खण्डस्य भूमिम् । अभिभूष्य अलंकृत्य । याम्यदिशि याम्यायां दिशि दक्षिणायां दिशोत्यर्थः। प्रविभासमानवपुः प्रविभासमानं शोभमानं वपुः स्वरूपं यस्य सः । गुरुमहान् । सुरसेव्यसानुः सुरैदेवैः सेव्या आश्रयणीयाः सानो यस्य सः । इषुकारगिरिः इष्वाकारपर्वतः । अस्ति वर्तते ॥१॥ अपीति । अपि पुनः । भरतप्रमुखक्षितीश्वरकृतावतरे भरतप्रमुखै र्भरतादिभिः क्षितीश्वरै भूमिपालैः कृतो विहितोऽवतारो यस्मिन् सः, तस्मिन् । तस्य धातकोखण्डस्य । पूर्वभरते पूर्वस्मिन् भरते भरतक्षेत्रे । कविवेधसां कविमुख्यानाम् । स्तुतिकथाविषयः स्तुतेः स्तुतिरूपायाः कथाया वाण्या अविषयोऽगोचरः। अलकेति ( अरका, इति )। अभिधाम् अभिधानम् । दधत वहनऊ। विषयः देशः । अस्ति वर्तते । अतिशयः ॥२।। कमलेति । कमलाननाः कमलान्येव मुखं यासां ताः । रूपकम् । कमलानीव मुखं यासां ताः । उपमा । मधुकरीनयनाः मधुकर्येव नयने यासां ताः । रूपकम् । अथवा मधुकर्य इव नयने यासां ताः । उपमा। नवनालदण्डतनुबाहुलता: नवाना नूत दण्डा यष्टयः त एवं तन्वी कृशा बाहुलता यासां ताः । अथवा नवानां नालनां दण्डा इव तन्वी कृशा बाहुलता यासां ताः । उपमा। हृदयङ्गमाः मनोहराः । तरुणोरिव युवतीरिव । स्थलसरोहिणीः स्थले वर्तमानः सरो
श्रीवर्माके स्वर्गवासके पश्चात् उससे सम्बन्ध रखनेवाली कहानी शुरू होती है। दूसरे द्वीपका नाम धातकीखण्ड है। उसको दक्षिण दिशामें एक पहाड़ है, जो बाणके आकारका होनेसे 'इष्वाकार' या 'इषुकार' नामसे विख्यात है। उससे धातकीखण्डकी शोभा है । वह सभी ओरसे सुन्दर है। वह अन्य पहाड़ोंसे बड़ा है। इसीलिए उसके शिखरोपर देव लोग विचरण करते हैं ॥१॥ उसके पूर्व-भरतमें जहाँ भरत आदि राजे-महराजे जन्म ले चुके हैं, एक 'अलका' नामका देश है। उसका वर्णन बड़े-बड़े कवि भी नहीं कर सके - वह अत्यन्त सुन्दर है ॥२।। उस देश में सभी ओरसे स्थल कमलिनी लगी हुई हैं, जो नवयुवतियोंके समान हैं। नव युवतियों के मुख कमल सरीखे, नेत्र भंवरी जैसे और बाहु मृणाल जैसे होते हैं। स्थलकमलिनियों में कमल लगे हुए हैं, जो उनके मुख हैं; उनके ऊपर भंवरियाँ बैठी हैं, जो उनके नेत्र हैं और उनके मृणाल बिलकुल नवीन हैं, जो उनकी भुजाएं हैं। दोनोंकी सुषमा बिलकुल
१. आ इ "भिभूत्य । २. अरिगिरिः । ३. अ कविवेशास्तुति म वेधसां स्तुति । ४. आ प्रती पद्यमिदं नास्ति । ५. आ श स षण्डभुवं षण्डस्य । ६. श्रा प्रतौ स्वस्तिकान्तर्गतः पाठो नावलोक्यते । ७. श स षण्डस्य । ८. = नवा नूतना नालदण्डा मृणालयष्टयः। ९. श स इव ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org