SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ भर्तृहरिकृत - शतकत्रयम् [१.६-७] भवति । गलितं यौवनं यस्याः सा गलितयौवना । द्वितीयमिदं शल्यम् । सरः सरोवरं विगतवारिजं भवति । तृतीयमिदमेव शल्यम् । स्वाकृतेः उद्यमपरस्य पुरुषस्य अनक्षरं, अक्षररहितं मुखं भवति । चतुर्थमिदमेव शल्यम् । प्रभुः स्वामी धनपरायणो भवति लोभवान् भवति । . पश्चममिदमेव शल्यम् । सञ्जनः पुमान् सततं निरन्तरं दुर्गतो भवति निःखो भवति । षष्ठमिदमेव शल्यम् । खलो दुर्जनः नृपाङ्गणगतः सन् राजभवनं प्राप्तः सन् शल्यरूप भवति । अस्य वृत्तेर (त्तस्य) व्याख्या सुगमाऽस्ति । पृथ्वीगुरुच्छन्दः पूर्वोक्तम् ॥ ५ ॥ ร एते प्रकाराः न शोभन्ते न राजन्ते । एते के के ? । मणिः अष्टादशरत्नजातिलक्षणः शाणोली: शाणघर्षणेन हीनतां प्राप्तों न शोभते । अपरं किम् ? । समरविजयी संग्रामजयनशीलः पुमान् हेतिनिहतः शस्त्रपीडितः आयुधहिंसितो वा न शोभते । तथा मदक्षीणो नागो जरीयान् गजेन्द्रो न शोभते । शरदि काले वर्षाभावे सरितो नद्यः श्यानपुलिनाः शुष्कतटाः न शोभन्ते । चन्द्रः कलाशेषः तुच्छकलः सन् न शोभते । बालललना बालिका सुरतमृदिता संभोगपीडिता न शोभते । तथा पुनर्नराः मनुष्याः गलितविभवाः सन्तः अर्थिषु याचकेषु न शोभन्ते । किंभूतास्ते ? । निम्ना अधोमुखाः । मणिः शाणोल्लीढः समरविजयी हेतिनिहतो मदक्षीणो नागः शरदि सरितः यानपुलिनाः । कलाशेषश्चन्द्रः सुरतमृदिता बालललना न निम्नाः शोभन्ते गलितविभवाश्वार्थिषु नराः ॥ ६ ॥ शिखरिणी छन्दः । लक्षणं तस्य - 'रसै रुद्रैरिछन्ना यमनसभला गः शिखरिणी' ।। ६ ।। परिक्षीणः कश्चित् स्पृहयति यवानां प्रसृतये कान्त्या । अवस्था समयः । वस्तूनि पदार्थान् । प्रथयति विस्तारयति । च अन्यत् । संकोचयति संक्षेपयति । कथं कथम् ? । कश्चित् पुमान् परिक्षीणः सन् यवानां प्रसृतये विस्ताराय स्पृहयति वाञ्छां कुरुते । स परिक्षीणः प्राणी पश्चात् संपूर्णः सन् वृद्धिं प्राप्तः सन् धरित्रीं वसुन्धरां तृणसमां तृणसमानां गणयति । अतः अस्मात् कारणाद् धनिनामीश्वराणां अर्थेषु पदार्थेषु गुरुलघुतया अनेकान्तं व्यस्तचित्तत्वमनेकचित्तत्वं वर्तते । यतः समय एव करोति बलोलम् । शिखरिणी छन्दः ॥ ७ ॥ स पश्चात् संपूर्णो गणयति धरित्रीं तृणसमाम् । अतश्चानेकान्तं गुरुलघुतयाऽर्थेषु धनिनाम् अवस्था वस्तूनि प्रथयति च संकोचयति च ॥ ७ ॥ Jain Education International १ च. हेतु । २ ग. क्षाम । ३ ग. बालवनिता । ४ टीका. नराः । ५ ग. घ. For Private & Personal Use Only www.jainelibrary.org
SR No.002520
Book TitleBhartuhari Shataka Trayam
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherZZZ Unknown
Publication Year
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy