Book Title: Bhartuhari Shataka Trayam Author(s): Bhartuhari, Dharmanand Kosambi Publisher: ZZZ UnknownPage 39
________________ भर्तृहरिकृत - शतकत्रयम् [१.६-७] भवति । गलितं यौवनं यस्याः सा गलितयौवना । द्वितीयमिदं शल्यम् । सरः सरोवरं विगतवारिजं भवति । तृतीयमिदमेव शल्यम् । स्वाकृतेः उद्यमपरस्य पुरुषस्य अनक्षरं, अक्षररहितं मुखं भवति । चतुर्थमिदमेव शल्यम् । प्रभुः स्वामी धनपरायणो भवति लोभवान् भवति । . पश्चममिदमेव शल्यम् । सञ्जनः पुमान् सततं निरन्तरं दुर्गतो भवति निःखो भवति । षष्ठमिदमेव शल्यम् । खलो दुर्जनः नृपाङ्गणगतः सन् राजभवनं प्राप्तः सन् शल्यरूप भवति । अस्य वृत्तेर (त्तस्य) व्याख्या सुगमाऽस्ति । पृथ्वीगुरुच्छन्दः पूर्वोक्तम् ॥ ५ ॥ ร एते प्रकाराः न शोभन्ते न राजन्ते । एते के के ? । मणिः अष्टादशरत्नजातिलक्षणः शाणोली: शाणघर्षणेन हीनतां प्राप्तों न शोभते । अपरं किम् ? । समरविजयी संग्रामजयनशीलः पुमान् हेतिनिहतः शस्त्रपीडितः आयुधहिंसितो वा न शोभते । तथा मदक्षीणो नागो जरीयान् गजेन्द्रो न शोभते । शरदि काले वर्षाभावे सरितो नद्यः श्यानपुलिनाः शुष्कतटाः न शोभन्ते । चन्द्रः कलाशेषः तुच्छकलः सन् न शोभते । बालललना बालिका सुरतमृदिता संभोगपीडिता न शोभते । तथा पुनर्नराः मनुष्याः गलितविभवाः सन्तः अर्थिषु याचकेषु न शोभन्ते । किंभूतास्ते ? । निम्ना अधोमुखाः । मणिः शाणोल्लीढः समरविजयी हेतिनिहतो मदक्षीणो नागः शरदि सरितः यानपुलिनाः । कलाशेषश्चन्द्रः सुरतमृदिता बालललना न निम्नाः शोभन्ते गलितविभवाश्वार्थिषु नराः ॥ ६ ॥ शिखरिणी छन्दः । लक्षणं तस्य - 'रसै रुद्रैरिछन्ना यमनसभला गः शिखरिणी' ।। ६ ।। परिक्षीणः कश्चित् स्पृहयति यवानां प्रसृतये कान्त्या । अवस्था समयः । वस्तूनि पदार्थान् । प्रथयति विस्तारयति । च अन्यत् । संकोचयति संक्षेपयति । कथं कथम् ? । कश्चित् पुमान् परिक्षीणः सन् यवानां प्रसृतये विस्ताराय स्पृहयति वाञ्छां कुरुते । स परिक्षीणः प्राणी पश्चात् संपूर्णः सन् वृद्धिं प्राप्तः सन् धरित्रीं वसुन्धरां तृणसमां तृणसमानां गणयति । अतः अस्मात् कारणाद् धनिनामीश्वराणां अर्थेषु पदार्थेषु गुरुलघुतया अनेकान्तं व्यस्तचित्तत्वमनेकचित्तत्वं वर्तते । यतः समय एव करोति बलोलम् । शिखरिणी छन्दः ॥ ७ ॥ स पश्चात् संपूर्णो गणयति धरित्रीं तृणसमाम् । अतश्चानेकान्तं गुरुलघुतयाऽर्थेषु धनिनाम् अवस्था वस्तूनि प्रथयति च संकोचयति च ॥ ७ ॥ Jain Education International १ च. हेतु । २ ग. क्षाम । ३ ग. बालवनिता । ४ टीका. नराः । ५ ग. घ. For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188