________________
- ३, १३]
तृतीयः सर्गः धर्मोऽर्थसंचयनिमित्तमुदारमर्थः कामस्य हेतुरितरः सुखयोनिरेते । यत्र त्रयोऽप्यविरतं न परस्परस्य जैनेश्वरा इव नया विजहुर्व्यपेक्षाम् ।।११॥ वाञ्छद्भिराश्रयविशेषमिवात्मयोग्यमौदार्यधैर्यविनयादिगुणैरशेषैः । अभ्यर्थितः सततमादरवद्भिरेषां' वेधाः ससर्ज नृपमालयभूतमेनम् ।।१२।। भानुर्भवेद्यदि मनागिह सौम्यरूपस्तेजस्वितामुपगतो मृगलाञ्छनो वा ।
धामाधिको विदधदेष जनानुरागं तेनोपमानपदवीं प्रभुरुद्वहेत ॥१३॥ लङ् । कलाधरोऽपि द्वासप्ततिकलाधरोऽपि, चन्द्र इति ध्वनि.। दोषाकरश्च दोषाणां पापाचरणानामाकर उत्पत्तिस्यानम्, रात्रिकर इति ध्वनिः (न बभूव न समजनि ) । महतां सत्पुरुषाणाम् । सर्व निखिलम् । स्वरूपं धर्मः । विस्मयकरं हि विस्मयमाश्चयं करोतीति विस्मयकरं हि। विरोवार्थान्तरन्यासयोः सङ्करः ॥१०॥ धर्म इति । यत्र श्रीषेणे । धर्मः । उदारम् अत्यन्तम् । अर्थसंचयनिमित्तम् अर्थस्य संचयस्य संपादनस्य । निमित्तं कारणम् । अर्थ: कामस्य विषयानुभवस्य हेतुः कारणम् । इतर: अन्य। कामः । सुखयोनि: सुखस्येन्द्रियसुखस्य योनिः कारणम् । एते त्रयोऽपि-धर्मार्थकामा अपि । परस्परस्य अन्योन्यस्य । जैनेश्वराः जिनेश्वरस्येमे तथोक्ता: जिनसंबन्धिनः । नया इव नैगनसंग्रहनया इव । अविरतम् अनवरतम् । व्यपेक्षाम् आकांक्षाम् । न जहुः न तत्यजुः । ओहाक् त्यागे लिट् । उपमा ।।११।। वान्छेति । आत्मयोग्यम् आत्मनां स्वेषां योग्यमुचितम् । आश्रयविशेषम् । आश्रयस्याधारस्य विशेष' भेदम् वाञ्छद्भिः : इच्छद्धिः । आदरवद्भिः आश्रये प्रीतियुक्तैः । अशेषैः सकलैः । औदार्यशौर्यविनयादिगुणैः औदार्य च शौयं च विनयश्च तयोक्ता: ते आदिर्येषां ते औदार्यशौर्यविनयादयः ते ( च ) ते गुणाश्च तथोक्ता: तैः, त्यागप्रतापसत्कारादिगुणैरित्यर्थः । सततमनवरतम् । अभ्यथितः प्रार्थित इव । वेधाः ब्रह्मा । एषां गुणानाम् । आलयभूतम् अधारभूतम् । एनं नृपम् इमं श्रीषणराजम् । सृज विसर्गे लिट् । उत्प्रेक्षा ।।१२।। मानुरिति । इह लोके । यदि मनाक् ईषत् । भानुः सूर्यः । सोम्यरूपः सौम्यं मनोहरं रूपं यस्य सः । भवेत् स्यात् । भू सत्तायां लिङ् । मृगलाञ्छनः मृग एव लाञ्छनं होता था। वह (विरोध पक्षमें-) था तो चन्द्रमा पर रात्रिसे उसका कोई सम्बन्ध नहीं था (परिहार पक्षमें-) वह समस्त कलाओंमें कोविद था और उसमें कोई दोष नहीं था । महान् पुरुषोंका सारा स्वरूप निश्चय ही आश्चर्यजनक होता है ॥१०॥ धर्म उसके धन-संचयका एक बड़ा निमित्त था, धनसंचय काम पुरुषार्थका और काम पुरुषार्थ इन्द्रिय सुखका और ये तीनोंधर्म, अर्थ तथा काम कभी भी एक-दूसरेकी उपेक्षा नहीं करते थे-सभीको एक-दूसरेकी अपेक्षा रहती थी। तीनों पुरुषार्थ जिनेन्द्र भगवान्के द्वारा प्रतिपादित नैगम आदि नयोंके समान एक दूसरेसे सम्बन्ध रखते थे ॥११॥ उदारता, धैर्य और विनय आदि सभी गुण अपने निवास करने योग्य किसी विशेष आश्रयको चाह रहे थे, और उन्होंने बड़े आदरके साथ इसके लिए कुछ दिन लगातार ब्रह्मदेवसे प्रार्थना थी। मानो इसी प्रार्थनापर उसने इन गुणोंके रहनेके लिए इस राजाकी सृष्टि की ॥१२॥ इस संसार में सूर्य यदि थोड़े सौम्य रूपको धारण कर लेता अथवा चन्द्रमा ही तेजस्वी हो जाता, तो इन दोनों में से कोई भी एक, तेजस्वी और प्रजाका रंजन करनेवाले
१. म द्भिरेष । २. आ स्वस्तिकान्तर्गतः पाठो नोपलयन्ते । ३. = अजलोऽपि जलरहितोऽपि नदीनभावं समुद्रत्वं [ भेजे ] । वसुमत्यां तिलको वृक्षविशेषोऽपि, अशोको वृक्षजातिः । कलाधरोऽपि चन्द्रोऽपि दोषाकरो न बभूव । विरोधोऽयम् । तत्परिहार:-अपि निश्चयेन । यतोऽजडः पण्डितोऽत एव दीनभावं दीनत्वं न भेजे। यतश्च वसुमत्याः वसुधायाः तिलको ललामभूतोऽत एवाशोकः शोकरहितः । यतश्च कलाधरोऽत एव दोषाणामसौजन्यादीनामाकरो न बभूव। ४. आ संपादकस्य । = अर्थसंग्रहसंपादनस्येत्यर्थः । ५. = विशिष्टमाश्रयम् । ६. श स राजानम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org