________________
१०१
- ४, ३१]
चतुर्थः सर्गः अन्येधुराहय 'युवेशमोशः कृतप्रणामाञ्जलिमित्युवाच । मन्दीभवत्प्रेमरसानुबन्धां तदीयवक्रे विनिवेश्य दृष्टिम् ॥२८॥ वात्येव यावन्न वपुःकुटीरमेतज्जरा जर्जरयत्युपेत्य । प्रवर्धमानं तिमिरं विहन्तुं यावन्न वा दर्शनशक्तिमोष्टे ॥२६।। यावन्न तीर्थोपगमप्रवीणो पादौ निजप्रस्फुरणं जहीतः। कालेन यावद्भजतेऽवसादं न च श्रुतिधर्मकथावसक्ता ॥३०॥ वयोनुरूपेण विवधमानो यावत्स्मृति भ्रंशयते न मोहः ।
यावच्च शास्त्राध्ययनप्रवीणा प्रवर्तते प्रस्खलितुं न वाणी ॥३१॥ ययौ। गम्लु गतौ लिट् । आत्महितप्रवृत्तिः आत्मनः स्वरूपस्य हिते उपकारके मार्गे प्रवृत्तिर्वर्तनम् । बुद्धेः ज्ञानस्य । फलं हि निष्पत्तिहि । अर्थान्तरन्यासः ॥२७॥ अन्येद्युरिति । ईशः प्रभुः । अन्येद्युः एकस्मिन् दिने । 'पूर्वापर-' इत्यादिना एद्युस् प्रत्ययः। युवेशं युवराजम् । आहूय आकारयित्वा । मन्दीभवत्प्रेपरसानुबन्धां प्रागमन्द इदानी मन्दो भवतीति मन्दीभवन् प्रेम्णो रसस्तस्यानुबन्धः संबन्ध:, मन्दीभवन् प्रेमरसानुबन्धो यस्याः ताम् । दृष्टिं लोचनम् । तदीयवक्त्रे तदीये श्रोवर्मसंबन्धिनि वक्त्रे मुखे । विनिवेश्य स्थापयित्वा । कृतप्रणामाञ्जलिं कृतो विरचितः प्रणामस्याञ्जलियेन तम् । वक्ष्यमाणप्रकारेण । उवाच जगाद । ब्रून व्यक्तायां वाचि लिट् ।।२८॥ वात्येति । कुटीरं तृणगृहम् । वात्येव वातानां समूह इव । 'पाशादेश्च यः' इति समहे य-प्रत्ययः । 'वात्या वातस्तु मुञ्चति' इत्यभिधानात् । एतत् इदम् । वपुः शरीरम् । जरा वार्धक्यम् । उपेत्य आगत्य । यावत् यावत्पर्यन्तम् । न जर्जरयति न विनाशयति । प्रवर्धमानम् एधमानम् । तिमिरं नेत्रदोषं (षः)। यावत् दर्शनशक्ति दर्शनयोनयनयोः शक्ति सामर्थ्यम् । विहन्तुं विनाशयितुम् । न ईष्टे न समर्थं मबति । ईशि ऐश्वर्ये लट् । उपमा ॥२९॥ यावदिति । तीर्थोपगम प्रवीणो तीर्थस्य पवित्रस्थानस्योपगमे गमने प्रवीणो समर्थी । पादौ चरणौ। निजप्रस्फुरणं निजयोः प्रस्फुरणं सामर्थ्यम् । यावत् पर्यन्तम् । न जहीत: न त्यजतः । यावत् धर्मकथावसक्ता धर्मस्य कथायामवसक्ता सक्ता । श्रुतिः श्रोत्रेन्द्रियम् । कालेन वयोधर्मण । अवसादं बधिरत्वम् । न च भजते न याति । भज सेवायां लट् ॥३०॥ वय इति । वयोनुरूपेण वयसो वयोधर्मस्यानुरूपेणानुवर्तनेन । वर्धमानः एधमानः । मोहः अज्ञानम् । यावत् स्मृति सम्यग्ज्ञानम्। न भ्रंशयते न नाशयति । शास्त्राध्ययनप्रवीणा शास्त्रस्यागमस्याध्ययने प्रवीणा समर्था ।
सोचते हुए राजा श्रीषेणको वैराग्य हो गया । फलतः विषयोंमें उसे जो राग रहा, वह अब नहीं रहा । आत्महित में प्रवृत्ति करना हो तो बुद्धिका फल है ॥२७॥ अगले दिन राजा श्रीषेणने युवराजको बुलाया। वह शोघ्र ही उपस्थित हुआ, और उसके सामने हाथ जोड़कर खड़ा हो गया। राजा उसके चेहरेपर दृष्टि-जिसमें प्रीतिका रस बिलकुल ही कम था अर्थात् जो प्रीतिसे सनी हुई नहीं थी-डालकर यों बोला-॥२८॥ जिस प्रकार आँधी, फूसकी झोंपड़ोको झकझोर डालती है, उसी प्रकार मेरे इस शरीरको जबतक वृद्धावस्था आकर नहीं झकझोरती और जबतक बढ़ता हुआ तिमिर-नेत्ररोग मेरी देखनेको शक्तिको नष्ट नहीं कर पाता ॥२९॥ तीर्थ यात्रा करनेमें प्रवीण मेरे ये पैर जबतक अपने गमन-सामर्थ्य को नहीं छोड़ते और धर्म-कथाओंके श्रवण में संलग्न मेरे ये कान जबतक कालके प्रभावसे बधिर नहीं होते ॥३०॥ आयुके अनुसार क्रमसे बढ़ता हुआ मोह जबतक मेरो स्मरण-शक्तिको नष्ट नहीं करता और शास्त्रोंके पढ़ने में
१. अ सुवेष । ५. स्मरणं वा।
२. आ °हितमार्गे या।
३. आ सामर्थ्यतरम् । ४. यावत् पर्यन्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org