________________
[१. ८-१०]
नीतिशतकम् शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा
विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः। तज्जाड्यं वसुधाधिपस्य सुधियो ह्यर्थ विनापीश्वारः • कुत्साः स्युः कुपरीक्षकैर्न मणयो यैरैर्धतः पातिताः ॥ ८॥
यस्य प्रभोः यस्य स्वामिनः विषये देशे कवयः कवीश्वराः निर्धना वसन्ति । किं. कवयः । शास्त्रोपस्कृतशब्दसुन्दरगिरः । शास्त्रेभ्यः उपस्कृता एकत्रीकृता ये शब्दाः तैः सुन्दरा गीर्वाणी येषां ते शास्त्रोपस्कृतशब्दसुन्दरगिरः । पुनः किं० कवयः ? । शिष्यप्रदेयागमाः। शिष्येभ्यः प्रदेयाः दातुं योग्या आगमाः शास्त्राणि [येषां] ते शिष्यप्रदेयागमाः । पुनः किं. कवयः ? । अत एव विख्याताः प्रसिद्धा इत्यर्थः । तत्तु वसुधाधिपस्य राज्ञो जाड्यं मूर्खता । यतो हि निश्चितम् । सुधियः पण्डिताः अर्थ विनापि ईश्वराः निर्ग्रन्थचक्रवर्तिनः । मणयो रत्नानि कुपरीक्षकैः कुत्सिता(कुत्साः) न स्युः कुत्सिता न भवेयुः । यैः कुपरीक्षकैः मूढैरर्धतः पातिताः अर्धमूल्यीकृताः।
शार्दूलविक्रीडितं छन्दः-'सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' ॥अतिशयालंकारः ॥८॥ . विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरैतिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥९॥
हि निश्चितम् । महात्मनाम् उन्नतचित्तानां इदं वक्ष्यमाणं प्रकृतिसिद्धं स्वभावनिष्पन्नम् । इदं किं किम् ? । विपदि कष्टे सति धैर्यम् । अथ पश्चात् । अभ्युदये सति पदवी प्राप्तवति सति क्षमा । सदसि पण्डितसभायां वा राजसभायां वाक्पटुता वचनचातुरी । अथ च युधि संग्रामे विक्रमः पराक्रमः । च अन्यत् । यशसि अभिरतिः संतोषः । च अन्यत् । श्रुतौ शास्ने व्यसनम्। . द्रुतविलम्बितं छन्दः-'द्रुतविलम्बितमाह नभौ भरौ' ॥९॥ ‘अकरुणत्वमकारणविग्रहः'अग्रेऽस्ति वृत्तम् ॥
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु . लक्ष्मीः समाविशतु गच्छतु वा यथेच्छम् । अद्यैव वा मरणमस्तु युगान्तरे वा
न्यायात् पथः प्रेविचलन्ति पदं न धीराः ॥ १० ॥ धीराः पुरुषाः न्यायात्पथः न्यायमार्गात् पदमपि न प्रविचलन्ति । नीतिनिपुणाः पुस्ताः न्यायवन्तः पुरुषात निन्दन्तु निन्दां कुर्वन्तु । वा अथवा । यदि चेत् स्तुवन्तु स्तुति
१ ग. घ. कुत्स्याः । २ क. ख. ग. घ. अर्घतः। ३ ग. रुचि।४ घ. च. यथेष्टम् । ५क.च. प्रति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org