________________
[१. १९-२०
नीतिशतकम् प्राणी कचिद् भूमौ शय्यो भवति । च अन्यत् । क्वचिदपि च पयङ्कशयनः । कोऽर्थः । शय्याभावे प्राणी कर्करकण्टकाकुलायां भूमौ शयनं कुरुते । लाभे सति क्वचिदपि च पर्यशयनो भवति । च अन्यत् । भोजनाभावे क्वचिच्छाकाहारो भवति । अपि पुनर्लाभे सति कचिच्छाल्योदनरुचिर्भवति । शालेरोदनं शाल्योदनम् , शाल्योदनस्य रुचिः शाल्योदनरुचिः । विरूपान्नं न रोचते इत्यर्थः । च अन्यत् । क्वचिदिव्याम्बरधरः क्वचित्कन्थाधारी स्यात् । तत् किम् ? । मनस्वी पुमान् कार्यार्थी दुःखं च अन्यत् सुखं न गणयति । शिखरिणी छन्दः ॥ १८ ॥
ये संतोषसुखप्रमोदमुदितास् तेषां न भिन्ना मुदो
ये त्वन्ये धनलुब्धसंकुलधियस् तेषां न तृष्णा हेता । इत्थं कस्य कृते कृतः स विधिना ताहक पदं संपदा
स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ १९ ॥ अयं मेरुमें मह्यं न रोचते न सुखायते । विधिना दैवेन । स मेरुः इत्थं अमुना प्रकारेण ताहक संपदां पदं तादृक् सुवर्णानां भाजनं कस्य कृते कृतः । अपि तु न कस्यापि । इत्थं कथम् ? । ये यतीश्वराः संतोषसुखप्रमोदमुदिताः तेषां मुदो न भिन्नाः । संतोषो न स्फेटितः (ट. संतोषेण स्फोटितः) संतोषस्य सुखं संतोषसुखं तस्य योऽसौ प्रमोदो हर्षः तेन मुदिता हर्षिताः (ट. हृष्टाः)। तु पुनः । अन्ये ये धनलुब्धसंकुलधियस्तेषां तृष्णा न हता न हृता । कि० मेरुः ? । स्वात्मन्येव समाप्तहेममहिमा । एतावता अयं मेरुन किंचिदपि । शार्दूलविक्रीडितं छन्दः ॥ १९ ॥ '
नमस्यामो देवान् ननु हतविधेस् तेऽपि वशगा
विधिर्वन्द्यः सोऽपि प्रतिनियतकमैकफलदः । फलं कर्मायत्तं यदि किममरैः किं च विधिना
नमस् तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ २० ॥ इदानीं कर्मणः स्वरूपं विवक्षुरित्याह कविः यद्देवान् नमस्यामः । कथम् ? । सकलकार्यकरणसामर्थ्यात् । कश्चिदपि समधिक इत्याशङ्कयाह-पुनः ननु इत्याक्षेपे । ते अपि देवा हतविधेर्वशगाः वर्तन्ते । तदा(द)धीनत्वात् । अतः कारणात् सोऽपि विधिर्वन्धः। किं० विधिः । नियतकर्म प्रति एकफलदः । पुनराशङ्कयाह-यदि फलं कर्मायत्तं तदा किममरैः किं च विधिना। [तव] तस्मात् कारणात् कर्मभ्यो नमः । देवदानवमानवगणगन्धर्वादिकानां वश्यकरणत्वात् येभ्यः कर्मभ्यो विधिरपि न प्रभवति । शिखरिणी छन्दः ॥ २० ॥ १च. 'लब्ध । २ घ. छ. उ. हता। ३८. एवं । ४ ग. घ. च. ट. कर्मेभ्यो ।
२ शतकत्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org