________________
भर्तृहरिकृत-शतकत्रयम्
[१. १६-१८] इतः स्वपिति केशवः कुलमितस्तदीयद्विषाम्
इतश्च शरणार्थिनः शिखरिपत्रिणः शेरते । इतश्च वडवानलः सह समस्तसंवर्तकैः __ अहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥ १६ ॥
अहो इति आश्चर्ये । सिन्धोः समुद्रस्य वपुः शरीरं विततं (हं. चिंतितं) विस्तीर्णम् । ऊर्जितं गर्जितं [ट. बलयुक्तं] वा । च अन्यत् । भरसहं भारक्षमं विलोक्यताम् । केन प्रकारेण ? । इतः एकस्मिन् प्रदेशे, केशवो नारायणः स्वपिति शयनं कुरुते । वर्षाकाले जलशायित्वात् । इतः अन्यस्मिन् प्रदेशे, तदीयद्विषां तस्य नारायणस्य वैरिणां कुलं कुटुम्बम् । च अन्यत् । इत: कस्मिंश्चिदपि प्रदेशे, शिखरिपत्रिणः पर्वतपक्षिणः शेरते शयनं कुर्वते। इतः कस्मिंश्चिदपि प्रदेशे, समस्तसंवर्तकैः जीवैः समं सह वडवानलो वर्तते ।
पृथ्वीगुरुच्छन्दः-'जसौ जसजला वसुग्रहयतिश्च पृथ्वी गुरुः' ॥ १६ ॥ उदन्वच्छन्ना भूः स च निधिरपां योजनशतं
सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः ___सतां प्राज्ञोन्मषः पुनरयमसीमा विजयते ॥ १७ ॥
प्रायो बाहुल्येन वा सर्वेऽपि भावाः निखिला अपि पदार्थाः । इति अमुना प्रकारेण । स्फुरदवधिमुद्रामुकुलिताः मुद्राङ्किता वर्तन्ते । कोऽर्थः ? । स्फुरन्ती या अवधिमुद्रा स्फुरदवधिमुद्रा, ताभिः मुकुलिताः मर्यादीकृताः संनिबद्धा इत्यर्थः । के के भावाः ? । इतीति किम् । भूः पृथ्वी उदन्वच्छन्ना वर्तते समुद्रान्ता वर्तते । स च अपां निधिः योजनशतं योजनानां शतं शतसहस्रलक्षादियोजनप्रमित इत्यर्थः । पूषा पान्थः सदा सर्वदा गगनपरिमाणं कलयति आकाशसीमा मर्यादां करोति । पुनः पुनरपि । अयं सतां उत्तमानां प्राज्ञोन्मेषः मतिसमुल्लासः असीमा मर्यादारहितो विजयते सर्वोत्कर्षेण वर्तते । सतां उत्तमानां प्राज्ञोन्मेषस्य मतिवैभवस्य सीमा नास्तीत्यर्थः । शिखरिणी छन्दः ॥ १७॥
कचिद् भूमौ शय्या क्वचिदपि च पर्यङ्कर्शयनः
क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः । कचित् कन्थाधारी क्वचिदपि च दिव्याम्बरधरो
मनखी कार्यार्थी गणयति न दुःखं न च सुखम् ॥ १८ ॥ १ टीकासु शय्यः। २ क्वचिन्मातृकासु शयनं। ३ घ. ट. न गणयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org