________________
[ १. १३-१५]
नीतिशतकम् मत्तेभेन्द्रविभिन्नकुम्भकवलग्रासैकबद्धस्पृहः
किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केशरी ॥ १३ ॥ केशरी सिंहः किं जीणं तृणं अत्ति भक्षयति ? । अपि तु न। किं० सिंहः। क्षुत्क्षामः क्षुधा क्षामः क्षुत्क्षामः । पुनः कथंभूतः ? । जराकृशोऽपि वार्धक्यदुर्बलोऽपि । शिथिलप्राणोऽपि हीनपराक्रमोऽपि । पुनः कथं० । कष्टां दशामापन्नोऽपि दुःखावस्थां प्राप्तोऽपि । पुनः कथं० । विपनदीधितिरपि अस्ततेजोऽपि । केषु सत्सु ? । प्राणेषु गच्छत्स्वपि । पुनः कथं० सिंहः ? । मत्तेभेन्द्रविभिन्नकुम्भकवलग्रासैकबद्धस्पृहः । मत्तश्चासौ इभेन्द्रः मत्तेभेन्द्रः, तस्य विभिन्नं विदारितं यत्कुम्भं कुम्भस्थलं तदेव कवलम् , तस्य ग्रासे एका बद्धा स्पृहा वाञ्छा यस्य सः । पुनः कथं० ? । मानमहतां अग्रेसरः अहंकारिणां धुरीणः । शार्दूलविक्रीडितं छन्दः ॥ १३ ॥
असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः
प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां
सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ १४ ॥ सतां उत्तमानां इदं विषमं असिधाराव्रतं केनोद्दिष्टं केन कथितम् । इदं साभिप्राय वचः । इदं किम् ? । महता पुरुषेण असन्तो नीचाः न अभ्यर्थ्याः न याच्याः । च अन्यत् । सुहृदपि मित्रोऽपि कृशधनो गतवित्तो न याच्यः । च अन्यत् । सतां न्याय्या वृत्तिः प्रिया वल्लभा । च अन्यत् । सतां मलिनं कर्म असुभङ्गेऽपि प्राणत्यागेऽपि असुकरं दुःकरम् । च अन्यत् । सतां विपदि सति कष्ट सति, उच्चैः स्थेयं मानपरायणैः स्थातव्यम् । च अन्यत् । महतां पदमनु लक्ष्यीकृत्य विधेयं कर्तव्यम् ।।
शिखरिणी छन्दः । तस्य लक्षणम्-'रसै रुद्वैश्छिन्ना यमनसभला गः शिखरिणी' ॥ १४ ॥ मनसि वचसि काये पुण्यपीयूषपूर्णाम्
त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः । परगुणपरमाणून् पर्वतीकृत्य नित्यं
निजहृदि विकसन्तः सन्ति सन्तः कियन्तः॥ १५ ॥ कियन्तः सन्तः एवंविधाः सन्ति । सन्तः किं कुर्वन्तः ? । निजहदि विकसन्तः । किं कृत्वा ? । परगुणपरमाणून् नित्यं निरन्तरं पर्वतीकृत्य । किं० सन्तः ? । मनसि वचसि काये पुण्यपीयूषपूर्णाः । [.. मनसि चित्ते वचसि वचने काये शरीरे च पुण्यामृतभृतः] । पुन किं कुर्वन्तः । उपकारश्रेणिभिः त्रिभुवनं प्रीणयन्तः। मालिनी छन्दः ॥ १५ ॥
१ घ. कचिट्टीकासु च. केसरी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org