________________
-४, १५]
चतुर्थः सर्गः त्रैलोक्यशोभाभिभवप्रवीणं नूनं विधिस्तस्य विलोक्य रूपम् । 'ययावतृप्तश्चतुराननत्वं नान्यद्वयं कारणमत्र विद्मः ।। १२॥ स संपदामायतनं जयश्रीसमाश्रयः सर्वमनोभिरामः ।। भेजे न चोत्सेकमनननीतिर्मदं भजन्ते न महानुभावाः ।।१३।। निरस्तषड्वर्गरिपुः कृतज्ञो गुणाधिकानां धुरि वर्तमानः । स मत्सरेणेव समं गुगोधैर्न पस्पृशे दोषगणैः कुमारः॥१४॥ पितुर्निदेशादथ सुन्दराङ्गी स राजकन्यां विधिनोपयेमे ।
प्रभावतो देहगतप्रभायाः प्रभावतीति प्रथिताभिधानाम् ॥१५। किन्तु खलस्वभावाः दुर्जनस्वरूपाः । द्विषन्तोऽपि शत्रवोऽपि प्रहर्षिताः । यत् पुण्यवतां सुकृतवताम् । असाध्यम् । तत् । लोके नास्ति न भवति । अर्थान्तरन्यासः ॥११॥ त्रैलोक्येति । विधिः कर्म-ब्रह्मा । तस्य कुमारस्य । त्रैलोक्यशोभाभिभव प्रवीणं त्रैलोक्यस्य लोकत्रयस्य शोभायाः कान्तरभिभवे तिरस्करणे प्रवीणं समर्थम् । रूपं सुरूपम् । नूनं निश्चयेन । विलोक्य वीक्ष्य । अतृप्तः तृप्तिरहितः सन् । चतुराननत्वं चतुभिराननै युंक्तत्वम् । ययो इयाय । या प्रापणे लिट् । अत्र चतुराननत्वे । अन्यत् परम् । कारणं हेतुम् । वयं न विद्मः न जानीमः । विद ज्ञाने लट । उत्प्रेक्षा ।।१२ । स इति । संपदाम् ऐश्वर्याणाम् । आयतनं गहम् । जयश्रीसमाश्रयः जयश्रियाः जयलक्ष्म्याः आश्रयः आधारः । सर्वमनोऽभिरामः सर्वेषां सकलानां मनोभिरामो मनोहरः । अनूननीतिः अनूना संपूर्णा नीति यस्यसः । सः श्रीवर्मकुमारः । उत्से कं गर्वम् । न भेजे न भजति स्म । भज सेवायां लिट् । महानुभावाः महाननुभावः सामथ्र्य येपां' ते। मदं गर्वम् । न भजन्ते । अर्थान्तरन्यास: ॥१३॥ निरस्तेति ।[ निरस्तषवरिपुः ] निरस्तास्तिरस्कृताः षड्वर्ग एव रिपवः शत्रवो येन सः । 'अयुक्तितः प्रणीताः कामक्रोधमानमदहर्षाः क्षितीशानामन्तरङ्गोऽरिप ड्वर्गः' इति नीतिवाक्यामृते । कृतज्ञः कृतं जानातीति कृतज्ञः, कृतकार्यज्ञ इत्यर्थः । गुणाधिकानां गुण माधुर्यादिगुणैरधिकानां प्रवृद्धानाम् । धुरि अग्रभागे । वर्तमानः । कुमारः श्रीवमकुमारः । गुणोघैः गुणानामोघैः समूहैः। समं साकम् । समत्सरेणेव ईप[य] येव । 'मत्सरोऽन्यशुभद्वेषे तद्वत्कृषणयोस्त्रिषु ।' इत्यभिधानात् । दोषगणैः दोषाणामप्रशस्तानां गण: समूहैः। न पस्पृशे न स्पृश्यते स्म । स्पृश स्पर्शने कर्मणि लिट् । उपमा ।।१४॥ पितुरिति । अथ यौवनप्राप्त्यनन्तरम् । सः कुमारः । देहगतप्रभायाः देहं गात्र गताया: प्राप्तायाः । प्रभायाः कान्त्याः कठिन हो ? ॥११॥ उसका रूप तीनों लोकोंकी शोभाको मात करनेवाला था। उसे देखकर ब्रह्मदेवको तृप्ति नहीं हुई-उसका चित्त नहीं अघाया। मानो इसीलिए उसने तीन मुख और बना लिये-वह चतुर्मुख हो गया। उसके चतुर्मुख होनेका हमें और कोई कारण नहीं जान पड़ता ॥१२॥ वह सम्पत्तिका घर था; विजयलक्ष्मीका आश्रयदाता था; सबके मनको प्रिय था और समस्त नीतिका पालक था, किन्तु फिर भी उसे अहङ्कार नहीं था। सच है विशिष्ट प्रभावशाली पुरुष कभी अहङ्कार नहीं करते ॥१३॥ उसने काम, क्रोध, हर्ष, मान, लोभ और मद इन छह आभ्यन्तर शत्रुओंको तिरस्कृत कर दिया था, वह कृतज्ञ था और गुणवानोंमें अग्रेसर था। उसके गुणोंसे दोषोंको बड़ी डाह हो गयी थी, मानो इसीलिए वे उस राजकुमारको कभी छूते भी नहीं थे ॥१४।। इसके पश्चात् उसने अपने पिताकी आज्ञासे एक परमसुन्दरी राजकुमारीके साथ विधिपूर्वक विवाह किया, जिसका नाम प्रभावती था । शरीरको विशिष्ट
१. अ आपावित । २. आ प्रतौ 'न' नास्ति । ३. आ रूपकम् । ४. आ एषां । ५. = विद्यमानः । ६. = स मत्सरेणेव । ७. आ शुभद्वेषि। ८. भा प्रतो "त्रिषु' इति पदं नास्ति । ९. भा प्रतौ 'प्राप्तायाः' इति पदं नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org