________________
७१
चन्द्रप्रभचरितम्
[ ३, १४ -
श्रीकान्तया सरसिजाकर संनिवासिश्रीकान्तया सकललोक मनोभिरामः । देव्या स्वकीयवपुव्यतिरिक्तयाप योगं शशीव कलयामलया स भूपः ||१४|| लावण्यसंपदमलाम्भसि संनिमज्ज्य देहं स्वमुज्ज्वलमिवातितरां विधातुम् । श्लाघ्यः शरद्विशदचन्द्रगभस्तिगौरो यस्यास्तनौ समुदितः सकलो गुणौघः ॥१५॥ शीलक्षमाविनय रूपगुणर्महार्घा मुश्चित्य यामखिलविष्टपसुन्दरीषु । भर्तुनो रमयितुं स्वसहायभूतां लक्ष्मीरिवादरपरा स्वयमेव वत्रे ||१६||
यस्य सः, चन्द्रो वा । रूपकम् ( ? ) । तेजस्वितां तेजोऽस्यास्तीति तेजस्वी तस्य भावम् । परिगतः गढ़वान् । घामधिकः प्रतापाधिकः । जनानुरागं जनानां लोकानामनुरागं प्रीतिम् । विदधत् विदधातीति विदधत् कुर्वन् शतृप्रत्ययः । 'न नम्' इति नम् न भवति । एषः अयम् । प्रभुः श्रोषेणः । तेन भानुना चन्द्रेण वा । उपमानपदवीम् उपमानस्य सादृश्यस्य पदवीं स्थानम् । उद्वहेत दध्यात् । अतिशयोक्तिः ||१३|| श्रीति । सकललोकमनोभिरामः सकलानां जनानां मनोभिरामो मनोहरः । स भूपः श्रोषेणनृपः । सरसिजाकर संनिवासि - श्रीकान्तया सरसिजाकरे सरोवरे संनिवासिनी निवसनशीला श्रीरिव कान्तया मनोहरया । स्वकीयवपुरअतिरिक्तया स्वकोयस्य स्वस्य वदुषा शरीरेणाव्यतिरिक्तयाऽभिन्नरूपया | श्रीकान्तया श्रीकान्तासंज्ञया । देव्या महिष्या । अमलया निर्मलरूपया । कलया षोडशभागेन । शशीव चन्द्र इव । योगं संबन्धम् । आप ययो । आप्ल व्याप्तौ लिट् ॥ १४ ॥ लावण्येति । लावण्यसंपदमलाम्भसि लावण्यस्य देहकान्तेः संपदेव अमलेऽम्भसि जले । रूपकम् । स्वं स्वकीयम् । देहं शरीरम् । अतितराम् अत्यन्तम् । उज्ज्वलं निर्मलम् । विधातुमिव कर्तुमित्र । संनिमज्य संस्नाप्य इलाध्यः पूज्यः । शरद्विशदचन्द्रगभस्तिगौरः शरदः शरत्कालस्य विशदस्य निर्मलस्य चन्द्रस्य गभस्तिरिव कान्तिरिव गौरो मनोहरः । सकलः सर्वः । गुणौघः गुणानां पातिव्रत्यादीनामोघः समूहः । यस्याः श्रीकान्तायाः । तनौ शरीरे । समुदितः संचितः । उत्प्रेक्षा ।। १५ ।। शीलेति । आदरपरा प्रीतिपरा | लक्ष्मीः । अखिलविष्टपसुन्दरीषु अखिलस्य विष्टपस्य सुन्दरीषु स्त्रीषु । शीलक्षमाविनय रूपगुणैः शीलं च क्षमा च विनयश्च तथोक्ताः त एवं रूपं येषां तैः गुणैः । महार्घाम् अतिशयेन पूज्याम् । स्वसहायभूतां स्वस्य सहायभूतां सुहृद्भूताम् । यां श्रीकान्तादेवीम् । उच्चित्य गृहीत्वा भर्तुः श्रीषेणभूपस्य ।
७
उस राजाका उपमान हो सकता था, तथा राजा भी उपमेयका रूप लेकर उसकी समानता धारण कर लेता ||१३|| वह सभी लोगोंकी दृष्टि में सुन्दर था । उसका विवाह श्रीकान्ता देवीके साथ हुआ था । वह कमलों में निवास करनेवाली लक्ष्मी के समान सुन्दर थी और चन्द्रमाकी कलाकी भाँति निर्मल । राजा उसे अपने शरीरसे विलग नहीं समझता था । उसकी अर्धाङ्गिनी जो थी । वह उससे घुलमिल गई जैसे कला चन्द्रमासे सम्बन्ध जोड़कर उससे घुलमिल जाती है ||१४|| श्रीकान्ताके शरीर में प्रशंसनीय तथा शरत्कालीन चन्द्रमाकी किरणोंके समान निर्मल सभी गुण प्रकट हो गये । मानो वे उसकी कान्तिके निर्मल जल में स्नान करके अपने शरीरको और भी अधिक उज्ज्वल करना चाहते थे || १५ || वह शील, क्षमा, विनय और रूप आदि गुणों के कारण सारे संसारको सुन्दर स्त्रियोंके द्वारा पूज्य थी । इसे खोजकर लक्ष्मीने मानो अपने पति श्रीषेण ( राजा लक्ष्मीपति कहे जाते हैं ) के मनोरञ्जनके लिए बड़े सम्मानके साथ
१. आश सकेन । २. = सररिजाकरसंनिवासिनी कमलवनवासिनी चासो श्रीश्च तद्वत् कान्तया मनोरमया । ३ = या श्रीः सेव । ४ = आत्मीयस्य । ५. = संपद्येव । ६. निमज्जनं विधाय । ७. आ स एव । ८ = अन्विष्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org