________________
भर्तृहरिकृत शतकत्रयम्
[१. ११-१२] कुर्वन्तु । लक्ष्मीः समाविशतु सम्यग् गृहे समायातु । वा अथवा । यथेच्छं गच्छतु । अद्यैव मरणमस्तु वा अथवा युगान्तरे ।
वसन्ततिलका छन्दः । लक्षणमिदम्-'उक्ता वसन्ततिलका तभजा जगौ गः' ॥ १० ॥ हर्तुति न गोचरं किमपि शं पुष्णाति सर्वात्मना
प्यर्थिभ्यः प्रतिपाद्यमानमनिशं वृद्धि परां गच्छति । कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनं
येषां तान् प्रति मानमुज्झत नृपाः कस्तैः समं स्पर्धते ॥११॥ __हे नृपाः ! येषां विदुषां विद्याख्यमन्तर्धनं वर्तते तान् प्रति मानमुज्झत गर्व परित्यजत । तैः विद्वद्भिः समं कः स्पर्धते ? कः स्पर्धा करोति ? । येषां पण्डितानां विद्याख्यमन्तर्धन हर्तुः हरणशीलस्य पुरुषस्य गोचरं न याति । अन्यच्च किमपि अनिर्वचनीयं शं सौख्यं पुष्णाति । केन ? । सर्वात्मना सर्वबलेन । अपि पुनः । यत् धनं अर्थिभ्यो याचकेभ्यो दीयमानं अनिशं निरन्तरं वृद्धिं गच्छति प्राप्नोति । यद्विद्याख्यमन्तर्धनं कल्पान्तेष्वपि निधनं न प्रयाति विनाशं न गच्छति । तैः पण्डितैः समं का स्पर्धा ? । शार्दूलविक्रीडितं छन्दः ॥ ११ ॥
अधिगतपरमार्थान् पण्डितान् मावमंस्थास्
तृणमिव लघु लक्ष्मी व तान् संरुणद्धि । अभिनवमदलेखाश्यामगण्डस्थलानां __ न भवति बिशतन्तुर्वारणं वारणानाम् ॥ १२ ॥
हे पण्डिता इति मा अवमंस्थाः हे विद्वन् इति मा जानीयाः । इतीति किम् ? । लघुलक्ष्मीःतान् पण्डितान् न संरुणद्धि न व्यामोहयति । किं० पण्डितान् ? । अधिगतपरमार्थान् । अधिगतो ज्ञातः परमार्थो यैस्ते, तान् अधिगतपरमार्थान् ज्ञाततत्त्वान् । किं० लक्ष्मीः ? । [लघु ] तृणमिव न किंचिदित्यर्थः । अमुमेवार्थ कविदृष्टान्तेन द्रढयति । बिशतन्तुः पद्मिनीतन्तुः वारणानां गजानां वारणं न भवति । किं० वारणानाम् ? । अभिनवमदलेखाश्यामगण्डस्थलानाम् । अभिनवा या मदलेखा अभिनवमदलेखास्तानिः श्यामो गल्लस्थलो येषां ते अभिनवमदलेखाश्यामगल्लस्थलास्तेषाम् ।
मालिनी छन्दः- 'ननमयययुतेयं मालिनी भोगिलोकैः' ॥ १२ ॥ क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलोणोऽपि कष्टां दशाम्
आपन्नोऽपि विपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि । १ ग. घ. यत्सर्वदा। २ घ. प्राप्नोति वृद्धि पराम्। ३ ग. घ. ज. सह । ४ हं. लेखश्याम' टीकायामपि च। ५ क. ख. र. प्रायोपि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org