________________
११८
चन्द्रप्रमचरितम्
[५,८
सिकतास्थलोज्ज्वलवृहजघना भ्रमनाभिकारुचिरमध्यभुवः। सुपयोधरा वहति योऽङ्कगता निजवल्लभा इव महासरितः ।।८।। न नवं वयो व्यसनवर्गहतं न जरा मतिस्मृतिविमोहहता। न हता गुणा मलिनदोषगणेन च यत्र मृत्युरपमृत्युहतः ।।६।। निरवन हैनवनवैः परितः परिपूर्णया विविधसस्यचयः । प्रतनोति योऽखिलजनस्य भुवा नयनोत्सवं सुरकुरूपमया ॥१०॥
व्याकुलत्वम् । न व्रजति न गच्छति । व्रज गतो लद ॥७॥ सिकनेति । सिकतास्थलोज्ज्वल बहज्जघनाः सिकतानां स्थलानि प्रदेशास्तान्येवोज्ज्वले मनोहरे बहती जघने यासां ताः, पक्षे सिकतास्थलमिवोज्ज्वले बहती जबने यासां ताः । उपमा । भ्रमनाभिका: भ्रमा आवस्ति एव नाभि र्यासां ताः। रूपकम् । पक्षे भ्रमा इव नाभि र्यासां ताः । रुचिरमध्यभुवः रुचिरा मनोहरा मध्यस्य भूः प्रदेशो यासां ताः । सुपयोधराः सु शोभनं पयो जलं धरन्तीति सुपयोधराः, पक्षे सु शोभनो पयोधरौ यासां ताः । अङ्कगताः अङ्कमप्रभागं गताः, पक्षेऽङ्क. मूरुप्रदेशं गताः । निजवल्लभा इव निजस्य स्वस्य वल्लभा वनिताः [ ता] इव । महासरितः महातरङ्गिणीः । यः देशः । वहति धरति । वह प्रापणे लट । श्लेषोपमा ।। ८ ।। नेति । यत्र देशे। नवं नतनम । वयः यौवनादि । व्यसनवर्गहतं व्यसनानां द्यतादीनां वर्गेण समूहेन हतं बाधितम् । न भवति । जरा वार्धक्यम् । मतिस्मतिविमोहहता मते रागामिगोचरायाः स्मृतेरतोतविषयरूपायाः विमोहेन वैरीत्येन हता। न भवति । गुगाः । मलिनदोषगणे: मलिनै मलोमसै र्दोषाणां गणै निवहैः । हता बाधिताः । न भवन्ति । मृत्युः मरणम् । अपमृत्युहतः अपमृत्युना कदलीघातादिना हतो बाधितः । न भवति । परिसंख्या ।।९।। निरति । यः देशः निरवग्रह: अवग्रहानिर्गत निरवग्रहेर प्रतिवातै रित्यर्थः२ । नवनवैः नूतनैनूतनैः । वोप्सायां द्विः । विविधसस्यचयः विविधानां नानाप्रकाराणां सस्यानां चयः । परितः समन्तात् । परिपूर्णया संपूर्णया । सुरकुरूपमया सुरकुरोर्दैव. कुरोरुपमया समानया । भुवा भूम्या । अखिल जनस्य सकल जनस्य । नयनोत्सवं नेत्रसंतोषम् । प्रतनोति
ऋतु ( मौसम ) में व्याकुल नहीं होते ॥७॥ उस देशके बीचों-बीच जो नदियाँ बहती हैं, वे उसकी गोदमें बैठी हुई पत्नीके समान जान पड़ती हैं। पत्नीका जघन-भाग, रेतोले स्थल-टापूके समान उज्ज्वल और विशाल होता है; भंवर सरीखो नाभिसे उसका मध्यभाग विभूषित होता है और उसके सुन्दर स्तन होते हैं। इसी तरह वे नदियाँ रेतीले स्थल रूपी उज्ज्वल विशाल जघनोंसे विभूषित हैं, उनके मध्यभाग भंवररूपी नाभिसे अलंकृत हैं और उनका जल मधुर है ॥८॥ वहाँके निवासियोंका नव यौवन जुआ आदि बुरी आदतोंमें फंसकर बरबाद नहीं होता; बुढ़ापे में भी उनकी बुद्धि और स्मृति ठोक बनी रहती है - वे सठया नहीं जाते; उनके निर्मल गुण, दोषोंसे मलिन नहीं होते । फलतः उनको मृत्यु आयु समाप्त होनेपर ही होती है। विष आदिके द्वारा किसीको अपमृत्यु ( अकाल मरण ) नहीं होतो ॥९॥ उस देशको भूमि सभी ओरसे नये-नये नाना प्रकारके अनाजसे परिपूर्ण रहनेसे देवकुरु (उत्तम भोगभूमि) सरीखी है। अनाजको उपज, कभी सूखा (अवर्षण) आदिसे नष्ट नहीं होती। इसीलिए वह देश सभीके
१. आ श स लिट् । २. = वृष्टिप्रतिबन्धरहितैरिति यावत् । ३. = सुरकुरोर्देवकुरोरुपमा साम्यं यस्याः सा, तया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org