________________
चन्द्रप्रभचरितम्
[२,११६ - सुगन्धिकुसुमामोदैः सुगन्धयति यो दिशः । सर्वतोऽपि निजामाख्यां कर्तुमर्थवतीमिव ।। ११६ ॥ अकृष्टपच्यसस्याढये निरीतौ निरवग्रहे। यत्रानित्यप्रमोदिन्यो मोक्षप्राप्ता इव प्रजाः ।। ११७ ।। ग्रामैः कुक्कुटसंपात्यैः सरोभिर्विकचाम्बुजैः । सीमभिः सस्यसंपन्नैयः समन्ताद्विराजते ॥ ११८ ।। अर्थ धर्माय सेवन्ते कामं संतानवृद्धये ।।
यत्रन व्यसनालोकाः परलोकक्रियोद्यताः ॥ ११९ ।। राजृञ् दीप्तौ लट् । उत्प्रेक्षा ॥११५॥ सुगन्धीति । य: देशः । निजां स्वकीयाम् । आख्यां नामधेयम् । अर्थवती सार्थकाम् । कर्तुमित्र कारणायेव । सुगन्धि कुसुमामोदैः सुगन्धिनां सुशोभनो गन्धो येषां तानि सूत्पूतिसुरभेर्गन्धादिद् गुणे' इति इत्-प्रत्ययः ॥ सुगन्धिनां कुसुमानाम् आमोदैः मनोहरपरिमलैः । 'आमोदः सोऽतिनिर्हारी' इत्यमरः । दिशः ककुभः । सुगन्धयति सुगन्धीकरोतीति सुगन्धयति । सुगन्धीति सुब्धातो: 'णिज्बहुलं कृज्ञादिषु' इति णिच् प्रत्ययः । उत्प्रेक्षा' 5 ॥११६।। अकृष्टेति । यत्र सुगन्धिदेशे। अकृष्टपच्यसस्याढये अकृष्टेन पच्यैः परिपक्वैः सस्यैः आढये परिपूर्णे निरीतो निर्गता ईतयोऽतिवृष्टयादयो यस्मिन् ( यस्मात् ) तस्मिन् । निरवग्रहे निर्गतोऽवग्रहो दुभिक्षो ( वृष्टिप्रतिबन्धो ) यस्मिन् ( यस्मात् ) तस्मिन् । प्रतिबन्धगजालीकवष्टिबन्धेष्ववग्रहः' इत्यभिधानात। [यत्र सुगन्धिदेशे। प्रजाः जनाः । मोक्षप्राप्ता इव परमनिर्वाणं गता इव । नित्यप्रमोदिन्यः प्रमोदोऽस्त्यासामिति तथोक्ताः । वर्तन्ते उपमा ( उत्प्रेक्षा ) ॥११७।। ग्रामैः । यः सुगन्धिदेशः । कुक्कुटसंपातैः [त्यैः] कुक्कुटैः ताम्रचूडैः संपातः[त्यः] लवयितुं शक्यः, अतिसमीपस्थैरित्यर्थः । ग्राम: निगमैः विक चाम्बुजैः विकचान्यम्बुजानि येषु तानि, तैः । सरोभिः कासारैः । सस्यसंपन्नैः सस्यैः धान्यैः संपन्नः समृद्धैः । सीमभिः क्षेत्रः । 'सीमसी में स्त्रियामुभे' इत्यमरः । समन्तात् परितः । विराजते विभासते। राज्ञ दीप्तौ ।।११८।। अर्थमिति । यत्र सुगन्धि देशे । परलोक क्रियोद्यताः परस्य उत्तरलोकस्य क्रियायां कारणभूताचरणादिकृत्ये उद्यताः सन्नद्धाः । लोकाः जनाः। धर्माय धर्मार्थम् । अर्थ समान सुशोभित हो रहे हैं ।।११५॥ उस देश में सभी ओर बाग-बगीचे हैं। उनमें फूल खिले हुए हैं। उनकी सुगन्धि दसों दिशाओंको सुवासित कर रही है। इसलिए ऐसा जान पड़ता है मानो वह देश अपने 'सुगन्धि' नामको सार्थक सिद्ध करना चाहता है ॥११६॥ उस देशकी भूमि बहुत उपजाऊ है, अतः बिना जोते ही वहाँ भरपूर अनाज उत्पन्न होता है। वहाँ अतिवृष्टि, अनावृष्टि, मूषक, शलभ, शुक और अत्यन्त पास निवास करनेवाले राजा ये छह ईतियाँ नहीं हैं । वहाँ कोई रुकावट नहीं है। अतएव वहाँके निवासी सदा आनन्दसे रहते हैं। फलतः वे ऐसे जान पड़ते हैं मानो उन्हें मोक्ष प्राप्त हो गया हो ॥११७|| वहाँके गांव बिलकुल पासपासमें हैं, इतने पास कि एक गाँवके मुर्गे दूसरे गांव में पहुँच जाते हैं । वहाँके सरोवरोंमें कमल खिले हुए हैं। वहाँको सीमाएँ धान्यसे परिपूर्ण हैं। उन गाँवों, सरोवरों और सीमाओंसे उस देशकी सभी ओरसे शोभा है ।।११८॥ वहाँके निवासी धर्मके लिए धनका उपार्जन करते हैं और सन्तति उत्पन्न करनेके लिए विषय सेवन करते हैं। उन्हें धन बटोरने और ऐश करनेका
१. मा प्रतावेव केवलं स्वस्तिकान्तर्गतः पाठः समुपलभ्यते । २. = कृष्टेन पन्त इति कृष्टपच्यानि न कृष्ट च्यान्यकृष्टपच्चानि यानि सस्यानि धान्यानि तैराढये व्याप्ते। ३. = निरीतो ईति रहिते । 'अतिवृष्टिरनावृष्टिमषकाः शलभाः शुकाः। स्वचनं परचक्रं च सप्तैता ईतयः स्मृताः ॥'। ४. = अवृष्टिरहिते । ५. आ इ निप्रमोदि। ६. = कुक्कुटसंपाते वसन्तोति कुक्कुटसंपात्यास्तैः । ७. आ इ लोककृतोद्यमाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org