________________
चन्द्रप्रभचरितम्
इति च व्यचिन्तयद्लाभि न किं निजजन्मनः फलममुष्य मया । भुवि यस्य भानुसदृशस्तनयः पिदधाति धामभिरशेषदिशः ||१६|| मलसङ्गवर्जितमितं पृथुतामुदयास्पदं सकलधामवताम् । घनवर्त्म शीत रुचिनेव करर्मम दीपितं कुलमनेन गुणैः ॥४७॥ कुसुमाद्यथा विटपिनो वपुषो नवयौवनाच्छ्रुतवतः प्रशमात् । पुरुषान्वयस्य जगतीह तथा न सुपुत्रतः परमलंकरणम् ||४८ || परेद्युरेनमवनी तिलकं महतोत्सवेन नृपचक्रयुतः । नृपतिर्न्यवीविशदनिन्द्यतमे जगतो हिताय युवराजयपदे ||४९||
१.२८
។
भृशम् अत्यन्तम् । मुमुदे संतुतोष । उत्प्रेक्षा (उपमा ) ||४५ ॥ इतीति । भुवि भूमौ । यस्य मम । भानुसदृशः भानोः सूर्यस्य सदृशः समानः । तनयः कुमारः । अशेषदिशः समस्तककुभः । धामभिः पिदधाति । मया अमुष्य अस्य । निजजन्मनः निजस्य स्वस्य जन्मनो जननस्य । फलमलाभि अलभ्यत । डुलभिषु प्राप्ती कर्मणि लुङ् । न किम् अपितु अलाभ्येव । इति च एवं प्रकारेण । व्यचिन्तयत् चिन्तयति स्म ॥ ४६ ॥ मलेति । मलसङ्गवर्जितं मलस्य सङ्गेन संबन्धेन वर्जितं रहितम्, पक्षे कालुष्यरहितम् । पृथुतां महत्त्वम् । इतं गतम् । सकलधामवतां सकलानां सर्वेषां धामवतां तेजस्विनां क्षत्रियाणाम्, पक्षे ज्योतिर्गणानाम् । उदयास्पदम् उदयस्य संपद आस्पदं स्थानम्, पक्षे प्रदुर्भावस्य स्थानम् । मम मे । कुलं वंशम् (शः) । अनेन एतेन कुमारेण । गुणैः औदार्यादिभिः । शीतरुचिना चन्द्रेण । करैः किरणैः घनवर्त्मव मेघमार्ग इवाकाशमिव । दीपितं प्रकाशितम् । श्लेषोपमा ।।४७।। कुसुमादिति । विटपिनः वृक्षस्य । कुसुमात् पुष्नात् । यथा वपुषः शरीरस्य । यौवनात् यौवनावस्थायाः । श्रुतवतः शास्त्रिणः । प्रशमात् कामाद्युपशमात् । तथा तेन प्रकारेण । इह जगति लोके । पुरुषान्वयस्य पुरुषस्य मनुष्यष्यान्वयस्य वंशस्य । सुपुत्रतः सत्पुत्रात् । परम् अन्यत् । अलङ्करणं भूषणम् । न नास्ति । दृष्टान्तः ।।४८।। अपरेयुरिति । अपरेद्युः अन्यस्मिन् दिने । नृपचक्रयुतः नृपाणां राज्ञां चक्रेण निवहेन युतः । नृपतिः भूपतिः । अवनितिलकं भूमिभूषणम् । एनं कुमारम् । महता पृथुना । उत्सवेन प्रभावनया | अनिन्द्यतमे पूज्यतमे । युवराजपदे युवराजस्य पदे स्थाने । जगतः लोकस्य । हिताय उपकाराय । न्यवीविशत्
१. क ख ग घ म राज्यपदे । २. नास्ति ।
कर समुद्र प्रसन्न होता है ||४५ || राजा अपने मन-ही-मन यों सोचने लगा कि 'मेरा पुत्र सूर्यके समान तेजस्वी है और सूर्यके समान मेरे इस पुत्रने अपने तेजसे सब दिशाओंको व्याप्त कर दिया है । इसे पाकर क्या मैंने अपने जीवनका फल नहीं पा लिया ? || ४६ || मेरा वंश आकाश के समान है | जैसे आकश मैलके सम्बन्धसे रहित - निर्मल है, विशाल है और तेजस्वी सूर्य आदि ज्योतिषी देवोंके उदयका स्थान है । वैसे ही यह वंश निर्दोष, विशाल और तेजस्वी क्षत्रियोंका अन्म-स्थान है आकशको चन्द्रमा अपनी किरणोंसे प्रकाशित करता है और इस वंश - को मेरे पुत्रने अवने गुणोंसे प्रकाशित कर दिया है || ४७|| जिस प्रकार वृक्षका फूल, शरीरका यौवन और विद्वानका शान्तिसे बढ़कर कोई अन्य भूशण नहीं है, इसी प्रकार मनुष्यके वंशका सुपुत्र के सिवा और कोई भूषण नहीं है ||४८ || यह सोचकर राजा अजितंजयने अगले दिन ही पुत्रको युवराज पद प्रदान करनेके लिए बहुत बड़ा उत्सव किया। उसमें सभी राजे-महाराजे सम्मिलित हुए । उन्होंके समक्ष उसने अपने पुत्र अजित सेनको – जो समस्त पृथ्वीका मण्डन था— लोक हित के लिए सम्मानित युवराज पदपर आरूढ़ कर दिया उसे युवराज बना दिया ॥ ४९ ॥
Jain Education International
[ ५, ४६
= आच्छादयति व्याप्नोतीत्यर्थः । ३.
For Private & Personal Use Only
= अन्य दलङ्करण मह
F
www.jainelibrary.org