________________
- ३,५१]
तृतीयः सर्गः श्रेयस्तनोति परिवर्धयते विवेकमुन्मलयत्यघमुदीरयते विभूतिम् ।। त्वदर्शनं सुचरिताखिलभद्रहेतुर्नाल्पीयसो भवति गम्यमिदं शुभस्य ॥४९।। यद्भावि भूतमथवा मुनिनाथ तत्ते बाह्यं न वस्तु कथयेदमतः प्रसीद । संसारवृत्तमखिलं परिजानतोऽपि नाद्यापि याति विरतिं किमु मानसं मे ॥५०।। श्रत्वेति तद्वचनमेवमुवाच चिन्तां चेतोगतां स नृपतेरवबुध्यमानः ।
यावत्तव स्फुरति चेतसि सूनुवाञ्छा तावन्न यासि विरतिं नृपपुंगव त्वम् ॥५१॥ पादो चरणो। सुदूरमपि महदूरमपि । गत्वा समेत्य । रजसः पापस्य । क्षयाय नाशाय । विलोकनीयौ वीक्षणीयो'। तस्य तव भवतः। आगमे आगमने । मम मे । अन्यभवसंचितपुण्यपाकम् अन्यस्मिन् पूर्वस्मिन् भवे जन्मनि संचितं संपादितं पुण्यपाकं सुकृतपरिपाकम् । मुक्त्वा त्यक्त्वा । अन्यः परः। हेतुः कारणम् । न नास्ति ।।४८।। श्रिय इति । सुचरित भो संपूर्णचारित्र । अखिलभद्र हेतुः अखिलस्य भद्रस्य मङ्गलस्य हेतुः कारणम् । त्वदर्शनं त्वत (?) तव दर्शनम् । श्रेयः सौख्यम् तनोति करोति तनूञ् विस्तारे लट् । विवेकं हेयोपादेयविवेकभेदम् । परिवर्द्ध यते पर्येधयते । वृधू वृद्धौ लट् । अघं पापम् । उन्मूलयति नाशयति । मूल प्रतिष्ठायां लट् । विभूतिम् ऐश्वर्यम् । उदीरयते प्रवर्द्धयते । ईर प्रेरणे लट् । इदम् एतद्दर्शनम् । अल्यीयसः अल्पतरस्य । शुभस्य पुण्यस्य। गम्यं लब्धं शक्यम् । न भवति । अनुमितिः ।।४९॥ यदिति । मुनिनाथ भो मुनीन्द्र । यद् वस्तु । भावि भविष्यत् । अथवा भूतम् अतीतम् । तद्वस्तु पदार्थः । ते भवतः । बाह्य बहिर्भतम । न न भवति । अत एतस्मात्कारणात'। इदं वैराग्याभावकारणम । कथय ब्रहि लोट । प्रसीद प्रसन्नो भव । षदल विशरणगत्यवसादनेष । 'पाघ्रामास्था-' इत्यादिना सीद लोट् । अखिलं निखिलम् । संसारवृत्तं संसारस्य वृत्तं वर्त्तनम् । परिजानतोऽपि विजानतोऽपि । मे मम । मानसं मनः अद्यापि इदानीमपि । विरति वैराग्यम । किम् किं कारणम । न याति न गच्छति । या प्रापणे लट् ॥५०॥ श्रुत्वेति । इति एवम् । तद्वचनं तस्य भूपस्य वचनम् । श्रुत्वा निशम्य । नृपतेः भूपतेः । चेतोगतां मनोगताम् । चिन्ताम् आध्यानम् । अवबुध्यमानः जानन् । सः मुनिवृन्दारकः । एवं वक्ष्यमाणप्रकारेण । उवाच बभाषे। बेञ् व्यक्तायां वाचि लिट् । नृपपुङ्गव नृपश्वासौ पुङ्गवश्च तस्य संबोधनं 'भो नृपश्रेष्ठ । यावत् जो धूलि उनके ऊपर पड़ जाती है, वह उनका स्पर्श पाकर पवित्र हो जाती है। अपने पापको नष्ट करनेके लिए दूर जाकर मुझे उन ( चरणों ) का दर्शन करना चाहिए था । किन्तु आप स्वयं यहाँ पधारे हैं। आपके पधारने में मेरे पूर्व जन्ममें संचित पुण्यके उदयके सिवा और क्या कारण हो सकता है ? ॥४८॥ मुनिराज ! आपका चरित निर्मल है । आपका दर्शन कल्याणकारी है । आपका दर्शन विवेकको बढ़ता है, पापको मूलसे नष्ट करता है, विभूतिको प्रकट करता है और समस्त मंगलोंका कारण है । आपका दर्शन थोड़े पुण्यसे नहीं हो सकता ॥४६॥ मुनिराज ! जो वस्तु पहले हो चुकी है अथवा आगे होगी वह आपके ज्ञानसे बाहर नहीं है-आप न केवल वर्तमान को, बल्कि भूत और भविष्यको भी जानते हैं । अतः प्रसन्नता पूर्वक मुझे यह बतलाइये कि मैं संसारके सारे व्यवहारको जानता हूँ, किन्तु फिर भी अभीतक मेरा मन विरक्त क्यों नहीं हो रहा है ? ॥५०॥ राजाके ये वचन सुनकर मुनिराज उसके मनकी चिन्ताको समझ
१. = दर्शनोयो। २. आ भगवतः । ३. आ अखिलानां भद्रस्थ स अखिलभद्रस्य । ४. श स श्रियः । ५. - कल्याणम् । ६. = विस्तारयति । ७. == हेयोपादेयभेदम् । ८. श स परिवर्द्धयति । ९. = प्राप्यं विषयो वा । १०. आ भविष्यति, अथवा भूत यति तं वस्तु पदार्थः, तद्वस्तु । ११. श स अत एव तस्मात् कारणात् । १२. श स सिद । १३. = कथम् । १४. = नृपाणां पुङ्गवो नृपपुङ्गवः । १५. = तत्संबुद्धौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org