________________
५८
चन्द्रमचरितम्
न चार्थापत्तिरप्यस्ति सर्वज्ञाभाव साधिनी ।
को ह्यर्थोऽसंभवी तेन विना यस्ततं प्रकल्पयेत् ॥ १०० ॥ नयागमेन सर्वज्ञः कृतकेनेतरेण वा । बाध्यते कर्तृहीनस्य तस्यात्यन्तमसंभवात् ॥ १०१ ॥ कर्तुरस्मरणादिभ्यः कर्त्रभावो न सिद्ध्यति । अज्ञातकर्तृकैर्वाक्यैर्व्यभिचारस्य संभवात् ॥ १०२ ।। न च कश्चिद्विशेषोऽस्ति पौरुषेयेष्वसंभवी । अतीन्द्रियार्थसंवादः सर्वज्ञोक्तेऽपि संभवेत् ॥ १०३ ॥
3
इष्ट अङ्गीकृता ।। ९९ ।। न चेति । सर्वज्ञाभावसाधिनी । सर्वज्ञ। भावस्य साधिनी अर्थापत्तिरपि अर्थापत्तिप्रमाणमपि । न चास्ति न संभवति । तेन विना सर्वज्ञाभावेन विना । असंभव अभावरूपः (अनुपपद्यमान: ) । अर्थः पदार्थः । कोहि न कोपीत्यर्थः । यः को वा । तं सर्वज्ञम् । प्रकल्पयेत् समर्थयेत् । कृरोङ् सामर्थ्यं णिजन्ताल्लिङ् ॥। १०० ।। नेति । कृतकेन पौरुषेयेण, पुरुषप्रोक्तेनेत्यर्थः । इतरेण वा अपौरुषेयेण, अनादिरूपेणेत्यर्थ: । आगमेन आगमप्रमाणेन । सर्वज्ञः । न बाध्यते न निराक्रियते । कर्तृहीनस्य कर्त्रा प्रणेत्रा हीनस्य रहितस्य । अत्यन्तम् असंभवात् अभावात्, ● कर्तृरहितस्यागमस्य सर्वथोऽसंभव इत्यर्थः ।। १०१ ।। कर्त्तरिति । कर्त्तः देवस्य [ वेदस्य ] कर्त्तु: । अस्मरणादिभ्यः वेदः पुरुषेण प्रोक्त इति स्मरणाभावादिभ्यः । कर्त्रभावः वेदकर्त्तुरभावः । न सिद्ध्यति न संभवति । अज्ञातकर्तृकैः अज्ञातः कर्त्ता येषां तैः । वाक्यैः तिङ्सुबन्तचयरूपवाक्यैः । व्यभिचारस्य अनैकान्तिकस्य संभवात् सद्भावात् ।। १०२ ।। न चेति । पौषेयेषु पुरुषप्रोक्तेषु वेदेषु सत्सु, एवं कथनं न संभवतीति कश्चिद्विशेषो नास्ति । अतीन्द्रियार्थसंवादः तेषु न संभवतीति चेत्, सर्वविदुक्ते वेदे सोऽपि संभवत्येव । असंभवो असंभवरूपः । कश्चिद्विशेषः कोऽपिविशेषः । न चास्ति नास्ति । अतीन्द्रियार्थपुरुषका सर्वज्ञ होना असम्भव नहीं है || ९९ || अर्थापत्ति भी सर्वज्ञ के अभावको सिद्ध नहीं कर सकती; क्योंकि ऐसा कोई पदार्थ नहीं, जो सर्वज्ञके अभाव के बिना असम्भव होकर उसके अभावको सिद्ध कर सके । यदि ऐसा कोई पदार्थ हो, जो सर्वज्ञके अभाव में ही हो, तो उसे देखकर सर्वज्ञ अभावकी कल्पना की जा सकती है । किन्तु ऐसा एक भी पदार्थ नहीं है || १०० ॥ यदि आप यह कहें कि आगमसे सर्वज्ञका अभाव सिद्ध होता है, तो यह भी ठीक नहीं; क्योंकि हम आपसे पूछते हैं कि पौरुषेय आगमसे सर्वज्ञका अभाव सिद्ध होता है, या अपौरुषेयसे ? अपौरुषेय आगमसे उसका अभाव सिद्ध नहीं हो सकता; क्योंकि ऐसा आगम अत्यन्त असम्भव है, जो बिना पुरुष के ही बन गया हो ॥ १०१ ॥ कर्ताका स्मरण न होना आदि हेतुओंसे उसके कर्त्ताका अभाव सिद्ध नहीं हो सकता । यदि कर्त्ताके स्मरण न होनेसे किसी आगमको कर्तारहित - पौरुषेय माना जाये, तो ऐसे अनेक वाक्य हैं, जिनके कर्त्ताका किसीको पता नहीं है, अतः उन वाक्योंके साथ उक्त हेतु व्यभिचारी है ॥१०२॥ जिसे आप अपौरुषेय आगम सिद्ध करना चाहते हैं, उसमें ऐसी कोई विशेषता दृष्टिगोचर नहीं होती, जो पौरुषेय आगम में सर्वथा असम्भव हो । यदि आप यह कहें कि अतीन्द्रिय पदार्थों की प्रामाणिक चर्चा अपौरुषेय आगमकी विशेषता है, जो पौरुषेय आगममें असम्भव है, तो यह कहना भी ठीक नहीं; क्योंकि सर्वज्ञ
[ २, १०० -
१. अ आ इ म धनी । २. आ पौरुषेयस्य संभवी । ३ = पौरुषेयेष्वसंभवो कश्चिद्विशेषोऽपौरुषेये
नास्ति । ययातीन्द्रियार्थ संवादोऽपौरुषेये तथा पौरुषेयेऽपि दृश्यते । ४. आ वक्तृ । ५. श स सर्वदा । ६. श स देवपुरुषेण । ७. आसन । ८. आ एषां । ९. = सुप्तिङन्तचयरूपवाक्यैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org